SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आचाराङ्ग सूत्रम् १/-/१/५/४७ व्यञ्जनौदनाद्याहाराभ्यवहारादाहारकं तथैतदपि वनस्पतिशरीरं भूजलाद्याहाराभ्यवहारकं, न चैतदाहारकत्वमचेतनानांहष्टम, अतस्तद्भावात्सचेतनत्वमिति।तथायथेदंमनुष्यशरीरमनित्यकंन सर्वदाऽवस्थायि तथैतदपि वनस्पतिशरीरमनित्यं नियतायुष्कत्वात्, तथाहि- अस्य दश वर्षसहस्राणि उत्कृष्टमायुः। तथा यथेदं मनुष्यशरीरमशाश्वतं-प्रतिक्षणमावीचीमरणेन मरणात् तथैतदपि वनस्पतिशरीरमिति।तथा यथेदमिष्टानिष्टाहारादिप्राप्तया चयापचयिकं वृद्धिहान्यात्मकंतथैतदपि इति । तथा यथेदं मनुष्यशरीरं विविधपरिणामः-तत्तद्रोगसम्पर्कात् पाण्डुत्वोदरवृद्धिशोफकृशत्वाङ्गुलि - नासिकाप्रवेशादिरूपो बालादिरूपो वा, तथा रसायनस्नेहाधुपयोगाद्विशिष्टकान्तिबलोपचयादिरूपोविपरिणामःतद्धर्मकं-तत्स्वभावकं तथैतदपिवनस्पतिशरीरं तथाविधरोगोद्भवात्पुष्प- पत्रफलत्वगाद्यन्यथाभवनात् तथा विशिष्टदौहदप्रदानेन पुष्पफलाधुपचयाद्विपरिणामधर्मकम् । एवमनन्तरोक्तधर्मकलापसद्भावादसंशयं गृहाणैतत् . सचेतनास्तरव इति । एवं वनस्पतेश्चैतन्यं प्रदर्श्य तदारम्भे बन्धं तत्परिहाररूपविरत्यासेवनेनच मुनित्वं प्रतिपादयन्नुपसञ्जिहीर्षुराह ____ मू. (४८) एत्थ सत्थं समारभमाणस्स इच्छेते आरंभा अपरिण्णाता भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति, तं परिण्णाय मेहावी नेव सयंवणस्सइसत्थं समारंभेजा नेवन्नेहिं वणस्सइसत्थं समारंभाजा नेवन्ने वणस्सइसत्थं समारंभंते समणुजाणेजा, जस्सेते वणस्सतिसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेभि ॥ वृ. “एतस्मिन्' वनस्पतौ शस्त्रं द्रव्यभावाख्यमारभमाणस्येत्येते आरम्भा अपरिज्ञाताअप्रत्याख्याता भवन्ति, एतस्मिंश्च वनस्पती शस्त्रमसमारभमाणस्येत्येते आरम्भाः परिज्ञाताःप्रत्याख्याता भवतितपूर्ववचर्चः, यावत् स एव मुनिः परिज्ञातकर्मेति ब्रवीमि पूर्ववदिति । अध्ययनं-१, उद्देशकः-५, समाप्तः - अध्ययन-१, उद्देशकः-६:उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठः समारभ्यते-अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके वनस्पतिकायःप्रतिपादितः, तदनन्तरंच त्रसकायस्यागमे परिपठितत्वात्तत्स्वरूपाधिगमायायमुद्देशकः समारभ्यते, तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणिवाच्यानि, यावन्नामनिष्पन्ने निक्षेपे त्रसकायोद्देशकः, तत्रत्रसकायस्य पूर्वप्रसिद्धद्वारक्रमातिदेशाय तद्विभिन्नलक्षणद्वाराभिधानाय च नियुक्तिकृदाह - नि. [१५२] तसकाए दाराई ताई जाई हवंति पुढवीए। नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य॥ वृ. त्रस्यन्तीति त्रसास्तेषां कायस्त्रसकायस्तस्मिंस्तान्येव द्वाराणि भवन्ति यानि पृथिव्यां प्रतिपादितानि, नानात्वं तु विधानपरिमाणोपभोगशस्त्रद्वारेषु, चशब्दाल्लक्षणेच प्रतिपत्तव्यमिति तत्र विधानद्वारमाहनि. [१५३] दुविहा खलु तसजीवा लद्वितसा चेव गइतसा चेव । ___ लद्धीय तेउवाऊ तेणऽहिगारो इहं नत्थि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy