________________
७६
आचाराङ्गसूत्रम् 9/19/६/-[नि. १६३]
नि. [१६३] सेसाइंदाराइताइंजाइंहवंतिपुढवीए।
एवंतसकायमी निज्जुत्ती कित्तिया एसा ॥ वृ. उक्तव्यतिरिक्तानि शेषाणि द्वाराणि तान्येव वाच्यानि यानि पृथ्वीस्वरूपसमधिगमे निरुपितानि,अतएवमशेषद्वाराभिधानात्रसकायेनियुक्तिःकीर्तितैषासकलाभवतीत्यवगन्तव्येति
साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
मू. (४९) से बेमि संतिमे तसा पाणा, तंजहा-अंड्या पोयया जराउआ रसया संसेयया संमुच्छिमा उब्भियया उववाइया, एस संसारेत्ति पवुच्चई।
वृ. अस्य चानन्तरपरम्परादिसूत्रसम्बन्धः प्राग्वद्वाच्यः, सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दविनिसृतार्थजातावधारणात्यथावदुपलब्धतत्त्वमिति, सन्ति विद्यन्तेत्रस्यन्तीति त्रसाः-प्राणिनो द्वीन्द्रियादयः, ते च कियभेदाः किंप्रकाराश्चेति दर्शयति - 'तद्यथेति वाक्योपन्यासार्थः, यदिवा तत्' प्रकारान्तरमर्थतोयथाभगवताऽभिहित्तंतथाऽहंभणाआमीति, अण्डाजाताः अम्डजाः-पक्षिगृहकोकिलादयः, पोता एव जायन्ते पोतजाः ‘अन्येष्वपि दृश्यते इति जनेर्डप्रत्ययः,तेचहस्तिवल्गुलीचर्मजलूकादयः, जरायुवेष्टिताजायन्त इतिजरायुजाः, पूर्ववत् डप्रत्ययः, गोमहिष्यजाविकमनुष्यादयः, रसाज्जातारसजाः-तकारनालदधितीमनादिषुपायुकृम्याकृतयोऽतिसूक्ष्माभवन्ति, संस्वेदाज्जाताः संस्वेदजाः-मत्कुणयूकाशतपदिकादयः, सम्मुर्छनाजाताः सम्मूर्छनजाः-शलभपिपीलिकामक्षिकाशालिकादयः, उद्भेदनमुभित्ततोजाताउद्भिजाः, पृषोदरादित्वाद्दलोपः,पतङ्गखञ्जरीटपारीप्लवादयः, उपपाताजाता उपपातजाः,अथवा उपपाते भवा औपपातिकाः-देवा नारकाच, एवमष्टविधं जन्म यथासम्भवं संसारिणो नातिवर्तन्ते, एतदेव शास्त्रान्तरे त्रिविधमुपन्यस्तं “सम्मूर्छनगर्भोपपाता जन्म" रसस्वेदजोद्भिज्जानां सम्पूर्छनजान्तः पातित्वात् अण्डजपोतजजरायुजानांगर्भजान्तःपातित्वात् देवनारकाणामौपपातिकान्तःपातित्वात् इति त्रिविधंजन्मेति,इहचाटविधंसोत्तरभेदत्वादिति। एवमेतस्मिन्नष्टविधेजन्मनिसर्वेत्रसजन्तवः संसारिणो निपतन्ति, नैतद्वयतिरेकेणान्ये सन्ति, एते चाष्टविधयोनिभाजोऽपि सर्वलोकप्रतीता बालाङ्गनादिजनप्रत्यक्षप्रमाणसमधिगम्याः, सन्तिच अनेनशब्देनत्रैकालिकमस्तित्वंप्रतिपाद्यते त्रसानां, नकदाचिदेतैर्विरहितःसंसारःसम्भवतीति, एतदेवदर्शयति-‘एससंसारोत्तिपवुच्चति' एषः-अम्डजादिप्राणिकलापः संसारःप्रोच्यते, नातोऽन्यस्त्रसानामुत्पत्तिप्रकारोऽस्तीत्युक्तंभवति
कस्य पुनरत्राष्टविधभूतग्रामे उत्पत्तिर्भवतीत्याहमू. (५०) मंदस्सावियाणओ।
वृ. मन्दो द्विधा-द्रव्यभावभेदात्, तत्र द्रव्यमन्दोऽतिस्थूलोऽतिकृशोवा, भावमन्दोऽप्यनुपचितबुद्धिर्बालः कुशास्त्रवासितबुद्धिर्वा, अयमपिसद्बुद्धेरभावाद्वाल एव, इहभावमन्देनाधिकारः, 'मन्दस्येति बालस्याविशिष्टबुद्धेः अत एव अविजानतहिताहितप्राप्तिपरिहारशून्यमनसः इत्येषोऽनन्तरोक्तः संसारो भवतीति ॥ यद्येवंततः किमित्याह
मू. (५१) निज्झाइत्ता पडिलेहित्ता पत्तेयं परिनिव्वाणं सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसि जीवाणं सव्वेसिं सत्ताणं अस्सायं अपरिनिव्वाणं महब्मयं दुक्खं-तिबेभि, तसंति पाणा पदिसो दिसासु य॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org