SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ८६ आचाराङ्ग सूत्रम् १/-/१/७/परिगृह्यते, यतो न कदाचिदात्मनो गुणिनस्तेन ज्ञानास्येन गुणेन वियोगोऽस्ति, ततोऽसौ सहभावी गुणः, अतो बहुविधवक्तव्यं नयमार्गमवधार्यापि सङक्षेपात् ज्ञानाचरणयोरेव स्थातव्यमिति निश्चयो विदुषां न चाभिलषितप्राप्तिः केवलेन चरणेन ज्ञानहीनत्वात्, अन्धगमिक्रियाप्रतिविशिष्टप्रदेशप्राप्तिवत्, न च ज्ञानमात्रेणाभीष्टप्राप्तिः, क्रियाहीनत्वात्, चक्षुर्ज्ञानसमन्वितपह्नुपुरुषअर्धदग्धनगरमध्यावस्थितयथावस्थितदर्शिज्ञानवत् तस्मादुभयं प्रधानं, नगरदाहिनिर्गमे पङ्गवन्धसंयोगक्रियाज्ञानवत्। एवभिदमाचाराङ्गसन्दोहभूतं प्रथमाध्ययनं षड्जीवनिकायस्वरूपरक्षणोपायगर्भमादिमध्यावसानेषु दयैकरसमेकान्तहितापत्तिकारि मुमुक्षुणा यदाऽधीतं भवति सूत्रतः शिक्षणार्थतश्चावधृतं भवति श्रद्धानसंवेगाभ्यां च यथावदात्मीकृतं भवति ततोऽस्य महाव्रतारोपणमुपस्थापनं परीक्ष्य निशीथाद्यभिहितक्रमेणसचित्तपृथिवीमध्यगमनादिना श्रद्दधानस्य सर्वं यथाविधि कार्यम् । कः पुनरुपस्थापने विधिरिति ?, अत्रोच्यते, शोभनेषु तिथिकरणनक्षत्रमुहूर्तेषु द्रव्यक्षेत्रभावेषु च भगवतां प्रतिकृतीरभिवन्द्य प्रवर्द्धमानाभिः स्तुतिभिः अथ पादपतितोत्थितः सूरिः सह शिक्षकेण महाव्रतारोपणप्रत्ययं कायोत्सर्गमुत्सार्यैकैकं महाव्रतमादित आरभ्य त्रिरुच्चारयेद् यावन्निशिभुक्तिविरतिरविकला त्रिरुच्चारिता, - पश्चादिदं त्रिरुच्चरितव्यम् -' इच्चेइयाइं पंच महव्वयाइं राइभोयणवेरमणछठ्ठाई अत्तहियठ्ठयाए उपसंपचित्ता णं विहरामि' पश्चाद्वन्दनकं दत्त्वोत्थितोऽभिधत्ते अवनताङ्गयष्टि:'संदिशत किं भणामी 'ति ?, सूरिः प्रत्याह- 'वन्दित्वाऽभिधत्स्वे' त्येवमुक्तोऽभिवन्द्योत्थितो भणति' युष्माभिर्मम महाव्रतान्यारोपितानि इच्छाम्युनुशिष्टि' मिति, आचार्योऽपि प्रणिगदति - 'निस्तारकपारगो भवाचार्यगुणैर्वर्द्धस्व' वचनविरतिसमनन्तरं च सुरभिवासचूर्णमुष्टिं शिष्यस्य शिरसि किरति, पश्चाद्वन्दनकं दत्त्वा प्रदक्षिणीकरोत्याचार्यं नमस्कारमावर्त्तयन्, पुनरपि वन्दते, तथैव च करोति सकलक्रियानुष्ठानम्, एवं त्रिप्रदक्षिणीकृत्य विरमति शिष्यः, शेषाः साधवश्चास्य मूर्ध्नि युगपद्वासमुष्टिं विमुञ्चन्ति सुरभिपरिमलांयतिजनसुलभकेसराणिवा, पश्चात्कारितकार्योत्सर्गः सूरिरभिदघाति- गणस्तव कोटिकः स्थानीयं कुलं वैराख्या शाखा अमुकाभिधान आचार्यउपाध्यायश्च, साध्व्याः प्रवर्त्तिनी तृतीयोद्देष्टव्या, यथाऽऽसन्नं चोपस्थाप्यमाना रत्नाधिका भवन्ति, पश्चादाचाम्लं निर्विकृतिकं वा स्वगच्छसन्ततिसमायातमाचरन्तीति । एवमेतदध्ययनमादिमध्यान्तकल्याणकलापयोगि भव्यजनतामनःसमाधानाधायि प्रियविप्रयोगादिदुःखावर्त्तबहुलकषायझषादिकुलाकुलविषमसंसृतिसरित्तारणसमर्थममलदयैकरसमसकृदभ्यसितव्यं मुमुक्षुणेति ॥ अध्ययनं -१ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता प्रथमश्रुतस्कन्धे प्रथम मध्ययनटीका परिसमाप्ता । अध्ययनं - २ - लोकविजयः नमः श्रीवर्द्धमानाय, वर्द्धमानाय पर्ययैः । उक्ताचारप्रपञ्चाय, निष्प्रपञ्चाय तायिने ॥ For Private & Personal Use Only 11911 Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy