SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ९१ - श्रुतस्कन्धः-१, अध्ययनं २, उद्देशक: ॥१॥ “दव्वंपज्जवविजुयं दव्वविउत्ता य पज्जवा नत्थि। उप्पायट्टिइभंगा हंदि दवियलक्खणं एवं ॥ ॥२॥ नयास्तव स्यात्पदलाञ्छिता इमे, रसोपविद्धा इव लोहघातवः । __ भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः॥" इत्यादिस्वयूथ्यैरत्रबहुविजृम्भितमित्यलं विस्तरेण ।एतदेवनियुक्तिकारः समस्तद्रव्यप्रधाने जीवद्रव्ये गुणभेदेन व्यवस्थितमाहनि. [१७१] संकुचियवियसियत्तं एसो जीवस्स होइ जीवगुणो। पूरेइ हंदि लोगंबहुप्पएसत्तणगुणेणं॥ वृ.जीवो हि सयोगिवीर्यसद् द्रव्यतया प्रदेशसंहारविसर्गाभ्यामाधारवशात् प्रदीपवत् सङ्कुचति विकसति च, एष जीवस्यात्मभूतो गुणो, भेदं विनाऽपि षष्ठयुपलब्धेः, तद्यथा-राहोः शिरः शिलापुत्रकस्य शरीरमिति, तद्भव एव वा सप्तसमुद्घातवशात् सङ्कुचतिविकसति च, सम्यक्-समन्ततः उत्-प्राबल्येन हननम्-इतश्चेतश्चात्मप्रदेशानां प्रक्षेपणं समुद्घातः, स च कषायवेदनामारणान्तिकवैक्रियतैजसाहारककेवलिसमुद्घातभेदात् सप्तधा, तत्र कषायसमुद्घातोऽनन्तानुबन्धिइक्रोधाधुपहतचेतस आत्मप्रदेशानामितश्चेतश्च प्रक्षेपः, इत्येवं तीव्रतरवेदनोपहतस्यापि वेदनासमुद्घातः, मारणान्तिकसमुद्घातो हि मुमूर्षोरसुमत आदित्सितोत्पत्तिप्रदेशेआलोकान्तादात्मप्रदेशानांभूयो भूयःप्रक्षेपसंहाराविति, वैक्रियसमुद्घातो वैक्रियलब्धिमतो वैक्रियोत्पादनाय बहिरात्मप्रदेशप्रक्षेपः, तैजससमुद्घातस्तैजसशरीरनिमित्तं तेजोलेश्यालब्धिमतस्तेजोलेश्याप्रक्षेपावसरे इति, आहारकसमुद्घातश्चतुर्दशपूर्वविद आहारकलब्धिमतः कचित्सन्देहापगमनाय तीर्थङ्करान्तिकगमनार्थमाहारकशरीरं समुपादातुं बहिरात्मप्रदेशप्रक्षेपः, केवलिसमुद्घातं तु समस्तलोकव्यापितयाऽन्तर्नीतान्यसमुद्घातं नियुक्तिकारः स्वत एवाचष्टे- 'पूरयति' व्याप्नोतिहन्दीत्युपप्रदर्शने, किम्? -'लोकं चतुर्दशरज्ज्वात्मकमाकाशखण्डं, कुतो?,बहुप्रदेशगुणत्वात्, तथाहि-उत्पन्नदिव्यज्ञानआयुषोऽल्पत्वमवधार्य वेदनीयस्य च प्राचुर्यं दण्डादिक्रमेण लोकप्रमाणत्वादात्मप्रदेशानां लोकमापूरयति, तदुक्तम् - "दंड कवाडे मंथंतरे य'त्ति गाथार्थः ।।गतो द्रव्यगुणः, क्षेत्रादिकमाहनि. [१७२] देवकुरु सुसमसुसमा सिद्धी निब्भय दुगादिया चेव। कल भोअणुजु वंके जीवमजीवे य भावंमि॥ वृ.क्षेत्रगुणः देवकुर्वादिः, कालगुणेसुषमसुषमादिः, फलगुणेसिद्धिः पर्यवगुणेनिर्भजना, गणनागुणेद्विकादि, करणगुणेकलाकौशल्यम्, अभ्यासगुणेभोजनादि,गुणागुणेऋजुता,अगुणगुणे वक्रता, भवगुणशीलगुणयोर्भावगुणार्थमुपात्तेनजीवग्रहणेन गतार्थत्वाद्गाथायांपृथगनुपादानं, भवगुणो जीवस्य नारकादिर्भवः, शीलगुणोजीवः क्षान्त्याधुपेतो, भावगुणोजीवाजीवयोः, इति संयोज्यैकैको व्याख्यायते - तत्र देवकुरुत्तरकुरुहरिवर्षरम्यकहैमवतहैरण्यवतषट्पञ्चाशदन्तरद्वीपकाकर्मभूमीनामयं गुणो, यदुत तत्रत्यमनुजा देवकुमारोपमाः सदावस्थितयौवना निरुपक्रमायुषोमनोज्ञशब्दादिविषयोपभोगिनःस्वभावमाईवार्जवप्रकृतिभद्रकगुणासन्नदेवलोकगतयश्च भवन्ति । कालगुणोऽपि भरतैरावतयोस्तिसृष्वप्येकान्तसुषमादिषु समासु स एव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy