SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं १, उद्देशक: ५ ६७ युग्यं - गन्त्रिकादि, आवरणम् - फलकादि, प्रहरणं - लकुटमुसुण्ड्यादि, शश्त्रविधानानि च बहूनि तन्निर्वत्यानि, शरदात्रखङ्गक्षुरिकादिगण्डोपयोगित्वादिति ॥ तथाऽपरोऽपि परिभोगविधिः, तद्दर्शनायाह - नि. [१४७ ] आउज्ज कट्ठकम्मे गंधंगे वत्थ मल्ल जोए य । झावणवियावणेसु अ तिल्लविहाणे अ उज्जोए ।। वृ. आतोद्यानि - पटहमेरीवंशवीणाझलर्यादीनि, काष्ठकर्म्म-प्रतिमास्तम्भद्वारशाखादि, गन्धाङ्गानि - बालकप्रिय - पत्रकदमनकत्वक्कन्दनोशीरदेवदार्वादीनि, वस्त्राणि - वल्कलकार्पासमयादीनि, माल्ययोगा-नवमालिकाबकुलचम्पकपुन्नागाशोकमालतीविचाकिलादयः, ध्मापनं - दाहो भस्मसात्करणमिन्धनैः, वितापनं- शीताभ्यर्द्दितस्य शीतापनयनाय काष्ठप्रज्वालनात्, तैलविधानंतिलातसीसर्षपेङ्गुदीज्योतिष्मतीकरञ्जादिभिः, उद्योतो- वर्त्तितृणचूडाकाष्ठादिभिरिति ॥ एवमेतान्युपभोगस्थानानि प्रतिपाद्य तदुपसजिहीर्षराह - नि. [१४८ ] एएहिं कारणेहिं हिंसंति वणस्सई बहू जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ वृ. 'एतैः' गाथाद्वयोपात्तैः ‘कारणैः’प्रयोजनैः ‘हिंसन्ति' व्यापादयन्ति प्रत्येकसाधारणवनस्पतिजीवान् बहून् वनस्पतिसमारम्भिणः पुरुषाः, किंभूतास्त इति दर्शयति- 'सातं' सुखं तदन्वेषिणः ‘परस्य’ वनस्पत्याद्येकेन्द्रियादेः 'दुःखं' बाधामुत्पादयन्ति । साम्प्रतं शस्त्रमुच्यतेतच्च द्विधा-द्रव्यभावभेदात्, द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव तत्र समासद्रव्यशस्त्राभिधित्सयाऽऽह - नि. [१४९] कप्पणिकुहाणिअसियगदत्तियकुद्दालवासिपरसू अ । सत्थं वणरसईए हत्था पाया मुहं अग्गी || वृ. कल्प्यते-छिद्यते यया सा कल्पनी शस्त्रविशेषः, कुठारी प्रसिद्धैव, असियगं-दात्रं, दात्रिका-प्रसिद्धा, कुद्दालकवासिपरशवश्च, एते वनस्पतेः शस्त्रं, तथा हस्तपादमुखाग्नयश्च इत्येतत्सा- मान्यशस्त्रमिति । विभागशस्त्रभिधित्सयाऽऽह - नि. [१५० ] किंची सकायसत्थं किंची परकाय तदुभयं किंचि । एयं तु दव्वसत्थं भावे य असंजमो सत्थं ॥ वृ. किञ्चित् स्वकाय शस्त्रं- लकुटादि किञ्चिच्च परकायशस्त्रं-पाषाणाग्न्यादि तथोभयशस्त्रंदात्रदात्रिकाकुठारादि, एतद् द्रव्यशस्त्रं, भावशस्त्रं पुनरसंयमः दुष्प्रणिहितमनोवाक्कायलक्षण इति ॥ नि. [१५१] सेसाई दाराई ताई जाई हवंति पुढवीए । एवं वणस्सईए निजुत्ती कित्तिया एसा ।। वृ. उक्तव्यतिरिक्तशेषाणि तान्येव द्वाराणि यानि पृथिव्यामभिहितानि ततस्तद्वाराभिधानाद्वनस्पतौ निर्युक्तिः 'कीर्त्तिता' आवर्णितेति । साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम Jain Education International सकलनिर्युक्तर्थपरिसमाप्तिप्रचिकटयिषयाऽऽह For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy