SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आचाराङ्ग सूत्रम् १/-/१/४/३६ मर्यादाव्यवस्थितो वक्ष्यमाणप्रकारेण व्यवच्छेदमात्मान्याचिनोतीति । तमेव प्रकारं दर्शयितुमाह - 'इयाणी' त्यादि, यमहमग्निसमारम्भं विषयप्रमादेनाकुलीकृतान्तःकरणः सन् पूर्वमकार्षतमिदानीं जिनवचनोपलब्धाग्निसमारम्भदण्डतत्त्वः नो करोमीति ।। ६० अन्येत्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह - मू. (३७) लज्जमाणा पुढो पास-अनगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारम्भेणं अगणिसत्थं समारमभमाणे अन्ने अणेगरूवे पाणे विहिंसंति । तत्थ खलु भगवता परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिधायहेउं से सयमेव अगणिसत्थं समारभइ अण्णेहिं वा अगणिसत्यं समारंभावेइ अन्ने वा अगणिसत्थं समारभमाणे समणुज्जाणइ, तं से अहियाए तं से अबोहियाए से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोच्चा भगवओ अनगाराणं इहमेगेसिं नायं भवति - एस खलु गंथे एस खलु मोहे स खलु मारे एस खलु नरए, इञ्चत्थं गड्ढिए लोए जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारंभमाणे अन्ने अणेगरूवे पाणे विहिंसइ । वृ. अस्य ग्रन्थस्योक्तार्थस्यायमर्थो लेशतः प्रदर्श्यते - 'लज्जमानाः ' स्वागमोक्तानुष्ठानं कुर्वाणां सावधानुष्ठानेन वा लज्जा कुर्वाणाः 'पृथग्' विभिन्नाः शाक्यादयः 'पश्ये 'ति संयमानुष्ठाने स्थिरीकरणार्थं शिष्यस्य चोदना, अनगारा वयमित्येके प्रवदमानाः, किं तैर्विरूपमाचरितं येनैवं प्रदर्श्यन्त इति दर्शयति-यदिदं विरूपरूपैः शस्त्रैरग्निकर्मसमारम्भेण अग्निशस्त्रं समारभमाणः सन्नन्याननेकरूपान् प्राणिनो विहिनस्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथाऽस्यैव परिफल्गुजीवितस्य परिवन्दनमाननपूजनार्थं जातिमरणमोचनार्थं दुःखप्रतिघातहेतुं यत्करोति तद्दर्शयति- 'स' परिवन्दनाद्यर्थी स्वतएवाग्निशस्त्रं समारभते तथा अन्यैश्चाग्निशस्त्रं समारम्भयति तथाऽन्यांश्च अग्निशस्त्रं समारभमाणान् समनुजानीते, तच्चाग्नेः समारम्भणं 'से' तस्य सुखलिप्सोरमुत्रान्यत्र चाहिताय भवति, तथा तदेव च तस्याबोधिलाभाय भवति, 'स' इति यस्यै तदसदाचरणं प्रदर्शितं स तु शिष्यसत्वग्निसमारम्भणं पापायेत्येवं सम्बुध्यमान ‘आदानीयं' ग्राह्यं सम्यग्दर्शनादि ‘सम्यगुत्थाय’ अभ्युपगम्य श्रुत्वा भगवदन्तिकेऽ नगाराणां वा इहैकेषां साधूनां ज्ञातं भवति, किम् ?, तद्दर्शयति- 'एष' अग्निसमारम्भः ग्रन्थः - कर्महेतुत्वाद् एष एव मोह एष एवमार एष एव नरकस्तद्धेतुत्वादिति भावः इत्येवमर्थं च गृद्धो लोको यत्करोति तद्दर्शयति-यदिदं विरूपरूपैः शस्त्रैरग्निकर्म समारभते तदारम्भेण चाग्निशस्त्रं समारभते तच्चारंभमाणोऽन्याननेकरूपान प्रणिनो विहिनस्तीति ॥ कथं पुनरग्निसमारम्भप्रवृत्ता नानाविधान् प्राणिनो विहिंसन्तीति दर्शयितुमाहमू. (३८) से बेमि-संति पाणा पुढवीनिस्सिया तणनिस्सिया पत्तनिस्सिया कट्ठनिस्सिया गोमयनिस्सिया कयवरनिस्सिया, संति संपातिमा पाणा आहच्च संपयंति, अगणिं च खलु पुट्ठा एगे संघायमावज्जंति, जे तत्थं संघायमावज्जंति ते तत्थ परियावज्जुंति, जे तत्थ परियावज्जंति ते तत्थ उद्दायंति । - वृ. तदहं ब्रवीमि यथा नानाविधजीवहिंसनमग्निकायसमारम्भेण भवतीति । यथाप्रतिज्ञातार्थं दर्शयति – ‘सन्ति’ विद्यन्ते 'प्राणा' जन्तवः, पृथिवीकायनिश्रिताः पृथिवीकायत्वेन परिणता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy