________________
श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:४
दहनात्मकः पाकाद्यनेकशक्तिकलापोपचितः प्रवरमणिरिव जाज्वल्यमानो लब्धाग्निव्यपदेशः यतीनामनारम्भणीयः,तमेवंविधंखेदम्-अग्निव्यापारंजानातीतिखेदज्ञः,अतोयएवदीर्घलोकशस्त्रस्य खेदज्ञः स एव 'अशस्त्रस्य' सप्तदशभेदस्य संयमस्य खेदज्ञः, संयमो हि न कञ्चिज्जीवं व्यापादयतिअतोऽशस्त्रम्, एवमनेनसंयमेनसर्वसत्त्वाभयप्रदायिनाऽ-नुष्ठीयमानेनाग्निजीवविषयःसमारम्भःशक्यः परिहर्तुंपृथिव्यादिकायसमारम्भश्चेत्येवमसौ संयमेनिपुणमतिर्भवति, ततश्च निपुणमतित्वाद्विदितपरमार्थोऽग्निसमारम्भाद्वयावृत्य संयमानुष्ठाने प्रवर्तते । इदानीं गतप्रत्यागतलक्षणेनाविनाभावित्वप्रदर्शनावर्थविपर्ययेणसूत्रावयपरामर्शकरोति- 'जेअसत्थस्से' त्यादि, यश्चाशस्त्रे-संयमेनिपुणःसखलुदीर्घलोकशस्त्रस्य-अग्नेः क्षेत्रज्ञःखेदज्ञोवा, संयमपूर्वकं ह्यग्निविषयखेदज्ञत्वम्, अग्निविषयखेदज्ञतापूर्वकं च संयमानुष्ठानम्, अन्यथा तदसम्भव एवेत्येतद्गतप्रत्यागतफलमावि वितं भवति ।। कैः पुनरिदमेवमुपलब्धमित्यत आह - 'वीरेहि'त्यादि, अथवा सद्वक्तृप्रसिद्धौ सत्यां वाक्यप्रसिद्धिर्भवतीत्यत उपदिश्यते
मू. (३४) वीरेहिं एवं अभिभूय दिटुं, संजएहिं सया जत्तेहिं सया अप्पमत्तेहिं ।
वृ. घनघातिकर्मसङ्घातविदारणानन्तरप्राप्तातुलकेवलश्रिया विराजन्त इति वीराःतीर्थकरान्तैवीरैरर्थतो दृष्टमेतद्गणधरैश्च सूत्रतोऽग्निशस्त्रं दृष्टम् अशस्त्रं संयमस्वरूपंचेति । किं पुनरनुष्ठायेदंतैरुपलब्धमिति, अत्रोच्यते, अभिभूयेति अभिनवोनामादिश्चतुर्द्धा, द्रव्याभिभवोरिपुसेनादिपराजयःआदित्यतेजसा वाचन्द्रग्रहनक्षत्रादितेजोऽभिभवः,भावाभिभवस्तुपरीषहोपसर्गानीकज्ञानदर्शनावरणमोहान्तरायकर्मनिर्दलनं, परीषहोपसर्गादिसेनाविजयाद्विमलं चरणं चरणशुद्धर्ज्ञानावरणादिकर्मक्षयः, तत्क्षयानिवरणमप्रतिहतमशेषज्ञेयग्राहिकेवलज्ञा-नमुपजायते, इदमुक्तं भवति-परीषहोपसर्गज्ञानदर्शनावरणीयमोहान्तरायाण्यभिभूय केवलमुत्पाद्य तैरुपलब्धमिति।यथाभूतैस्तैरिदमुपलब्धंतदर्शयति-संजएहिं सम्यग्यताः संयताःप्राणातिपातादिभ्यस्तैः, तथा सदा सर्वकालंचरणप्रतिपत्तौमूलोत्तरगुणभेदायांनिरतिचारत्वा-द्यलवन्तस्तैः, तथा 'सदा' सर्वकालं न विद्यते प्रमादो-मद्यविषयकषायविकथानिद्राख्यो येषां तेऽप्रमत्तास्तैः, एवंभूतैर्महावीरैः केवलज्ञानचक्षुषेदं दीर्घलोकशस्त्रम् अशस्त्रं च संयमो दृष्टम्-उपलब्धमिति । अत्र च यलग्रहणादीर्यासमित्यादयो गुणा गृह्यन्ते, अप्रमादग्रहणात्तु मद्यादिनिवृत्तिरिति । तदेवमेतप्रधानपुरुषप्रतिपादितमग्निशस्त्रमपायदर्शनादप्रमत्तैः साधुभिः परिहार्यमिति ।। एवं प्रत्यक्षीकृतानेकदोषजालमप्यग्निशस्त्रमुपभोगलोभाप्रमादवशगा ये न परिहरन्ति तानुद्दिश्य विपाकदर्शनायाह
मू. (३५) जे पमत्ते गुणट्ठीए से हु दंडेत्ति पवुच्चइ ।
वृ.यो हिप्रमत्तोभवति मद्यविषयादिप्रमादैरसंयतो ‘गुणार्थी' रन्धनपचनप्रकाशातापनाद्यग्निगुणप्रयोजनवान् स दुष्प्रणिहितमनोवाक्कायोऽग्निशस्त्रसमारम्भकतया प्राणिनां दण्डहेतुत्वाद्दण्डः प्रकर्षेणोच्यतेप्रोच्यते, आयुघृतादिव्यप देशवदिति ॥
यतश्चैवं ततः किं कर्त्तव्यमित्यत आह - मू. (३६) तंपरिण्णाय मेहावी इयाणिं नोजमहं पुवमकासी पमाएणं। वृ. 'तम्' अग्निकायसमारम्भंदण्डफलंपरिज्ञाय-ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभ्यां मेघावी'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org