________________
श्रुतस्कन्धः-१, अध्ययनं-१,उद्देशक:७
तदुपादानाय यलं कुर्यादित्यर्थः, किं पुनः तदकरणीयं नान्वेषणीयमिति?, उच्यते, 'पापं कर्म' अधःपतनकारित्वात्पापंक्रियतइतिकर्म, तच्चाष्टादशविघंप्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहकोधमानमायालोभप्रेमद्वेषकलहाम्याख्यानपैशून्यपरपरिवादारत्यरतिमायामृषामिथ्यादर्शनशल्याख्यमिति, एवमेतत् पापमष्टादशभेदं नान्वेषयेत्-न कुर्यात् स्वयं न चान्यं कारयेत् न कुर्वाणमन्यमनुमोदेत । एतदेवाह - 'तं परिण्णाय मेहावी'त्यादि 'तत्' पापमष्टादशप्रकारंपरिःसमन्तात्ज्ञात्वामेधावी-मर्यादावान्नैवस्वयंषड्जीवनिकायशस्त्रस्वकायपरकायादिभेदंसमारभेत नैवान्यैः समारम्भयेत् नचान्यान्समारभमाणान् समनुजानीयात्, एवं यस्यैते सुपरीक्ष्यकारिणः षड्जीवनिकायशस्त्रसमारम्भाः तद्विषियाः पापकर्मविशेषाः परिज्ञाता ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च, स एव मुनिः प्रत्याख्यातकर्मत्वात्-प्रत्याख्याताशेषपापागमत्वात्, तदन्यैवंविधपुरुषवदिति । इतिशब्दोऽध्यनपरिसमाप्तिप्रदर्शनाय, ब्रवीमीति सुधर्मस्वाम्याह स्वमनीषिकाव्यावृत्तये, भगवतोऽपनीतघनघातिकर्मचतुष्टयस्यसमासादिताशेषपदार्थाविर्भावकदिव्यज्ञानस्य प्रणताशेषगीर्वाणाधिपतेश्चतस्त्रिंशदतिशयसमन्वितस्य श्रीवर्द्धमानस्वामिन उपदेशात्सर्वमेतदाख्यातंयदतिक्रान्तंमयेति।उक्तःसूत्रानुगमः निक्षेपश्चससूत्रस्पर्शनियुक्तिः।
अधनन-१, उद्देशकः-७ समाप्तः सम्प्रतिनयानैगमादयः,तेचान्यत्रसुविचारिताः, सङक्षेपतस्तुसर्वेऽपिएतेद्वेषा भवन्ति, ज्ञाननयाश्चरणनयाश्च, तत्र ज्ञाननया ज्ञानमेव प्रधानं मोक्षसाधनमित्यध्यवस्यन्ति, हिताहितप्राप्तिपरिहारकारित्वात् ज्ञानस्य, तत्पूर्वकसकलदुःखप्रहाणाच्चज्ञानमेवन तुक्रिया, चरणनयास्तु चरणस्यप्राधान्यभिदधति,अन्वयव्यतिरेकसमधिगम्यत्वात्सकलपदार्थानां, तथाहि-सत्यपिज्ञाने सकलवस्तुग्राहिणिसमुल्लसितेनचरणमन्तरेण भवधारणीयकर्मोच्छेदः, तदनुच्छेदाच्चमोक्षालाभः, तस्मात्रज्ञानंप्रधानं, चरणेपुनःसतिसर्वमूलोत्तरगुणाख्येघातिकर्मोच्छेदः, तदुच्छेदात्, केवलावबोधप्राप्तिः, ततश्चयथाख्यातचारित्रवहिज्वालाकलापप्रतापितसकलकर्मकन्दोच्छेदः,तदुच्छेदादव्याबाधसुखलक्षणमोक्षावाप्तिरिति, तस्माचरणं प्रधानमित्यध्यवस्यामः । अत्रोच्यते, उभयमप्येतन्मिथ्यादर्शनं, यत उक्तम्॥१॥ "हयं नाणं कियाहीणं, हया अन्नाणओ किया।
पासंतो पंगुलो दड्ढो, धावमाणोय अंघओ॥" तदेवंसर्वेऽपिनयाः परस्परनिरपेक्षामिथ्यात्वरूपतयानसम्यग्भावमनुभवन्ति,समुदितास्तु यथावस्थितार्थप्रतिपादनेन सम्यक्त्वं भवन्ति, यत उक्तम्॥१॥ “एवं सब्वेविनया मिच्छादिट्ठी सपक्खपडिबद्धा।
अण्णोण्णणिस्सिया पुण हवंतिते चैव सम्मत्तं॥" तस्मादुभयं परस्परसापेक्षमोक्षप्राप्तये अलं, न प्रत्येकं ज्ञानंचरणं चेति, निर्दोषः खल्वेष पक्ष इति व्यवस्थितं। तथा चोभयप्राधान्यदिदर्शयिषयाह॥ सव्वेसिपि नयाणंबहुविधक्तव्वयं निसामेत्ता।
तं सव्वनयविसुद्धंजंचरणगुणट्ठिओ साहू॥ चरणं च गुणश्च चरणगुणौ तयोः स्थितश्चरणगुणस्थितः, गुणशब्दोपादानात् ज्ञानमेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org