SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं. १, उद्देशक:६ ७९ समारंभेजानेवऽन्नेहितसकायसत्थं समारंभावेजानेवऽण्णेतसकायसत्यं समारंभंतेसमणुजाणेज्जा, जस्सेते तसकायसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्तिबेमि ॥ वृ. प्राग्वद्वाच्यं, यावत्स एव मुनिसकायसमारम्भविरतत्वात् परिज्ञातकर्मत्वाप्रत्याख्यातपापकर्मत्वादिति ब्रवीमि भगवतः त्रिलोकबन्धोः परमकेवलालोकसाक्षात्कृतसकलभुवनप्रपञ्चस्योपदेशादिति ।। अध्ययन-१ - उद्देशकः-६ समाप्तः -: अध्ययन-१ - उद्देशकः-७:उक्तः षष्ठोद्देशक;, साम्प्रतं सप्तमः समारभ्यते, अस्यचायमभिसम्बन्धः-अभिनवधर्माणां दुःश्रद्धानत्वादल्पपरिभोगत्वादुत्कमायातस्योक्तशेषस्य वायोः स्वरूपनिरूपणार्थमिदमुपक्रम्यतेतदनेन सम्बन्धेनायातस्यास्योद्देशकस्योपक्रमादीनिचत्वार्यनुयोगद्वाराणिवाच्यानियावन्नामनिष्पन्ने निक्षेपेवायूद्देशक इति, तत्र वायोः स्वरूपनिरूपणायकतिचिद्वारातिदेशग नियुक्तिकृद्गाथामाह नि. [१६४] वाउस्सऽवि दाराई ताइंजाइंहवंति पुढवीए। नाणत्ती उ विहाणे परिमाणुवभोगसत्थेय॥ वृ. वातीति वायुस्तस्यवायोरपि तान्येव द्वाराणियानिपृथिव्यां प्रतिपादितानि, नानात्वंभेदः, तच्चविधानपरिमाणोपभोगशस्त्रेषु, चशब्दाल्लक्षणेच द्रष्टव्यमिति।तत्रविधानप्रतिपादनायाह नि. [१६५] दुविहा उ वाउजीवा सुहुमा तह बायरा उ लोगंमि। सुहुमा य सव्वलोए पंचेव य बायरविहाणा॥ वृ. वायुरेव जीवा वायुजीवाः, तेच द्विधाः-सूक्ष्मबादरनामकर्मोदयात् सूक्ष्मा बादराश्च, तत्र सूक्ष्माः सकललोकव्यापितयाअवतिष्ठन्ते, दत्तकपाटसकलवातायनद्वारगेहान्त मवत्व्याप्तया स्थिताः, बादरभेदास्तु पञ्चैवानन्तरगाथया वक्ष्यमाणा इति ।। बादरभेदप्रतिपादनायाह नि. [१६६] उक्कलिया मंडलिया गुंजा घणवाय सुद्धवाया य । बायरवाउविहाणां पंचविहा वण्णिया एए॥ वृ. स्थित्वा स्थित्वोत्कलिकाभिर्योवाति स उत्कलिकावातः,मण्डलिकावातस्तुवातोलीरूपः, गुञ्जा-भम्भा तद्वत्गुञ्जन्योवातिसगुञ्जावातः, घनवातोऽत्यन्तघनः पृथिव्याद्याधारतया व्यवस्थितो हिमपटलकल्पो, मन्दस्तिमितः शीतकालादिषु शुद्धवातः, ये त्वन्ये प्रज्ञापनादौ प्राच्यादिवाता अभिहितास्तेषामेष्वेव यथायोगतर्भावो द्रष्टव्य ति, एवमित्येते बादरवायुविधानानि-भेदाः 'पञ्चविधाः' पञ्चप्रकारा व्यावर्णिता इति॥लक्षणद्वाराभिधित्सयाऽऽहनि. [१६७] जह देवस्स सरीरं अंतद्धाणं व अंजणाईसुं। एओवम आएसो वाएऽसंतेऽविरूवंभि॥ वृ. यथा देवस्य शरीरं चक्षुषाऽनुपलभ्यमानमपि विद्यते चेतनावच्चाध्यवसीयते, देवाः स्वशक्तिप्रभावात्तथाभूतं रूपं कुर्वन्ति यच्चक्षुषा नोपलभ्यते, न चैतद्वक्तुं शक्यते-नास्त्यचेतनं चेति, तद्वद्वायुरपि चक्षुषो विषयो न भवति, अस्ति च चित्तवांश्चेति, यथा वाऽन्तर्धानमञ्जनविद्यामन्त्रैर्भवति मनुष्याणां, न च नास्तित्वमचेतनत्वं चेति, एतदुपमानो वायावपि भवति www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy