________________
आचाराङ्ग सूत्रम् १/-19/३/२४ समारभमाणोऽन्यानप्यनेकरूपान्जन्तून विविधं हिनस्तीति, तत्कथमेतच्छक्यमभ्युपगन्तुमित्यत आह-सन्ति पाणा' इत्यादि पूर्ववत्, कियन्तः पुनस्त इति दर्शयति-“जीवा अणेगा' पुनजीवोपादान- मुदकाश्रितप्रभूतजीवभेदज्ञापनार्थं, ततश्चेदमुक्तं भवति-एकैकस्मिन् जीवभेदे उदकाश्रिता ‘अनेके' असंख्येयाः प्राणिनो भवन्ति, एवं चाप्कायविषयारम्भभाजः पुरुषास्ते तनिश्चितप्रभुतसत्त्वव्यापत्तिकारिणो द्रष्टव्याः ॥ शाक्यादयस्तूदकाश्रितानेव द्वीन्द्रियादीन् जीवानिच्छन्ति नोदकमित्येतदेव दर्शयति
मू. (२५) इहं च खलु भो! अनगाराणं उदयजीवा वियाहिया सत्थं च इत्थं अणुवीइपासा
वृ. खलुशब्दोऽवधारणे ‘इहैव' ज्ञातपुत्रीये प्रवचने द्वादशाङ्गे गणिपिटके 'अनगाराणां' साधूनाम् ‘उदकजीवा' उदकरूपा जीवाश्चश्ब्दात्तदाश्रिताश्च पूतरकछेदनकलोद्दणकभ्रमरक मत्स्यादयोजीवाव्याख्याताः,अवदारणफलंच नान्येषामुदकरूपाजीवाःप्रतिपादिताः॥यद्येवमुदकमेव जीवास्ततोऽवश्यं तत्परिभोगे सति प्राणातिपातभाजः साधव इति, अत्रोच्यते, नैतदेवं, यतो वयं त्रिविधमकायमाचक्ष्महे-सचित्तं मिश्रमचित्तं च, तत्र योऽचित्तोऽप्कायस्तेनोपयोगविधिः साधूनां, नेतराभ्यां, कथं पुनरसौ भवत्यचित्तः? किं स्वभावादेवाहोश्विच्छ्त्रसम्बन्धात् ?, उभयथाऽपीति, तत्र यः स्वभावादेवाचित्तीभवति न बाह्यशस्त्रसम्पर्कात्, तमचित्तं जानाना अपि केवलमनः पर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसङ्गभीरुतया, यतो नुश्रूयते-भगवता किल श्रीवर्द्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गःशैवलपटलासादिरहितो महाद्रहो व्यपगता-शेषजलजन्तुकोऽचित्तवारिपरिपूर्णः स्वशिष्याणांतृड्वाधिइतानामपिपानाय नानुजज्ञे, तथा अचित्ततिलशकटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोषसंरक्षणाय भगवता न कृतेति, श्रुतज्ञानप्रामाण्यज्ञापनार्थंच, तथाहि-सामान्यश्रुतज्ञानीबाह्येन्धनसम्पकारुषितस्वरुपमेवाचित्तमिति व्यवहरतिजलं, नपुनर्निरिबन्धनमेवेति, अतोयबाह्यशस्त्रसम्पत्पिरिणामान्तरापन्नं वर्णादि-भिस्तर्दिचित्तं साधुपरिभोगाय कल्पते, किं पुनस्तच्छस्त्रमित्यत् आह
शस्यन्ते-हिंस्यन्तेऽनेन प्राणिन इतिशस्त्रं, तच्चोत्सेचनगालनउपकरणधवनादिस्वकायादि चवर्णाद्यापत्तयो वा पूर्वावस्थाविलक्षणाःशस्त्रं, तथाहि-अग्निपुद्गलानुगतत्वादीषत्पिङ्गलंजलं भवत्युष्णं गन्धतोऽपि धूमगन्धि रसतो विरसं स्पर्शत उष्णं तच्चोवृत्तत्रिदण्डम् एवंविधावस्थं यदि ततः कल्पते, नान्यथा, तथा कचवरकरीषगोमूत्रोषादीन्धनसम्बन्धात् स्तोकमध्यबहुभेदात्, स्तोकस्तोकेप्रक्षिपतीत्यादिचतुर्भङ्गिकाभावना कार्या, एवमेतत्रिविधंशस्त्रं, चशब्दोऽवधारणार्थः, अन्यतमशस्त्रसम्पर्क विध्वस्तमेव ग्राह्य, नान्यथेति, “एत्थ'त्ति एतस्मिन् अप्काये प्रस्तुते 'अनुविचिन्त्य' विचार्य इदमस्य शस्त्रमित्येवं ग्राह्यं, 'पश्ये' त्यनेन शिष्यस्य चोदनेति । तदेवं नानाविधं शस्त्रम-कायस्यातीति प्रतिपादितम् एतदेव दर्शयति
मू. (२६) पुढो सत्थं पवेइयं।
वृ. पुढो सत्थं पवेदितं' 'पृथग्' विभिन्नमुत्सेचनादिकंशस्त्रं प्रवेदितम्' आख्यातंभगवता, पाठान्तरंवा 'पुढोऽपासं पवेदितं' एवंपृथग्विभिन्नलक्षणेनशस्त्रेणपरिणामित-मुदकग्रहणमपाशं प्रवेदितम्-आख्यातं भगवता, अपाशः-अबन्धनं शस्त्रपरिणामितोदकग्रहणमबन्धमाख्यातमितियावद् ।। एवंतावत्साधूनांसचित्तमिश्राप्कायपरित्यागेनाचित्तपयसापरिभोगःप्रतिपादितः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org