________________
५७
श्रुतस्कन्धः - १, अध्ययनं -१, उद्देशक:४
वृ. एतैः' दहनादिभिः कारणैस्तेजस्कायिकान्जीवान् ‘हिंसन्ती'ति सङ्घट्टनपरितापनापद्रावणानि कुर्वन्ति ‘सातं' सुखं तदात्मनोऽन्विष्यन्तः परस्य' बादराग्निकायस्य दुःखम्, 'उदीरयन्ति' उत्पादयन्तीति ।। साम्प्रतंशस्त्रद्वारं, तच्च द्रव्यभावशस्त्रभेदात् द्विधा, द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्र समासतो द्रव्यशश्त्रप्रतिपादनायाह - नि. [१२३] पुढवी आउक्काए उल्ला य वणस्सई तसा पाणा ।
. बायरतेउक्काए एयं तु समासओ सत्थं ॥ वृ. 'पृथिवी' धूलिः अप्कायश्च आर्द्रश्च वनस्पतिः त्रसाश्च प्राणिनः, एतद्वादरतेजस्कायजन्तूनां 'समासतः' सामान्येन शत्रमिति॥विभागतो द्रव्यशस्त्रमाह -- नि. [१२४] किंची सकायसत्यं किंची परकाय तदुभयं किंची।
एयंतु दव्वसत्थं भावे य असंजमो सत्यं ॥ वृ. किञ्चिच्छस्त्रं स्वकाय एव-अग्निकाय एव अग्निकायस्य, तद्यथा-तार्णोऽग्निः पार्णाग्नेः शस्त्रमिति, किञ्चिच्च परकायशस्त्रम्-उदकादि, उभयशस्त्रं पुनः-तुषकरीषादिव्यतिमिश्रोऽ-ग्निरपराग्नेः, तुशब्दोभावशस्त्रपेक्षया विशेषणार्थः, ‘एतत्तु' पूर्वोक्तं समासविभागरूपं पृथिवी-स्वकायादि द्रव्यशस्त्रमिति। भावशस्त्रं दर्शयति-भावेशस्त्रम् असंयमो-दुष्प्रणिहितमनोवाक्कायलक्षण इति ।। उक्तव्यतिरिक्तद्वारातिदेशद्वारेणोपसञ्जिहीर्षुर्नियुक्तिकृदाह - नि. [१२५] सेसाई दाराई ताइं जाई हवंति पुढवीए।
एवं तेउद्देसे निजुत्ती कित्तिया एसा ।। वृ. उक्तशेषाणि द्वाराणि तान्येव यानि पृथिव्युद्देशकेऽभिहितानि 'एवम्' उक्तप्रकारेण तेजस्कायाभिधानोद्देशके नियुक्तिः 'कीर्त्तिता' व्यावर्णिता भवतीति ।
साम्प्रत सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् -
मू. (३२) से बेभि नेव सय लोगं अब्भाइक्खेजा नेव अत्ताणं अब्भाइक्खेजा, जे लोयं अब्भाइक्खइ से अत्थाणं अब्भाइक्खइ, जे अत्ताणं अब्भाइक्खइ से लोयं अब्भाइक्खइ।
वृ. अस्य च सम्बन्धः प्राग्वद्वाच्य इति, येन मया सामान्यात्मपदार्थपृथिव्यप्कायजीवप्रविभागव्यवर्णनमकारि स एवाहमव्यवच्छिन्नज्ञानप्रवाहस्तेजो जीवस्वरूपोपलम्भसमुपजनितजिनवचनसम्मदो ब्रवीभि, किं पुनस्तदिति दर्शयति नैवे'त्यादि, इह हि प्रकरणसम्बन्धाल्लोकशब्देनाग्निकायलोकोऽभिधित्सितः, अतस्तमग्निलोकं जीवत्वेन नैव ‘स्वयम्' आत्मनाऽभ्याचक्षीत-नैवाप8वीतेत्यर्थः, एतदभ्याख्याने ह्यात्मनोऽपिज्ञानादिगुणकलापानुमितस्याभ्याख्यान- मवाप्नोति, अथ च प्राक् प्रसाधितत्वादभअयाख्यानं नैवात्मनो न्याय्यम्, एवं तेजस्कायस्यापि प्रसाधितत्वात् अभ्याख्यानं क्रियमाणं न युक्तिपथमवतरति, एवं चास्य युक्त्यागमबलप्रसिद्धस्याभ्याख्याने क्रियमाणे सत्यात्मनोऽप्यहंप्रत्ययसिद्धस्याभ्याख्यानं भवतःप्राप्तम् । एवमस्त्विति चेत्, तन्नेति दर्शयति – 'नेव अत्ताणं अब्भाइक्खेज्जा' नैवात्मानंशरीराधिष्ठातारं ज्ञानगुणं प्रत्यात्मसंवेद्यं प्रत्याचक्षीत, तस्य शरीराधिष्ठातृत्वेन आहृतमिदं शरीरं केनचिदभिसन्धिमता, तथा व्यक्तमिदं शरीरं केनचिदभिसन्धिमतैवेत्येवमादिभिर्हेतुभिः प्रसाधितत्वात्, न च प्रसाधितप्रसाधनं पिष्टपेषणवत् विद्वज्जनमनांसि रञ्जयति, एवं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org