________________
श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशक: ५
नि. [१३७]
एगस्स उ जंगहणं बहूणं साहारणाण ते चेव । जं बहुयाणं गहणं समासओ तंपि एगस्स ।।
वृ. एको यदुच्छ्वासनिः श्वश्वासयोग्यपुद्गलोपादानं विधत्ते बहूनामपि साधारणजीवानां तदेव भवति, तथा यच्च बहवो ग्रहणमकर्षुरेकस्यापि तदेवेति ।। अथ ये बीजाप्ररोहन्ति वनस्पतयस्तेषां कथमाविर्भाव इत्यत आहनि. [१३८ ]
भू बीए जीव वक्क मइ सो व अन्नो वा । जोऽवि य मूले जीवो सो च्चिय पत्ते पढमयाए ।
वृ. अत्र भूतशब्दोऽवस्थावचनः, योन्यवस्थे बीजे योनिपरिणाममजहतीत्यर्थः, बीजस्य हि द्विविधावस्था-योन्यवस्था अयोन्यवस्थाच, यदा योन्यवस्थां न जहाति बीजमुज्झितं च जन्तुना तदा योनिभूतमुच्यते, योनिस्तु जन्तोरुत्पत्तिस्थानमविनष्टमिति, तस्मिन् बीजे योनिभूते जीवो ‘व्युत्क्रामति' उत्पद्यते, स एव पूर्वको बीजजीवोन्यो वाऽऽगत्य तत्रोत्पद्यते, एतदुक्तं भवति - यदा जीवेनायुषः क्षयाद्वीजपरित्यागः कृतो भवति, तस्य च यदा बीजस्य क्षित्युदकादिसंयोगस्तदा कदाचित्स एव प्राक्तनोजीवस्तत्रागत्य परिणमते कदाचिदन्य इति, यश्च मूलतया जीवः परिणमते स एव प्रथमपत्रतयाऽपीति, एकजीवकर्तृके मूलपत्रे इतियावत्, प्रथमपत्रकं च याऽसौ बीजस्य समुच्छूनावस्था भूजलकालापेक्षा सैवोच्यत इति, नियमप्रदर्शनमेतत्, शेषं तु किशलयादि सकलं न मूलजीवपरिणामाविर्भावितमेवेत्यवगन्तव्यमिति ।। यत उक्तम् - " सव्वोऽवि किसलओ खलु उग्गममाणो अनन्तओ भणिओ" इत्यादि । तथाऽपरं साधारणलक्षणमभिधित्सुराह - नि. [१३९] चक्कागं भजमाणस्स गंठी चुण्णघणो भवे ।
पुढविसरिसभेएणं अनंतजीवं वियाणेहि ॥
वृ. यस्य मूलकन्दत्वक्पत्रपुष्पफलादेर्भज्यमानस्य चक्रकं भवति, चक्राकारः समच्छेदो भङ्गो भवतीतियावत्, यस्य च ग्रन्थिः - पर्व भङ्गस्थानं वा 'चूर्णेन' रजसा 'घनो' व्याप्तो भवति, यो वा भिद्यमानो वनस्पतिः पृथिवीसदृशेन भेदेन केदारोपरिशुष्कतरिकावत् पुटभेदेन भिद्यते, तमनन्तकार्यं विजानीहि ।। तथा लक्षणान्तरमाह
नि. [१४०]
-
६५
गूढसिरागं पत्तं सच्छीरं जं च होइ निच्छीरं ।
पण संधिय अनंतजीवं वियाणाहि ।।
वृ. . स्पष्टार्था ।। एवं साधारणजीवान् लक्षणतः प्रतिपाद्य सम्प्रति नामग्राहमनन्तान् वनस्पतीन् दर्शयितुमाह
नि. [१४१ ]
सेवालकत्थभाणियअवए पणए य किंनए य हढे ।
एए अनंतजीवा भणिया अन्ने अनेगविहा ।।
15
Jain Education International
वृ. सेवालकत्थभाणिकाऽवकपनककिण्वहठादयोऽनन्तजीवा गदिता अनेकप्रकाराश्चान्येऽपीत्थमवगन्तव्या इति ।। सम्प्रति प्रत्येकतरूणामेकादिजीवपरिगृहीतशरीर ६श्यत्वं प्रतिपिपादयिषयाह -
नि. [१४२ ] एगस्स दुण्ह तिण्ह व संखिज्जाण व तहा असंखाणं । पत्तेयसरीराणं दीसंति सरीरसंघाया ॥
For Private & Personal Use Only
www.jainelibrary.org