________________
आचाराङ्ग सूत्रम् १/-/१/५/- [ नि. १४२ ] वृ. एकजीवपरिगृहीतशरीरं तालसरलनालिकेर्यादिस्कन्धः, स च चक्षुर्ग्राह्यः, तथा बिसमृणालकर्णिकाकुणककटाहानामेकजीवपरिगृहीतत्त्वं चक्षुर्दृश्यत्वं च, द्वित्रिसङ्घयेयासङ्घयेयजीवपरिगृहीतत्वमप्येवं दृश्यतया भावनीयमिति । किमनन्तामप्येवं ?, नेत्यत आहनि. [१४३] इक्कस्स दुण्ह तिण्ह व संखिजाण व न पासिउं सक्का ।
दीसंति सरीराई निओयजीवाणऽनंताणं ॥
६६
वृ. नैकादीनामसङ्ख्येयावसानानामनन्तरुजीवानां शरीराण्युपलभ्यन्ते, कुतः ?, अभावात्, नोकादिजीवपरिगृहीतान्यनन्तानां शरीराणि सन्ति, अनन्तजीवपिण्डत्वादेव, कथं तर्ह्यपलभ्यास्ते भवन्तीति दर्शयति-श्यन्ते शरीराणि बादरनिगोदानामनन्तजीवानां सूक्ष्मनिगोदानां तु नोपलभ्यन्ते, अनन्तजीवसङ्घातत्वे सत्यप्यतिसूक्ष्मत्वादिति भावः, निगोदास्तु नियमत एवानन्तजीवसङ्घाता भवन्तीति, उक्तं च
11911
-
“गोला य असंखेज्जा हुंति निओआ असङ्ख्या गोले । एक्क्को य निओए अनंतजीवो मुणेयव्वो ।"
एवं वनस्पतीनां वृक्षादिप्रत्येकादिभेदात्तथा वर्णगन्धरसस्पर्शभेदात् सहस्राग्रशो विधानानि सङ्घयेयानि योनिप्रमुखानि शतसहस्राणि भेदानामवसेयानीति, तथाहि - वनस्पतीनां संवृता योनिः, साच सत्ताचित्तमिश्रभेदात् त्रिधा, तथा शीतोष्णमिश्रभेदाच्च, तथा प्रत्येकतरूणां दश लक्षा योनिभेदानां, साधारणानां च चतुर्दश, कुलकोटीनां द्वयोरपि पञ्चविंशतिकोटिशतसहस्राणीति ॥ उक्तं विधानद्वारम्, इदानीं परिमाणमभिघीयते तत्र प्रथमं सूक्ष्मानन्तजीवानां दर्शयितुमाह - नि. [१४४ ] पत्थेण व कुडवेण व जह कोइ मिणिज्ज सव्वधन्नाई ।
एवं मविजमाणा हवंति लोया अनंता उ ॥
वृ. प्रस्थकुडवादिना यथा कश्चित्सर्वधान्यानि प्रमिणुयात्, मित्वा चान्यत्र प्रक्षिपेद्, एवं यदि नाम कश्चित्साधारणजीवराशि लोककुडवेन मित्वाऽन्यत्र प्रक्षिपेत् तत एवं मीयमाना अनन्ता लोका भवन्तीति । इदानीं बादरनिगोदपरिमाणाभिधित्सयाऽऽह
नि. [१४५ ]
जे बायरपजत्ता परस्स असंखभागमित्ता ते ।
सेसा असंखलोया तिन्निवि साहारणाणंता ।।
वृ. ये पर्याप्तकबादरनिगोदास्ते संवर्त्तितचतुरश्रीकृतसकललोकप्रतरासङ्घयेयभागवर्त्तिप्रदेशराशिपरिमाणा भवन्ति, एते पुनः प्रत्येकशरीरबादरवनस्पतिपर्याप्तकजीवेभ्योऽसङ्खयेयगुणाः, शेषायोऽपि राशयः प्रत्येकमसङ्घयेयलोकाकाशप्रदेशपरिमाणाः, के पुनः इति ?, उच्यन्ते, अपर्याप्तकबादरनिगोदा अपर्याप्तकसूक्ष्मनिगोदाः पर्याप्तकसूक्ष्मनिगोदाः, एते च क्रमशो बहुतरका द्रष्टव्या इति, साधारणजीवास्तेभ्योऽनन्तगुणाः, एतच्च जीवपरिमाणं, प्राक्तनं तु राशिचतुष्टयं निगोदपरिमाणमिति ।। परिमाणद्वारानन्तरमुपभोगद्वारमभिधित्सुराह - आहारे उवगरणे सयणासण जाण जुग्गकरणे य ।
नि. [ १४६ ]
आवरण पहरणेसु अ सत्थविहाणेसु अ बहुसुं ॥
Jain Education International
--
वृ. आहारः-फलपत्रकिशलयमूलकन्दत्वगादिनिर्वत्यः, उपकरणं व्यजनकटककवलकार्गलादि, शयनं - खट्वाफलकादि, आसनम् - आसन्दकादि, यानं शिबिकादि,
For Private & Personal Use Only
www.jainelibrary.org