________________
५८
आचाराङ्ग सूत्रम् १/-/9/४/३२ सत्यात्मवप्रसाधितमग्निलोकंयः प्रत्याचक्षीत सोऽतिसाहसिकआत्मानमम्याख्याति-निराकरोति, यश्चात्माभ्याख्यान प्रवृत्त :स सदैवाग्निलोकमभ्याख्याति, सामान्यपूर्वकत्वाद्विशेषाणां, सति ह्यात्मसामान्येपृथिव्याद्यात्मविभागः सिद्धयतिनान्यथा, सामान्यस्य विशेषव्यापकत्वात्, व्यापकविनिवृत्तीचव्याप्यस्याप्यवश्यंभाविनीविनिवृत्तिरितिकृत्वा । एवमयमग्निलोकः सामान्यात्मवन्नाभ्याख्यातव्य इति प्रदर्शितम्, अधुनाऽग्निजीवप्रतिपत्तौ सत्यां तद्विषयसमारम्भकटुकफलपरिहारोपन्यासाय सूत्रमाह -
मू. (३३) जे दीहलोगसत्थस्स खेयण्णे से असत्थस्स खेयण्णे जे असत्थस्स खेयण्णे से दीहलोगसत्थस्स खेयण्णे।
वृ. 'य' इतिमुमुक्षुदीर्घलोको-वनस्पतिर्यस्मादसौ कायस्थित्या परिमाणेन शरीरोच्छ्रयेण चशेषैकेन्द्रियेभ्योदी?वर्तते, तथाहि-कायस्थित्या तावत् ‘वणस्सइकाइएणं भंते? वणस्सइकाइएत्तिकालओकेवच्चिरहोइ?,गोयमा! अनंतकालं अनंताओउस्सप्पिणि-अवसप्पिणिओ खेत्तओअनंतालोयाअसंखेज्जा पोग्गलपरियट्टा, तेणंपुग्गलपरियट्टा आवलियाएअसंखेज्जइभागे' परिमाणतस्तुपडुप्पन्नवणस्सइकाइयाणंभंते! केवतिकालस्स निल्लेवणासिया?, गोयमा! पडुप्पन्नवणस्सइकाइयाणं नस्थि निल्लेवणा' तथा शरीरोच्छ्याञ्च दी? वनस्पतिः ‘वणस्सइकाइयाणं भंते ! महालिया सरीरोगाहणा पण्णत्ता?, गोयमा साइरेगंजोयणसहस्सं सरीरोगाहणा' न तथाऽन्येषामेकेन्द्रियाणाम्, अतःस्थितमेतत्-सर्वथा दीर्घलोकोवनस्पतिरिति, अस्यच शस्त्रमग्निः, यस्मात्स हि प्रवृद्धज्वालाकलापाकुलः सकलतरुगणप्रध्वंसनाय प्रभवति, अतोऽसौ तदुत्सादकत्वाच्छंस्त्रं, ननुच सर्वलोकप्रसिद्धया कस्मादग्निरेव नोक्तः?, किंवा प्रयोजनमुररीकृत्योक्तं दीर्घलोकशस्त्रमिति, अत्रोच्यते, प्रेक्षापूर्वकारितया, न निरभिप्रायमेतत्कृतमिति, यस्मादय-मुत्पाद्यमानोज्वाल्यमानो वा हव्यवाहःसमस्तभूतग्रामघाताय प्रवर्तते, वनस्पतिदाहप्रवृत्तस्तुबहुविधसत्त्वसंहतिविनाशकारी विशेषतः स्यात्, यतोवनस्पतौ कृमिपिपीलिकाभ्रमरकपोतश्वापदादयः सम्भवन्ति, तथा पृथिव्यपितरुकोटरव्यवस्थिता स्यात्, आपऽप्यवश्यायरूपाः, वायुरपीषच्चजलस्वभावकोमलकिशलयानुसारीसम्भाव्यते, तदेवमग्निस-मारम्भप्रवृत्तएतावतो जीवान्नाशयति, अस्यार्थस्य सूचनाय दीर्घलोकशस्त्रग्रहणमकरोत् सूत्रकार इति, तथा चोक्तम् ॥१॥
“जायतेयं न इच्छन्ति, पावगंजलइत्तए।
तिक्खमन्नयरंसत्थं, सव्वओऽविदुरासयं ॥ ॥२॥ पाईणं पडिणं वावि, उड्ढं अणुदिसामवि।
अहे दाहिणओ वावि, दहे उत्तर ओऽविय॥ भूयाणमेसमाधाओ, हव्ववाहो न संसओ।
तंपईवपयावट्ठा, संजओ किंचि नारभे ॥" अथवाबादरतेजस्कायाः पर्याप्तकाःस्तोका,शेषाः पृथिव्यादयोजीवकाया बहवः, भवस्थितिरपि त्रीण्यहोरात्राणि स्वल्प इतरेषां पृथिव्यब्वायुवनस्पतीनां यथाक्रमं द्वाविंशतिसप्तत्रिदशवर्षसहस्रपरिमाणादीर्घाअवसेया इति, अतो दीर्घलोकः-पृथिव्यादिस्तस्यशस्त्रम्-अग्निकायस्तस्य 'क्षेत्रज्ञो निपुणः अग्निकार्यवर्णादितोजानातीत्यर्थः, 'खेदज्ञोवा' खेदः-तद्व्यापारःसर्वसत्त्वानां
For Private & Personal Use Only
॥३॥
Jain Education International
www.jainelibrary.org