________________
श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:४
इत्यर्थः, तदाश्रिता वा कृमिकुन्थुपिपीलिकागण्डूपदाहिमण्डूकवृश्चिककर्कटकादयः, तथा वृक्षगुल्मलता- वितानादयः, तथा तृणपत्रनिश्रिताः पतङ्गेलिकादयः, तथा काष्ठनिश्रिताधुणोद्देहिकापि-पीलिकाऽण्डादयः, गोमयनिश्रिताः-कुन्थुपनकादयः, कचवरः-पत्रतृणधूलिसमुदायस्तनिश्रिताः कृमिकीटपतङ्गादयः । तथा सन्ति विद्यन्तेसम्पतितुमुप्लुत्योत्प्लुत्य गन्तुमागन्तुं वा शीलं येषां ते सम्पातिनः प्राणिनो-जीवा मक्षिकाभ्रमरपतङ्गमशकपक्षिवातादयः, एते च सम्पातिनः ‘आहत्य' उपेत्य स्वत एव, यदिवा अत्यर्थंकदाचिद्वा अग्निशिखायां सम्पतन्ति च।
तदेवं पृथिव्यादिनिश्रितानांजीवानां यद्भवति तदर्शयितुमाह
'अगणिं चे'त्यादि, रन्धनपचनतापनाद्यग्निगुणार्थिभिरवश्यमग्निसमारम्भो विधेयः, तत्समारम्भे च पृथिव्यादिनिश्रितानां जीवानामेता वक्ष्यमाणा अवस्था भवन्ति, छान्दसत्वात्, तृतीयार्थे द्वितीया, ततश्चायमर्थः-अग्निना स्पृष्टाः'छुप्ताएकेकेचन सङ्घातम्-अधिकंगात्रसङ्कोचनं मयूरपिच्छवदापद्यन्ते, चशब्दस्याधिक्यार्थत्वात्, खलुशब्दोऽवधारणे, अग्नेरेवायंप्रतापोनापरस्येति, यदिवा सप्तम्यर्थे द्वितीया स्पृष्टशब्दश्च पतितवचनः, ततश्चायमर्थो भवति-अग्नावेव स्पृष्टाः-पतिता “एके शलभादयः ‘सङ्घातं' समेकीभावेनाधिकं गात्रसङ्कोचनम्, 'आपद्यन्ते' प्राप्नुवन्ति, ये च 'तत्र' अग्नौ पतिताः सङ्घातमापद्यन्ते ते प्राणिनः 'तत्र' अग्नौ पर्यापद्यन्ते, पर्यापत्तिः-सम्मूर्छनम्, ऊष्माभिभूता मूर्छामापद्यन्ते इत्यर्थः । अथ किमर्थं सूत्रकृता विभक्तिपरिणामोऽकारीति, उच्यते, मागधदेशीसमनुवृत्तेः व्याख्याविकल्पप्रदर्शनार्थं वा, अध्याहारादयोऽपि व्याख्याङ्गानीत्यनेन शिष्यो ज्ञापितो भवति । अथ के पुनस्तेऽध्याहारादय इति?,उच्यन्ते, अध्याहारो विपरिणामो व्यवहित-कल्पना गुणकल्पना लक्षणावाक्यभेदश्चेति, इह च द्वितीयाविभक्तैः सप्तमीपरिणामः कृत इति । ये च 'तत्र' अग्नौ पर्यापद्यन्ते ते प्राणिनः कृमिपिपीलिकाभ्रमरन-कुलादयस्तत्राग्नावपद्रावन्ति-प्राणान्मुञ्चन्तीत्यर्थः, तदेवमग्निसमारम्भे सति न केवलमग्निजन्तूनां विनाशः किं त्वन्येषामपि पृथिवीतृणपत्रकाष्ठगोमयकचवराश्रितानां सम्पातिनां च व्यापत्तिरव-श्यम्भाविनीति, अत एव च भगवत्यां भगवतोक्तम्-“दो पुरिसा सरिसवयाअन्नमन्नेहिं सद्धिं अगणिकायं समारंभंति, तत्थणंएगे पुरिसेअगणिकायं समुज्जालेति, एगे विज्झवेति, तत्थ णं के पुरिसे महाकम्मयराए ? के पुरिसे अप्पकम्मयराए ?, गोयमा ! जे उज्जालेति से महाकम्मयराए, जे विज्झवेति से अप्पकम्मयराए" ॥ तदेवं प्रभूतसत्त्वोपमर्दनकरमग्न्यारम्भं विज्ञाय मनोवाक्कायैः कृतकारितानुमतिभिश्च तत्परिहारः कार्य इति दर्शयितुमाह
मू. (३९) एत्थ सत्थं असमारंभमाणस्स इच्छेते आरंभा परिण्णाया भवंति, तंपरिण्णाय मेहावी नेवसयंअगणिसत्यं समारंभे नेवऽन्नेहिं अगणिसत्थंसमारंभावेजा अगणिसत्थंसमारंभमाणे अन्ने न समणुजाणेजा, जस्सेते अगणिकम्मसमारंभा परिण्णाया भवंति सेहुमुणी परिण्णायकम्मे त्ति बेमि ॥
वृ. 'अत्र' अग्निकाये 'शस्त्रं' स्वकायपरकायभेदभिन्नं 'समारभभाणस्य' व्यापारयत इत्येते आरम्भाः पचनपाचनादयोवन्धहेतुत्वेनापरिज्ञाता भवन्ति, तथाअत्रैवाग्निकायेशस्त्रमसमारभमणरयैते आरम्भाः परिज्ञाता भवन्ति, यस्यैते अग्निकायसमारम्भा ज्ञपरिज्ञया ज्ञाता भवन्ति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org