________________
श्रुतस्कन्धः - १, अध्ययनं - २, उपोद्घात :
॥२॥
८७
शस्त्रपरिज्ञाविवरणमतिगहनमितीव किल वृतं पूज्यैः । श्रीगन्धहस्तिमिश्रर्विवृणोमि ततोऽहमवशिष्टम् ।।
वृ. उक्तं प्रथमाध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः- इह हि मिथ्यात्वोपशमक्षयक्षयोपशमान्यतरावाप्तसम्यग्दर्शनज्ञानकार्यस्यात्यन्तिकैकान्तानाबाधपरमानन्द
स्वतत्त्वसुखानावरणज्ञानादर्शनलक्षणलक्षितमोक्षकारणस्याश्रवनिरोधनिर्जरारूपस्य
मूलोत्तरगुणभेदभिन्नस्य चारित्रस्यापराशेषव्रतवृतिकल्पनिष्पादितिनिष्प्रत्यूहसकलप्राणिगणसङ्घट्टनपरितापनापद्रावणनिवृत्तिरूपस्य संसिद्धये मरणाभावप्रसङ्गादभूतगुणात्मधर्म्मज्ञानोपलब्धेर्बार्हस्पत्यमतनिरासेन सामान्यतो जीवास्तित्वं प्रतिपाद्य विशेषतश्च बौद्धादिमतिनिरासेनैकेन्द्रियावनिवजाननलपवनवनस्पतिभेदांश्च जीवान् प्रकटय्य यथाक्रमं समानजातीयाश्मलताद्युभेददर्शनादर्शोमांसाङ्कुरवत् अविकृतभूमिखननोपलब्धेर्म्मण्डूकवत् विशिष्टाहारोपचयापचयशरीराभिवृद्धिक्षयान्वयव्यतिरेकगतेरर्भकशरीरवत् अपरप्रेरिताप्रतिहितानियततिर
श्चीनगमनाद्गवाश्वादिवत् सालक्तकनूपुरालङ्कारकामिनीचरणताडनविकारधिगतेः कामुकवदित्यादिभिः प्रयोगैः तथोच्चैः शिर उद्घाट्य सूक्ष्मबादरद्वित्रिचतुष्पञ्चेन्द्रियसंज्ञीतरपर्याप्तक अपर्याप्तकभेदांश्च प्रदर्श्य शस्त्रं च स्वकायपरकायभेदभिन्नं तद्वधे बन्धं विरतिं च प्रतिपाद्य पुनरपि तदेव चारित्रं यथा सम्पूर्णभावमनुभवति तथाऽनेनाध्ययनेनोपदिश्यते,
-तथाहि-अधिगतशस्त्रपरिज्ञासूत्रार्थस्य तत्प्रतिपादितैकेन्द्रियपृथिवीकायादि श्रद्दधानस्य सम्यक् तद्रक्षापरिणामवतः सर्वोपाधिशुद्धस्य तद्योग्यतयाऽऽरोपितपञ्चमहाव्रतभारस्य साधार्यथा रागादिकषायलोकस्य शब्दादिविषयलोकस्य वा विजयो भवति तथाऽनेनाध्ययनेन प्रतिपाद्यते । तथा च निर्युक्तिकारेणाध्ययनार्थाधिकारः शस्त्रपरिज्ञायां प्राग्निरदेशि - “लोओ जह बज्झइ जहय तं विजहियव्वं’'ति, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति । तत्र सूत्रार्थकथनमनुयोगः, तस्य द्वाराणि उपाया व्याख्याङ्गानीत्यर्थः, तानि चोपक्रमादीनि, तत्रोपक्रमो द्वेधा - शास्त्रानुगतः शास्त्रीयः लोकानुगतो लौकिक इति, निक्षेपस्त्रिधाओधनामसूत्रालापकनिष्पन्नभेदात्, अनुगमो द्वेधा सूत्रानुगमो निर्युक्त्यनुगमश्च, नया-नैगमादयः । तत्र शास्त्रीयोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा - अध्ययनार्थाधिकार उद्देशार्थीधिकारश्च, तत्राध्ययनार्थाधिकारोऽध्ययनसम्बन्धे शस्त्रपरिज्ञायां प्रागेव निरदेशि, उद्देशार्थाधिकारं तु स्वयमेव निर्युक्तिकारः प्रचिकटयिषुराह -
-: अध्ययनं-२, उद्देशकः-१ :
नि. [१६३ ] सयणेय अदढत्तं बीयगंमि माणो अ अत्थसारो अ । भोगेसु लोगनिस्साइ लोगे अममिजया चेव ॥
वृ.तत्र प्रथमोद्देशकार्थाधिकारः 'स्वजने' मातापित्रादिके अभिष्वङ्गोऽधिगतसूत्रार्थेन न कार्य इत्यध्याहारः, तथा च सूत्रम्- 'माया मे पिया मे' इत्यादि १, 'अदढत्तं बीयगंमि' त्ति द्वितीय उद्देशके अद्दढत्वं संयमे न कार्यमिति शेषः, विषयकषायादौ चाद्दढत्वं कार्यमिति, वक्ष्यति च 'अरइं आउट्टे मेहावी' २, तृतीय उद्देशके 'मानो अ अत्थसारो अत्ति जात्याद्युपेतेन साधुना कर्म्म वशाद्विचित्रतामवगम्य सर्वमदस्थानानां मानो न कार्यः, आह च - ' के गोआवादी ? के
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org