SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशक :- ५ तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवओ अनगाराणं वा अंतिए इहमेगेसिं नायं भवतिएस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु नरए, इच्चत्थं गड्ढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणे अन्ने अनेगरूवे पाणे विहिंसंति । ७१ वृ. प्राग्वत् ज्ञेयं, नवरं वनस्पत्यालापो विधेय इति ।। साम्प्रतं वनस्पतिजीवास्तित्वे लिङ्गमाह मू. (४७) से बेमि इमंपि जाइधम्मयं एयंपि जाइधम्मयं इमंपि वुड्ढिधम्मयं एयंपि वुड्ढिधम्मयं इमंपि चित्तमंतयं एयंपि चित्तमंतयं इमंपि छिण्णं मिलाइ एयंपि छिण्णं मिलाइ इमंपि आहारगं एयंपिआहारगंइमंपि अणिच्चयं एयंपि अणिच्चयं इमंपि असासयं एयंपि असासयं इमंपि चओवचइयं एयंपि चओवचइयं इमंपि विपरिणामधम्मयं एयंपि विपरिणामधम्मयं । वृ. सोऽहमुपलब्धतत्त्वो ब्रवीमि, अथवा वनस्पतिचैतन्यं प्रत्यक्षप्रमाणसमधिगम्यमानस्वरूपं यत्तदहं ब्रवीमि यथाप्रतिज्ञातमर्थं दर्शयति – 'इमंपि जाइधम्मयं 'ति इहोपदेशदानाय सूत्रारम्भस्तद्योग्यश्च पुरुषो भवत्यतस्यस्य सामथ्येर्न सन्निहितत्वात्तच्छरीरं प्रत्यक्षासन्नवाचिनेदमा परामृशति, इदमपि-मनुष्यशरीरं, जननं जातिरुत्पत्तिस्तद्धर्मकम्, एतदपि वनस्पतिशरीरं तद्धर्म्मकंतत्स्वभावमेव, इतिपूर्वकोऽपिशब्दः सर्वत्र यथाशब्दार्थे द्वितीयस्तु समुच्चये व्याख्येयः, ततश्चायमर्थः यथा मनुष्यशरीरं बालकुमारयुववृद्धतापरिणामविशेषवत्, चेतनावत्सदाधिष्ठितं प्रस्पष्टचेतना- कमुपलभ्यते, तथेदमपि वनस्पतिशरीरं, यतो जातः केतकतरुबलको युवा वृद्धश्च संवृत्त इति, अतस्तुल्यत्वादेतदपि जातिधर्मकं, न च कश्चिद्विशेषोऽस्ति, येन सत्यपि जातिधर्मत्वे मनुष्यादिशरीरमेव सचेतनं न वनस्पतिशरीरमिति, ननु च जातिधर्मत्वं केशनखदन्तादिष्वप्यस्ति, अव्यभिचारि च लक्षणं भवत्यस्ति च व्यभिचारः तस्मादयुक्तं कल्पयितुं जातिधर्मत्वं जीवलिङ्गमिति, उच्यते, सत्यमस्ति जननमात्रं, किन्तु मनुष्यशरीरप्रसिद्धबालकुमारकाद्यवस्थानामसम्भवः केशादिष्वस्ति स्फुटः, तस्मादवसमञ्जसमेतद्, अपि च- केशनखं चेतनावत्पदार्थाधिष्ठितशरीरस्थं जातमित्युच्यते, वर्द्धते इति वा, न पुनस्त्वयैवं तरवोऽपि चेतनावत्पदार्थाधारस्था इष्यन्ते, त्वन्मते भुवोऽचेतनत्वात्तस्मादयुक्तिमिति । अथवा जातिधर्मत्वादीनि समुदितानि सूत्रोक्तान्येक एव हेतु:, न पृथक् हेतुता, न च समुदायहेतुः केशादिष्वस्ति तस्माददोष इति । तथा यथेदं मनुष्यशरीरकमनवरतं बालकुमाराद्यवस्थाविशेषैर्वर्द्धते, तथैतदपि वनस्पतिशरीरमङकुरकिशलयशाखाप्रशाखादिभिर्विशेषैर्वर्द्धत इति, तथा यथेदं मनुष्यशरीरं चित्तवदेवं वनस्पतिशरीरमपि चित्तवत्, कथम् ?, चेतयति येन तच्चितं ज्ञानं, ततश्च यथा मनुष्यशरीरं ज्ञानेनागतमेवं वनस्पतिशरीरमपि, यतो धात्रीप्रपुन्नाटादीनां स्वापविबोधसद्भावः तथाऽधोनिखातद्रविणराशेः स्वप्ररोहेणावेष्टनं प्रावृड्जलधरनिनादशिशिरवायुसंस्पर्शादङकुरोभेदः, तथा मदमदनसङ्गस्खलद्गतिविधूर्णमानलोललोचनविला सिनीसन्नपुरसुकुमारचरणताडनादशोकतरोः पल्लवकुसुमोद्गमः, तथा सुभिसुरागण्डुषसेकाद्वकुलस्य स्पृष्टप्ररोहिकादीनां च हस्तादिसंस्पर्शात्सङ्कोचादिका परिस्फुटा क्रियापलब्धिः, न चैतदभिहिततरुसम्बन्धि क्रियाजालं ज्ञानमन्तरेण घटते तस्मात्सिद्धं चित्तवत्त्वं वनस्पतेः इति । तथा यथेदं छिन्नं म्लायति तथैतदपि छिन्नंग्लायति, मनुष्यशरीरं हि हस्तादि छिन्नं म्लायति शुष्यति, तथा तरुशरी रमपि पल्लवफलकुसुमादि छिन्नं शोषमुपगच्छत् दृष्टं, न चाचेतनानामयं धर्म्म इति । तथा यथेदं मनुष्यशरीरं स्तनक्षीर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy