________________
आचाराङ्गसूत्रम् १/-19/७/- [नि. १६७]
'आदेशो' व्यपदेशोऽसत्यपि रूप इति, अत्र चासच्छब्दो नाभाववचनः, किं त्वसद्रूपं वायोरिति चक्षुर्गाह्यं तद्रूपं न भवति, सूक्ष्मपरिणामात्, परमाणोरिव, रूपरसस्पर्शात्मकश्च वायुरिष्यते, न यथाऽन्येषां वायुः स्पर्शवानेवेति, प्रयोगार्थश्चगाथया प्रदर्शितः, प्रयोगश्चायं-चेतनावान् वायुः, अपरप्रेरिततिर्यगनियमितगतिमत्त्वात्, गवाश्वादिवत्, तिर्यगेव गमन नेयमाभावात् अनियमितविशेषणोपादानाच्चपरमाणुनाऽनेकान्तिकासंभवः, तस्य नियमितगतिमत्त्वात्, जीवपुद्गलयोः 'अनुश्रेणिगति' रितिवचनात्, एवमेषवायुः-घनशुद्धवातादिभेदोऽशस्त्रोपहतश्चेतनावानवगन्तव्य इति॥परिमाणद्वारमाह - नि. [१६८] जे बायरपज्जत्ता पयरस्सअसंखभागमित्ताते॥
सेसा तिन्निविरासी वीसंलोगा असंखिजा।। (दाएं) वृ. येबादरपर्याप्तकावायवस्तेसंवर्तितलोकप्रतरासङ्खयेयभागवर्तिप्रदेशराशिपरिमाणाः, शेषास्त्रयोऽपि राशयो विष्वक्पृथगसङ्खयेयलोकाकाशप्रदेशपरिमाणा भवन्ति, विशेषश्चायमत्रावगन्तव्यः-बादराप्कायपर्याप्तकेभ्योबादरवायुपर्याप्तकाअसङ्ख्येयगुणाः बादराप्कायापर्याप्तकेभ्यो बादरवायुकायापर्याप्तका असङ्खयेयगुणाः सूक्ष्मा कायापर्याप्तकेभ्यः सूक्ष्मवाय्वपर्याप्तका विशेषाधिकाः सूक्ष्मा कायपर्याप्तकेभ्यः सूक्ष्मवायुपर्याप्तका विशेषाधिकाः॥उपभोगद्वारमाह - नि. [१६९] वियणधमणाभिधारण उस्सिंचणफुसणआणुपाणू अ।
बायरवाउक्काए उवभोगगुणा मणुस्साणं॥ वृ. व्यजनभस्त्राध्माताभिधारणोसिञ्जनफूत्कारप्राणापानादिभिर्बादरवायुकायेन उपभोग एवगुणउपभोगगुणोमनुष्याणामिति॥शस्त्रद्वाराभिधित्सयाऽऽह, तत्रशस्त्रंद्रव्यभावभेदाद्विविधं, द्रव्यशस्त्राभिधित्सयाऽऽहनि. [१७०] विअणे अ तालावंटे सुप्पसियपत्त चेलकण्णे य ।
अभिधारणा य बाहिं गंधग्गी वाउसस्थाई॥ वृ.व्यजन-तालवृन्तं सूर्पसितपत्रचेलकर्णादयः द्रव्यशस्त्रमिति, तत्र सितमिति चामरं, प्रस्विनीयद्वहिरवतिष्ठतेवातागमनमार्गेसाऽभिधारणा,तथा गन्धा; चन्दनोशीरादीनांअग्निाला प्रतापश्च,तथा प्रतिपक्षवातश्चशीतोष्णादिकः,प्रतिपक्षवायुग्रहणेनस्वकायादिशस्त्रंसूचितमिति, एवं भावशस्त्रमपि दुष्प्रणिहितमनोवाकायलक्षणमवगन्तव्यमिति ॥ ___ अधुना सकलनियुक्त्यर्थोप-सञ्जिहीर्षुराह - नि. [१७१] सेसाइंदारारं ताइंजाइं हवंति पुढवीए।
एवं वाउद्देसे निजुत्ती कित्तिया एसा॥ ___ वृ. 'शेषाणि’ उक्तव्यतिरिक्तानितान्येव द्वाराणिपृथिवीसमधिगमे यान्यभिहितानीति, एवं सकलद्वारकलापव्यावर्णनाद् वायुकायोद्देशके नियुक्तिः कीर्तितैषाऽवगन्तव्येति ॥ गतो नामानिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् –'पहू एजस्स दुगुंछणाए'त्ति, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पर्यन्तसूत्रे त्रसकायपरिज्ञानं तदारम्भवर्जनंचमुनित्वकारणमभिहितम्, इहापितदेव द्वयंवायुकायविषयं मुनित्वकारणमेवोच्यते, तथा परम्परसूत्रसम्बन्धः ‘इहमेगेसिं नो नायं भवइत्ति, किं तत् ज्ञातं भवति ?, 'पहु एजस्स दुगुंछणाए'त्ति,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org