________________
श्रुतस्कन्धः -१, अध्ययनं-१, उद्देशक.५
मू. (४१) जे गुणे से आवटे जे आवट्टे से गुणे ।
वृ.यो 'गुणः' शब्दादिकः स आवतः, आवर्तन्ते-परिभ्रमन्ति प्राणिनो यत्र स आवतःसंसारः,इहचकारणमेव कार्यत्वेनव्यपदिश्यतेयथानड्वलोदकंपादरोगः, एवंयएतेशब्दादयो गुणाः सआवर्त्तः, तत्कारणत्वात्, अथवैकवचनोपादानापुरुषोऽभिसम्बध्यते, यःशब्दादिगुणे वर्तते स आवर्ते वर्तते, यश्चावर्ते वर्तते स गुणे वर्तत इति, अत्र कश्चिच्चोद्यचञ्चुराह-यो गुणेषु क्ततसआवर्तेवर्ततइति साधु, यः पुनरावर्तेवर्ततेनासौ नियमतएवगुणेषुक्तते,यस्मात्साधवो वर्तन्त आवर्तेन गुणेषु तदेतत्कथमिति, अत्रोच्यते, सत्यम्, आवर्ते यतयो वर्तन्ते न गुणेषु, किन्तुरागद्वेषपूर्वकंगुणेषुवर्तनमिहाधिक्रियते, तच्चसाधूनांनसम्भवति,तदभावात्, आवर्तोऽपि संसरणरूपोदुःखात्मकोनसम्भवति, सामान्यतस्तुसंसारान्तःपातित्वंसामान्यशब्दादिगुणोपलब्धिश्च सम्भवत्येवातो नोपलब्धिः प्रतिषिध्यते, रागपरिणामो द्वेषपरिणामो वा यस्तत्र स प्रतिषिध्यते, तथा चोक्तम् - "कण्णसोक्खेहिं सद्देहिं पेम्मंनाभिनिवेसए" इत्यादि, तथा॥9॥ “नशक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम्।
रागद्वेषौतु यौ तत्र, तौ बुधः परिवर्जयेत्॥" कथंपुनर्गुणभूयस्त्वंवनस्पतिभ्यइतिप्रदश्यति वेणुवीणापटहमुकुन्दादीनामातोद्यविशेषाणां वनस्पतेरुत्पत्तिः, ततश्च मनोहराः शब्दा निष्पद्यन्ते, प्राधान्यमत्र वनस्पतेर्विवक्षितं, अन्यथा तु तन्त्रीचर्मपाण्यादिसंयोगाच्छब्दनिष्पत्तिरिति, रूपं पुनः काष्ठकर्मस्त्रीप्रतिमादिषु गृहतोरणवेदिकास्तम्भादिषु च चर्रमणीयं, गन्धा अपि हि कर्पूरपाटलालवलीलवङ्गकेतकीसरसभन्दनागुरुकक्कोलकेलाजातिफलपत्रिकाकेसरमांसीत्वक्पत्रादीनांसुरभयोगन्धेन्द्रियाह्लादकारिणः प्रादुर्भवन्ति, रसास्तु बिसमृणालमूलकन्दपुष्पफलपत्रकण्टकमञ्जरीत्वगङ्कुरकिसलयारविन्दकेसरादीनां जिह्वेन्द्रियप्रह्लादिनोनिष्पद्यन्तेअतिबहवइति,तथास्पर्शाः पद्मिनीपत्रकमलदलमृणालवल्कलदुकूलशाटकोपधानतूलिकप्रच्छादनपटादीनां स्पर्शनेन्द्रियसुखाः प्रादुष्षयन्ति, एवमेतेषु वनस्पतिनिष्पन्नेषु शब्दादिगुणेषु यो वर्तते स आवर्ते वर्तते, यश्च आवर्तवर्ती स रागद्वेषात्मकत्वात् गुणेषुवर्ततइति, सचावलॊनामादिभेदाच्चतुर्द्धा,नामस्थापनेक्षुण्णे,द्रव्यावतः स्वामित्वकरणाधिकरणेषु यथासम्भवं योज्यः, स्वामित्वे नद्यादीनां क्वाविमागेजलपरिभ्रमणं द्रव्यस्यावतः, द्रव्याणां वा हंसकारण्डवचक्रवाकादीनांव्योम्निक्रीडतामावर्तनादावर्तः, करणे तुतेनैवजलद्रव्येणभ्रमता यदन्यदावर्तते तृणकलिञ्चादिसद्रव्येणावर्त्तः, तथात्रपुसीसकलोहरजतसुवर्णैरावर्यमानैर्यदन्यत्तदन्तःपात्यावर्त्यतसद्रव्यैरावर्ततइति, अधिकरणविवक्षायामेकस्मिन्, जलद्रव्ये आवर्तस्तथारजतसुवर्णरीतिकात्रपुसीसकेष्वेकस्थीकृतेषुबहुषुद्रव्येष्वावर्त्तः, भावावर्तो नामान्योऽन्यभावसङ्कान्तिः, औदयिकभावोदयाद्वा नरकादिगतिचतुष्टयेऽसुमानावर्तते, इह चभावावर्तेनाधिकारोनशेषैरिति॥अथयएतेगुणाःसंसारावर्तकारणभूताः शब्दादयोवनस्पतेरभिनिर्वृत्तास्ते किं नियतिदिग्देशभाजः उत सर्वदिक्षु इत्यत आह
मू. (४२) उड्ढं अहं तिरियं पाईणं पासमाणे रूवाइं पासति, सुणमाणे सद्दाइं सुणेति, उड्ढं अहं पाईणं मुच्छमाणे रुवेसु मुच्छति, सद्देसुआवि । वृ. प्रज्ञापकदिगङ्गीकरणादूर्द्धवदिग्व्यवस्थितं रूपगुणं पश्यति प्रासादतलहम्यार्दिषु,
For Private & Personal Use Only
Jain Education International
For Private
www.jainelibrary.org