SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आचाराङ्ग सूत्रम् १/-/१/४/- [नि. ११८] सहस्रभेदपरिमाणा भवन्ति, तत्रैषां संवृता योनिरुष्णा च सचित्ताचित्तमिश्रभेदात् त्रिधा, सप्त चैषां योनिलक्षा भवन्ति॥ साम्प्रतं चशब्दसमुच्चितं लक्षणद्वारमाहनि. [११९] जह देहप्परिणामो रत्तिं खज्जोयगस्स सा उवमा। जरियस्स यजह उम्हा तओवमा तेउजीवाणं॥ वृ. 'यथेति दृष्टान्तोपन्यासार्थः 'देहपरिणामः' प्रतिविशिष्टा शरीरशक्तिः 'रात्रा विति विशिष्टकालनिर्देशः खद्योतक' इति प्राणिविशेषपरिग्रहः, यथा तस्यासौ देहपरिणामोजीवप्रयोगनिवृत्तशक्तिराविश्चकास्ति,एवमङ्गारादीनामपिप्रति विशिष्टाप्रकाशादिशक्तिनुमीयतेजीवप्रयोगविशेषाविर्भावितेति।यथावा-ज्वरोष्मा जीवप्रयोगंनातिवर्तते, जीवाधिष्ठि-तशरीरकानुपात्येव भवति, एषैवोपमाऽऽग्नेयजन्तूनां, नच मृता ज्चरिणः क्वचिदुपलभ्यन्ते, एवमन्वयव्यतिरेकाभ्यामग्नेः सचित्ततामुक्तकग्रन्थोपपत्तिमुखेनप्रतिपादिता, सम्प्रतिप्रयोगमारोप्यते अयमेवार्थ:जीवशरीराण्यङ्गारादयः, छेद्यत्वादिहेतुगणान्वितत्वात्, सास्नाविपाणादिसङ्घातवत्, तथा आत्मसंयोगाविभूतोऽङ्गारादीनां प्रकाशपरिणामः, शरीरस्थत्वात्, खद्योतकदेहपरिणामवत्, तथा आत्मसम्प्रयोगपूर्वकोऽङ्गारादीनामूष्मा,शरीरस्थत्वात, ज्वरोष्मवत, नचादित्यादिभिरनेकान्तः, सर्वेषामात्मप्रयोगपूर्वकं यत उष्णपरिणामभाक्त्वं तस्मान्नानेकान्तः, तथा सचेतनं तेजो, यथायोग्याहारोपादानेन वृद्धिविशेषतद्विकारत्वत्त्वात्, पुरुषवत्, एवमादिनालक्षणेनाग्नेयाजन्तवो निश्चेया इति॥ उक्तं लक्षणद्गारं, तदनन्तरं परिमाणद्वारमाह - नि. [१२०] जे बायरपज्जत्ता पलिअस्स असंखभागमित्ता उ । सेसा तिण्णिवि रासी वीसुं लोगा असंखिजा ॥ वृ. ये बादरपर्याप्तानलजीवाः क्षेत्रपल्योपमासङ्घयेयभागमात्रवर्तिप्रदेशराशिपरिमाणाः भवन्ति, ते पुनर्बादरपृथिवीकायपर्याप्तकेभ्योऽसङ्खयेयगुणहीनाः, शेषायोऽपि राशयः पृथ्वीकायवद्भावनीयाः, किन्तु बादरपृथिवीकायापर्याप्तकेभ्यो बादराग्न्यपर्याप्तका असंख्येयगुणहीनाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माग्नेयापर्याप्तका विशेषहीनाः सूक्ष्मपृथिवीकायपर्याप्तकेभ्यः, सूक्ष्माग्नेयपर्याप्तका विशेषहीना इति ॥ साम्प्रतमुपभोगद्वारमाह - नि. [१२१] दहणे पयावण पगासणे य सेण य भत्तकरणे य बायरतेउक्काए उवभोगगुणा मणुस्साणं॥ वृ. दहनं-शरीराद्यवयवस्य वाताद्यपनयनार्थं प्रकृष्टं तापं प्रतापनं-शीतापनोदाय प्रकाशकरणमुद्योतकरणं-प्रदीपादिनाभक्तकरणम्-ओदनादिरन्धनंखेदोज्वरविसूचिकादीनाम्, इत्येवमादिष्वनेकप्रयोजनेषूपस्थितेषु मनुष्याणां बादरतेजस्कायविषया उपभोगरूपा गुणा उपभोगगुणा भवन्तीति । तदेवमेवमादिभिः कारणैः समुपस्थितैः सततमारम्भप्रवृत्ता गृहिणो यत्याभासा वा सुखैषिणस्तेजस्कयजन्तून् हिंसन्तीति दर्शयितुमाह - नि. [१२२] एएहिं कारणेहिं हिंसंती तेउकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy