________________
श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:७
८१
तथा आदिसूत्रसम्बन्धश्च सुयं मे आउसंतेण' मित्यादि, किंतत् श्रुतं?, यागुपदिष्टं, तथैतच्च
मू. (५६) पहू एजस्स दुगुंछणाए।
वृ. 'दुगुज्छण'त्ति जुगुप्सा प्रभवतीति प्रभुः-समर्थः योग्यो वा, कस्य वस्तुनः समर्थ इति?, एजूकम्पने एजतीत्येजोवायुःकम्पनशीलत्वात्तस्यैजस्य जुगुप्सा-निन्दा तदासेवनपरिहारो निवृत्तिरितियावत्, तस्या-तद्विषये प्रभुर्भवति, वायुकायसमारम्भनिवृत्तौ शक्तो भवतीतियावत्, पाठान्तरं वा ‘पहूय एगस्संदुगुंछणाए' उद्रेकावस्थावर्त्तिनैकेन गुणेन स्पर्शाख्येनोपलक्षितइत्येकोवायुस्तस्यैकस्य एकगुणोपलक्षितस्य वायोर्जुगुप्सायां प्रभुः, चशब्दात् श्रद्धाने च प्रभुर्भवतीति, अर्थात् यदि श्रद्धाय जीवतया जुगुप्सते ततः॥
योऽसौ वायुकायसमारम्भनिवृत्तौ प्रभुरुक्तस्तं दर्शयति
मू. (५७) आयंकदंसी अहियंति नच्चा, जे अज्झत्थं जाणइ से बहिया जाणइ, जे बहिया जाणइ से अज्झत्थं जाणइ, एयं तुलमन्नेसि ।।
वृ. 'तकि कृच्छ्रजीवन' इत्यातङ्कनमातङ्क:-कृच्छ्रजीवनं-दुःखं, तच्च द्विविध-शारीरंमानसं च, तत्राद्यं कण्टकक्षारशस्त्रगण्डलूतादिसमुत्थं, मानसं प्रियविप्रयोगाप्रियसम्प्रयोगोप्सितालाभदारिद्यदौर्मनस्यादिकृतम्, एतदुभयमातङ्कः, एनमाततपश्यतितच्छीलश्चेत्यातकदर्शी, अवश्यमेतदुभयमपि दुःखमापतति मय्यनिवृत्तवायुकायसमारम्भे, ततश्चैतद्वायुकायसमारम्भणमातङ्कहेतुभूतमहितमिति ज्ञात्वैतस्मान्निवर्त्तने प्रभुर्भवतीति । यदिवाऽऽतङ्को द्वेधाद्रव्यभावभेदात्, तत्र द्रव्यातङ्के इदमुदाहरणम् - ॥१॥ _ 'जंबुद्दीवे दीवे भरहे वासंमि अस्थि सुपसिद्धं ।
बहुनयरगुणसमिद्धं रायगिहं नाम नयरंति ।। ॥२॥ तत्थासि गरुयदरियारिमद्दणो भुयणनिग्गयपयावो ।
अभिगयजीवजीवो राया नामेण जियसत्तू॥ ॥३॥ अनवरयगरुयसंवेगभाविओ धम्मघोसपामूले ।
सो अन्नय कयाई पमाइणं पासए सेहुँ ।। ॥४॥ चोइज्जंतमभिक्खं अवराहं तं पुणोऽवि कुणमाणं ।
तस्स हियटुं राया सेसाण य रक्खणट्टाए। ॥५॥ आयारियाणुण्णाए आणावइ सोइ निययपुरिसेहिं ।
तिव्बुक्कडदव्वेहिं संधियपुव्वं तहिं खारं ।। ॥६॥ पक्खित्तो जत्थ नरो नवरं गोदोहमेत्तकालेणं ।
निजिण्णमंससोणिय अट्ठियसेसत्तणमुवेइण ।। ॥७॥ दो ताहे पुव्वमए पुरिसे आणावए तहिं राया।
एगं गिहत्थवेसंबीयंपासंडिणेवत्थं ॥ ॥८॥ पुव्वं चिय सिक्खविए ते पुरिसे पुच्छए तहिं राया।
को अवराहो एसिं? भणंति आणं अइक्कमइ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org