________________
श्रुतस्कन्धः - १, अध्ययनं १, उद्देशक ६
-
७५
कायिकापर्याप्तकाः असङ्खयेयगुणाः, तथा कालतः प्रत्युत्पन्नत्रसकायिकाः सागरोपमलक्षणपृथक्त्वसमयराशिपरिमाणा जघन्यपदे, उत्कृष्टपदेऽपि सागरोपमलक्षपृथक्त्वपरिमाणा एवेति, तथा चागमः- “पडुप्पन्नतसकाइया केवतिकालस्स निल्लेवा सिया ?, गोयमा ! जहन्नपए सागरोवमसयसहस्सपुहुत्तस्स उक्कोसपदेऽवि सागरोवमसयसहस्सपुहुत्तस्स" । उद्वर्त्तनोपपातौ गाथाशकलेनाभिदधाति-निष्क्रमणम् - उद्वर्त्तनं प्रवेशः- उपपातः जघन्येनैको द्वौ त्रयो वा उत्कृष्टतस्तु 'एवमेते 'ति प्रतरस्यासङ्घयेयभागप्रदेशपरिमाणा एवेत्यर्थः ॥ साम्प्रतमविरहितप्रवेशनिर्गमान्यां परिमाणविशेषमाह - निक्खमपवेसकालो समयाई इत्थ आवलीभागो । अंतोमुहुत्तऽ विरहो उदहिसहस्साहिए दोन्नि । दारं ||
नि. [१५९]
वृ. जघन्येन अविरहिता संतता त्रसेषु उत्पत्तिर्निष्क्रमो वा जीवानामेकं समयं द्वौत्रीन् वेत्यादि, उत्कृष्टेनात्रावलिकाऽसङ्घयेयभागमात्रं कालं सततमेव निष्क्रमः प्रवेशोवा, एकजीवाङ्गीकरणेनाविरहश्चिन्त्यते गाथापश्चिमार्द्धेन अविरहः सातत्येनावस्थानम्, एकजीवो हि त्रसभावेन जघन्यतोऽन्तर्मुहूर्तमासित्वा पुनः पृथिव्याद्येकेन्द्रियषूत्पद्यतेप्रकर्षेणाधिकं सागरोपमसहस्रयं च त्रसभावेनावतिष्ठते सन्ततमिति । उक्तं प्रमाणद्वारं,
नि. [१६० ]
वृ. मांसचर्मकेशरोमनखपिच्छदन्तस्नाय्वस्थिविषाणादिभिसजीवसम्बन्धिभिरूपभोगो भवति, शस्त्रंर पुनः ‘शस्त्रादिकमिति' (शस्त्रं) खङ्गतोमरक्षुरिकादि तदादिर्यस्य जलानलादेस्तच्छादिकमनेकविधं-स्वकायपरकायोभयद्रव्यभावभेदभिन्नमनेकप्रकारं त्रसकायस्येति, वेदना चात्र प्रसङ्गेनोच्यते-सा च शरीरसमुत्था मनः समुत्था च द्विधा यथासम्भवं तत्राद्या शल्यशलाकादिभेदजनिता, इतरा प्रियविप्रयोगाप्रियसम्प्रयोगादिकृता, बहुविधा च ज्वरातीसारकासश्वासभगन्दरशिरोरोगशूलगुदकीलकादिसमुत्था तीव्रेति ।। पुनप्युपभोगप्रपञ्चाभिधित्सयाऽऽह - मंसस्स केइ अट्ठा के चम्मस्स केइ रोमाणं । पिच्छाणं पुच्छाणं दंताणऽट्ठा वहिज्जति ॥ केई वहति अट्ठा के अणट्ठा पसंगदोसेणं । कम्मपसंगपसत्ता बंघति वहंति मारंति ॥
नि. [१६१]
नि. [१६२ ]
वृ.मांसार्थं मृगशूरकादयो वध्यन्ते, चर्मार्थं चित्रकादयः, रोमार्थं मूषिइकादयः, पिच्छार्थं मयूरगृद्धकपिञ्चरुदुकादयः पुच्छार्थं चमर्यादयः, दन्तार्थं वारणवराहादयः वध्यन्त इति सर्वत्र सम्बध्यते इति ।। तत्र केचन पूर्वोक्तप्रयोजनमुद्दिश्यघ्नन्ति, केचित्तु, प्रयोजनमन्तरेणापि क्रीडया घ्नान्ति तथा परे प्रसङ्गदोषात् मृगलक्षक्षिप्तेषुले लुकादिना तदन्तरालव्यवस्थिता अनेके कपोतकपिञ्जलशुकसारिकादयो हन्यन्ते, तथा कर्म-कृष्याद्यनेकप्रकारं तस्य प्रसङ्गः - अनुष्ठानं तत्र प्रसक्ताःसन्निष्ठाः सन्तसकायिकान्, बहून् बघ्नन्ति रज्वादिना, घ्नन्ति - कशलकुटादिभिः ताडयन्ति, मारयन्तिप्राणैर्वियोजयन्तीति ।। एवं विधानादिद्वारकलापमुपवर्ण्य सकलनिर्युक्त्यर्थोपसंहारायाह
Jain Education International
For Private & Personal Use Only
साम्प्रतमुपभोगशश्त्रवेदनाद्वारत्रयप्रतिपादनायाहमंसाईपरिभोगो सत्थं सत्थाइयं अणेगविहं । सारीरमाणसा वेयणा य दुविहा बहुविहा य ।। दारं ॥
-
www.jainelibrary.org