________________
६४
आचाराङ्ग सूत्रम् १/-/9/५/- [नि. १३३]
वृ. नानाविधं-भिन्न संस्थानं येषां तानि नानाविधसंस्थानानि पत्राणि यानि चैवंभूतानि दृश्यन्ते तान्येकजीवाधिष्ठितान्यवगन्तव्यानि, तथा स्कन्धा अप्येकजीवाधिष्ठितास्तालसरलनालिकेर्यादीनां, नात्रानेकजीवाधिष्ठितत्वं सम्भवतीति, अवशिष्टानां त्वनेकजीवाधिष्ठितत्वं सामर्थ्यात्प्रतिपादितं भवति ।। साम्प्रतं प्रत्येकतरुजीवराशिपरिमाणाभिधित्स्याऽऽह-- नि. [१३४] पत्तेया पज्जत्ता सेढीए असंखभागमित्ताते।
लोगासंखप्पज्जत्तगाण साहारणाणता। वृ. प्रत्येकतरुजीवाः पर्याप्तकाः संवर्तितचतुरस्त्रीकृतलोकश्रेण्यसंख्येयभागवत्याकाशप्रदेशराशितुल्यप्रमाणाः, एते च पुनर्बादरतेजस्कायपर्याप्तकाराशेरसङ्ख्येयगुणाः, ये पुनरपर्याप्तकाः प्रत्येकतरुजन्तवः ते ह्यसङ्घयेयानां लोकानां यावन्तः प्रदेशास्तावन्त इति, एतेऽप्यपर्याप्तका बादरतेजस्कायजीवराशेरसङ्खयेयगुणाः, सूक्ष्मास्तु वनस्पतयः प्रत्येकशरीरिणः पर्याप्तका अपर्याप्तका वान सन्त्येव, साधारणास्त्वनन्ता इति विशेषानुपादानात् ?, साधारणाः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदेन चतुर्विधा अपि पृथक् पृथगनन्तानां लोकानां यावन्तः प्रदेशास्तावन्तइति, अयंतुविशेषः-साधारणबादरपर्याप्तकेभ्योबादराअपर्याप्तकाअसंख्येयगुणाः बादरापर्याप्तकेभ्यः सूक्ष्माः अपर्याप्तका असङ्ख्येयगुणा- स्तेभ्योऽपि सूक्ष्माः पर्याप्तकाः असङ्घयेयगुणा इति ॥ सम्प्रत्येषां तरुणां यो जीवत्वं नेच्छति तं प्रति जीवत्वप्रतिपादनेच्छया नियुक्तिकृदाहनि. [१३५] एएहिं सरीरेहिं पच्चक्खं ते परूविया जीवा।
. सेसा आणागिज्झा चक्खुणा जे न दीसंति॥ वृ. 'एतैः' पूर्वप्रतिपादितैस्तरुशरीरैः प्रत्यक्षप्रमाणविषयैः ‘प्रत्यक्षं साक्षात् 'ते' वनस्पतिजीवाः 'प्ररूपिताः' प्रसाधिताः, तथाहि-नह्येतानि शरीराणिजीवव्यापारमन्तरेणैवंविधाकारभाञ्जि भवन्ति, तथाच प्रयोगः-जीवशरीराणिवृक्षाः, अक्षाधुपलब्धिभावात्, पाण्यादिसङ्घातवत्, तथा कदाचित्सचित्ताअपिवृक्षाः,जीवशरीरत्वात्, पाण्यादिसङ्घातवदेव,तथामन्दविज्ञानसुखादिमन्तस्तरवः, अव्यक्तचेतनानुगतत्वात्, सुप्तादिपुरुषवत्, तथा चोक्तम् ॥७॥ “वृक्षादयोऽक्षाधुपलब्धिभावात्पण्यादिसङ्घातवदेव देहाः।
तद्वत्सजीवा अपि देहतायाः, सुप्तादिवत् ज्ञानसुखादिमन्तः" 'शेषा'इति सूक्ष्मास्ते च चक्षुषा नोपलभ्यन्त इत्याज्ञया ग्राह्या इति, आज्ञा च भगवद्वचनमवितथमरक्तद्विष्टप्रणीतमिति श्रद्धातव्यमिति।।साम्प्रतंसाधारणलक्षणमभिधित्सुराहनि. [१३६] साहारणमाहारो साहारण आणपाणगहणं च ।
साहारणजीवाणं साहारणलक्खणं एवं॥ वृ. समानम्-एकं धारणम्-अङ्गीकरणं शरीराहारादेर्येषां ते साधारणाः तेषां साधारणानाम्-अनन्तकायानांजीवानां साधारण सामान्यमेकमाहारग्रहणंतथा प्राणापानग्रहणं चसाधारणमेव,एतत्साधारणलक्षणम्, एतदुक्तं भवति एकस्मिन्नाहारितवति सर्वेऽप्याहारितवन्तस्तथैकस्मिन्नुच्छुसिते निःश्वसिते वा सर्वेऽप्युच्छृसिता निःश्वसिता वेति॥
अमुमेवार्थे स्पष्टयितुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org