________________
श्रुतस्कन्धः - १, अध्ययनं. १, उद्देशकः-४
- अध्ययनं-१, उद्देशकः-४:वृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके मुनित्वप्रतिपत्तये अप्कायः प्रतिपादितः, तदधुना तदर्थमेव क्रमायातस्तेजस्कायप्रतिपादनाया-यमुद्देशकः समारम्भयते तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणिवाच्यानि तावद्यावन्नामनिष्पन्ने निक्षेपे तेजउद्देशक इति नाम, तत्र तेजसो निक्षेपादीनि द्वाराणि वाच्यानि, अत्र च पृथिवीविकल्प-तुल्यत्वात् केषाञ्चिदतिदेशो द्वाराणामपरेषां तद्विलक्षणत्वात् अपोद्वार इत्येतत् द्वयमुररीकृत्य निर्युक्तकृद्, गाथामाहनि. [११६] तेउस्सवि दाराइं ताईजाई हवंति पुढवीए।
नाणत्ती उ विहाणे परिमाणुनभोगसत्थे य॥ वृ. 'तेजसोऽपि' अग्नेरपि द्वाराणि' निक्षेपादीनि यानि पृथिव्याः समधिगमेऽभिहितानि तान्येव वाच्यानि, अपवाददर्शयितुमाह- 'नानात्वं' भेदोविधानपरिमाणोपभोगशस्त्रेषु, तुरवधारणे, विधानादिष्वेव च नानात्वं नान्यत्रेति, चशब्दाल्लक्षणद्वारपरिग्रहः ।।
यथाप्रतिज्ञातनिर्वहणार्थ-मादिद्वारव्याचिख्यासयाऽऽह - नि. [११७] दुविहा य तेउजीवा सुहुमा तह बायरा य लोगंभि ।
सुहुमा य सव्वलोए पंचेव य बायरविहाणा ॥ __ वृ. स्पष्टा ।। वादरपञ्चभेदप्रतिपादनाथाह - नि. [११८] इंगाल अगणि अच्ची जाला तह मुम्मुरे य बोद्धव्वे ।
बायरतेउविहाणा पंचविहा वण्णिया एए॥ वृ. दग्घेन्धनो विगतधूमज्वालोऽङ्गारः-, इन्धनस्थः प्लोषक्रियाविशिष्टरूपः तथा विद्युदुल्काऽशनिसङ्घर्षसमुत्थितः सूर्यमणिसंसृतादिरूपश्चाग्निः, दाह्यप्रतिबद्धोज्वालाविशेषोऽचिः, ज्वाला छिन्नमूलाऽनङ्गारप्रतिबद्धा, प्रविरलग्निकणानुविद्धं भस्म मुर्मुरः, एते बादरा अग्निभेदाः पञ्च भवन्तीति । एतेच बादराग्नयः स्वस्थानाङ्गीकरणान्म-नुष्यक्षेत्रेऽर्द्धतृतीयेषु द्वीपसमुद्रेष्वव्याधातेन पञ्चदशसु कर्मभूमिषु व्याधाते सति पञ्चसु विदेहेषु, नान्यत्र, उपपाताङख्येकरणेन लोकासङ्गयेयभागवर्तिनः, तथा चागमः-“उववाएणं दोसु उड्ढकवाडेसु तिरियलोयतट्टे य" अस्यायमर्थः-अर्द्धतृतीयद्वीपसमुद्रबाहल्ये पूर्वापरदिक्षणोत्तरस्वयम्भूरमण- पर्यन्तायते उविधोलोकप्रमाणे कपाटे तयोः प्रविष्टा बादराग्निषूत्पद्यमानकास्तद्वयपदेशं लभन्ते, तथा 'तिरियलोयतट्टेय'त्तितिर्यग्लोकस्थालकेच व्यवस्थितो बादराग्निषूत्पद्यमानोबादराग्निव्यपदेशभाग् भवति । अन्ये तु व्याचक्षते-तयोस्तिष्ठतीति तस्थः, तिर्यग्लोकश्चासौ तत्स्थश्च तिर्यग्लोकतत्स्थः, तत्र च स्थित उत्पित्सुर्बादराग्निव्यपदेशमासादयति, अस्मिंश्च व्याख्याने कपाटान्तर्गत एवगृह्यते, स च द्वयोरूज़वकपाटयोरित्यनेनैवोपात्त इति तद्वयाख्यानाभिप्रायं न विद्मः । कपाटस्थापना चेयम् । समुद्घातेन सर्वलोकवर्तिनः, ते च पृथिव्यादयो मारणान्तिकसमुद्घातेन समवहता वादराग्निषूत्पद्यमानास्तद्वयपदेशभाजः सर्वलोकव्यापिनो भवन्ति, यत्रच वादराः पर्याप्तकास्तत्रैव बादराअपर्याप्तकाः, तन्निश्रया तेषामुत्पद्यमानत्वात, तदेवं सूक्ष्मा बादराश्च पर्याप्तकापर्याप्तकभेदेन प्रत्येकं द्विधाभवन्ति एते च वर्णगन्धरसस्पशदिशैः सहस्राग्रशोभिद्यमानाः सङ्घययोनिप्रमुखशत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org