________________
श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशक:६
| ৩৩ वृ.एवमिमंत्रसकायमागोपालाङ्गनादिप्रसिद्धं निश्चयेनध्यात्वा निध्यार्यचिन्तयित्वेत्यर्थः, क्वाप्रत्ययस्योत्तरक्रियापेक्षत्वाद्ब्रवीभीत्युत्तरक्रियासर्वत्रयोजनीयेति।पूर्वंचमनसाऽऽलोच्य ततः प्रत्युपेक्षणं भवतीति दर्शयति- 'पडिलेहेत्त'त्तिप्रत्युपेक्ष्य-दृष्टवा यथाव-दुलभ्येत्यर्थः, किं तदितिदर्शयति-'प्रत्येक मित्येकमेकंत्रसकायंप्रति परिनिर्वाणं-सुखंप्रत्येक-सुखभाजः सर्वेऽपि प्राणिनः, नान्यदीयमन्यउपभुङ्केसुखमित्यर्थः, एषचसर्वप्राणिधर्मइति दर्शयति-सर्वेषांप्राणिनांद्वित्रिचतुरिन्द्रियाणां, तथा सर्वेषां भूतानां प्रत्येकसाधारणसूक्ष्म-बादरपर्याप्तकापर्याप्तकतरुणामिति, तथा सर्वेषां जीवानां-गर्भव्युत्क्रान्तिकसम्मूर्छन- जौपपातिकपञ्चेन्द्रियाणां, तथा सर्वेषांसत्त्वानां-पृथिव्याघेकेन्द्रियाणामिति, इहचप्राणादिशब्दानांयद्यपिपरमार्थतोऽभेदस्तथापि उक्तन्यायेन भेदो द्रष्टव्यः, उक्तंच॥७॥ 'प्राणा द्वित्रिचतुः प्रोक्ता;, भूतास्तु तरवः स्मृताः ।
जीवाः पञ्चेन्द्रियाः प्रोक्ताः, शेषाः सत्त्वा उदीरिताः॥" इति, यदिवाशब्दव्युत्पत्तिद्वारेण समभिरूढनयमतेन भेदो द्रष्टव्यः, तद्यथा-सततप्राणधारणायाणाः कालत्रयभवनाद् भूताः त्रिकालजीवनात् जीवाः सदाऽस्तित्वात्सत्त्वा इति, तदेवं विचिन्त्यप्रत्युपेक्ष्यचयथासर्वेषांजीवानांप्रत्येकंपरिनिर्वाणं सुखंतथाप्रत्येकमसातम्-अपरिनिर्वाणं महाभयंदुःखमहंब्रवीमि, तत्रदुःखयतीतिदुःखं,तद्विशिष्यते-किंविशिष्टम्?-'असातम्' असद्वेद्यकाँशविपाकजमित्यर्थः, तथा 'अपरिनिर्वाण मिति समन्तात् सुखं परिनिर्वाणं न परिनिवणिमपरिनिर्वाणं समन्तात् शरीरमनःपीडाकरमित्यर्थः, तथा 'महाभय'मिति महच्च तद्भयंच महाभयं, नातःपरमन्यद्भयमस्तीतिमहाभयं, तथाहि-सर्वेऽपिशारीरान्मानसाच्चदुःखादुद्विजन्ते प्राणिनइति, इतिशब्दएवमर्थे,एवमहंब्रवीमिसम्यगुपलब्धतत्त्वोयप्रागुक्तमिति।एतच्चब्रवीमीत्याह-'तसंती त्यादि,एवंविधेनचअसातादिविशेषणविशिष्टेनदुःखेनाभिभूतास्यन्ति-उद्विजन्ति प्राणा इतिप्राणिनः, कुतःपुनरुद्विजन्तीति दर्शयति-प्रगता दिक्प्रदिग्विदिक्इत्यर्थः, ततःप्रदिशः सकाशादुद्विजन्ति, तथा प्राच्यादिषुचदिक्षुव्यवस्थितास्त्रस्यन्ति, एताश्चप्रज्ञापकविधिविभक्ता दिशोऽनुदिशश्चा गृह्यन्ते, जीवव्यवस्थानश्रवणात्, ततश्चायमर्थः प्रतिपादितो भवति काक्वान काचिद्दिगनुदिग्वा यस्यां न सन्ति त्रसाः त्रस्यन्ति वा न यस्यां स्थिताः कोशिकारकीटवत्, कोशिका- रकीटोहि सर्वदिग्भ्योऽनुदिग्भ्यश्च विभ्यदात्मसंरक्षणार्थं वेष्टनं करोति शरीरस्येति, भावदिगपि न काचित्ताद्दश्यस्ति यस्यां वर्तमानो जन्तुर्न त्रस्येत, शारीरमानसाभ्यां दुःखाभ्यां सर्वत्र नरकादिषु जंघन्यन्ते प्राणिनोऽतस्त्रासपरिगतमनसः सर्वदाऽवगन्तव्याः ॥ एवं सर्वत्र दिक्ष्वनुदिक्षुचत्रसाःसन्तीतिगृह्णीमः, दिग्विदिग्व्यवस्थितास्त्रसास्त्रस्यन्तीत्युक्तं, कुतःपुनस्त्रस्यन्ति?-यस्मात्तदारम्भवद्भिस्ते व्यापाद्यन्ते, किं पुनः कारणं?, तेतानारम्भन्त इत्यत आह -
मू. (५२) तत्थ तत्थ पुढो पास आतुरा परितावंति, संति पाणा पुढो सिया॥
वृ. 'तत्रतत्र' तेषुतेषुकारणेषूत्पन्नेषुवक्ष्यमाणेषुअर्चाजिनशोणितादिषुचपृथग्विभिनेषु प्रयोजनेषु, पश्येति शिष्य चोदना, किं तत्पश्येति दर्शयति - मांसभक्षणादिगृद्धा आतुराःअस्वस्थमनसः परि-समन्तात्तापयन्ति-पीडयन्ति नानाविधवेदनोत्पादनेन प्राणिव्यापादनेन वा तदारम्भिणस्त्रसानिति, येन केनचिदारम्भेणप्राणिनांसन्तापनं भवतीतिदर्शयन्नाह-'संती'त्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org