SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ७० आचाराङ्ग सूत्रम् १/-/१/५/४२ 'अध'मित्यवाङ्अधस्तागिरिशिखरप्रासादाधिरूढोऽधोव्यवस्थितंरूपगुणंपश्यति, अधःशब्दार्थे अवाङित्ययं वर्तते, गृहभित्त्यादिव्यवस्थितं रूपगुणं तिर्यक् पश्यति, तिर्यक्शब्देन चात्र दिशोऽनुदिशश्च परिगृह्यन्ते, ताश्चेमाः- 'प्राचीन मितिपूर्वा दिग्, एतच्चोपलक्षणम् अन्याअप्येतदाद्यास्तियग्दिशोद्रष्टव्या इति, एतासुदिक्षुपश्यन्, चक्षुर्ज्ञानपरिणतोरूपादिद्रव्याणिचक्षुर्ग्राह्यतयापरिणतानि पश्यति-उपलभत इत्यर्थः, तथा तासु च शृण्वन् शृणोति शब्दानुपयुक्तः श्रोत्रेण नान्यथेति ॥ अत्रोपलब्धिमात्रप्रतिपादितं नचोपलब्धिमात्रात्संसारप्रपातः, किन्तुयदि मूर्छा रूपादिषुकरोति, ततोऽस्य बन्ध इति दर्शयितमाह - ‘उड्ढ'मित्यादि पुनरुझ्दावदेच्छसिम्ब-धानर्थमुपादानं, मूर्छन् रूपेषुमूर्छति, रागपरिणामंयान्ज्य ते रूपादिष्वित्यर्थः, एवंशब्देष्वपिमूर्छति, अपिशब्द: सम्भावनायां समुच्चये वा, रूपशब्दविषयग्रहणाच्च शेषा अपि गन्धरसस्पर्शा गृहीता भवन्ति, 'एकग्रहणे तज्जातीयानां ग्रहणाद, आद्यन्तग्रहणाद्वा तन्मध्यग्रहणमवसेयमिति॥ एवं विषयलोकमाख्याय विवक्षितमाह - मू. (४३) एस लोए वियाहिए एत्थ अगुत्ते अणाणाए। वृ. 'एष' इति रूपरसगन्धस्पर्शशब्दविषयाख्यो लोको व्याख्यात;, लोक्यतेपरिच्छिद्यते इतिकृत्वा, एतस्मिंश्च प्रस्तुते शब्दादिगुणलोकेऽगुप्तो यो मनोवाक्कायैः मनसा द्वेष्टि रज्यते वा वाचा प्रार्थनं शब्दादीनां करोति कायेन शब्दादिविषयदेशमभिसर्पति, एवं यो ह्यगुप्तो भवति सोऽनाज्ञायां वर्तते, न भगवत्प्रणीतवचनानुसारीतियावदिति ॥ एवं-गुणश्च यत्कुर्यात्तदाह मू. (४४) पुणो पुणो गुणासाए वंकसमायारे। वृ. ततश्चासावकृच्छब्दादिगुणलुब्धो न शक्नोत्यात्मानं शब्दादिगृद्धेर्निवर्तयितुम्, अनिवर्तमानश्चपुनः पुनर्गुणास्वादो भवति, क्रियासातत्येन शब्दादिगुणानास्वादयतीत्यर्थः, तथा च यादृशोभवतितद्दर्शयति-वक्रः-असंयमः कुटिलोनरकादिगत्याभिमुख्यप्रवणत्वात्, समाचरणं समाचारः-अनुष्ठानं, वक्रःसमाचारो यस्यासौ वक्रसमाचारः, असंयमानुष्ठायीत्यर्थः,अवश्यमेव शब्दादिविषयाभिलाषी भूतोपमईकारीत्यतो वक्रसमाचारः, प्राक् शब्दादिविषयल वसमास्वादनाद्गृद्धः पुनरात्मानमाचारयितुमसमर्थत्वादपथअयाम्रफलभोजिराज्वद्विनाशमाशु संश्रयत इति॥ एवं चासौ नितरां जितः शब्दादिविषयसमास्वादनात् ‘खंतपुत्तोव्व' इदमाचरतिमू. (४५) पमत्तेऽगारमावसे। वृ. प्रमत्तो विषयविषमूर्छितः ‘अगारं' गृहमावसति, योऽपि द्रव्यलिङ्गसमन्वितः शब्दादिविषयप्रमादवान्असावपि विरतिरूपभावलिङ्गरहितत्वात् गृहस्थ एवेति॥अन्यतीर्थिकाः पुनः सर्वदा सर्वथाऽन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह - मू. (४६) लज्जमाणा पुढो पास, अणगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारभमाणा अन्ने अनेगरूवे पाणे विहिंसंति, तत्थ खलु भगवया परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जातीमरणमोयणाए दुक्खपडिधायहेउसे सयमेव वणस्सइसत्थंसमारंभइ अन्नेहिंवा वणस्सइसत्थं समारंभावेइ अन्ने वा वणस्सइसत्थं समारभमाणे समणुजाणइ, तं से अहियाएतं से अबोहीए, से Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy