________________
श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:३ येपुनःशाक्यादयोऽप्कायोपभोगप्रवृत्तास्ते नियमतएवाप्कार्यविहिंसन्ति, तदाश्रितांश्चान्यानिति, तत्र न केवलं प्राणातिपातापत्तिरेव तेषां किमन्यदित्य आह -
मू. (२७) अदुवा अदिन्नादाणं।
वृ. 'अथवे ति पक्षान्तरोपन्यासद्वारेणाभ्युच्चयोपदर्शनार्थः,अशस्त्रोपहताप्कायोपभोगकारिणांन केवलंप्राणातिपातः, अपित्वदत्तादानमपि तत्तेषां, यतो यैरप्कायजन्तुभिर्यानि शरीराणि निर्वतितानि तैरदत्तानि ते तान्युपभुञ्जते, यथा कश्चित् पुमान् सचितशाक्यभिक्षुकशरीरकात् खण्डमुत्कृत्य गृह्णीयाद्, अदत्तं, हि तस्य तत् , परपरिगृहीतत्वात्, परकीयगवाद्यादानवत्, एवं तानिशरीराण्यब्जीवपरिगृहीतानिगृह्णतोऽदत्तादानमवश्यम्भावि, स्वाम्यनुज्ञानाभावादिति, ननु यस्य तत्तडागकूपादि तेनानुज्ञातं सकृत्तत्पय इति, ततश्च नादत्तादानं, स्वामिनाऽनुज्ञातत्वात्, परानुज्ञातपश्वादिधातवत्, नन्वेदपि साध्यावस्थमेवोपन्यस्तं, यतः पशुरपि शरीरप्रदानविमुख एवभिन्नार्यमर्यादैरुच्चैरारटन्विशस्यते, ततश्च कथमिव नादत्तादानस्यात् ?, न चान्यदीयस्यान्यः स्वामी दृष्टः परमार्थचिन्ताया, नन्वेवमशेषलोकप्रसिद्धगोदानादिव्यवहारस्त्रुट्यति, त्रुट्यतु नामैवंविधः पापसम्बन्धः, तद्धि देयं यद्दुःखितं स्वयं न भवति दासीबलीवर्दादिवत्, न चान्येषां दुःखोत्पत्तेः कारणं हलखङ्गादिवत्, एतद्व्यतिरिक्तं दातृपरिगृहीत्रोरेकान्तत एवोपकारकं देयं प्रतिजानते जिनेन्द्रमतावलम्बिनः, उक्तंच॥१॥ “यत् स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि ।
केवलमुपग्रहकरं धर्मकृते तद्भवेद्देयम्॥" इति, तस्मादवस्थितमेतत्-तेषां तददत्तादानमपीति ।। साम्प्रतमेतद्दोषद्वयं स्वसिद्धामाभ्युपगमद्वारेण परः परिजिहीराह -
मू. (२८) कप्पइणे कप्पइ णे पाउं, अदुवा विभूसाए।
वृ.अशस्त्रोपहतोदकारम्भिणो हि चोदिताः सन्त एवमाहुः-यथा नैतत् स्वमनीषिकातः समारम्भयामो वयं, किं त्वागमे निर्जीवत्वेनानिषिद्धत्वात् 'कल्पते' युज्यते 'नः' अस्माकं पातुम्' अभ्यवहर्तुमिति, वीप्सया च नानाविधप्रयोजनविषय उपभोगोऽभ्यनुज्ञातो भवति, तथाहिआजीविकभस्मन्नाय्यादयोवदन्ति-पातुमस्माकंकल्पतेन स्नातुंवारिणा, शाक्यपरिव्राजकादयस्तु स्नानपानावगाहनादि सर्वं कल्पते इति प्रभाषन्ते, एतदेव स्वनामग्राहं दर्शयति–अथवोदकं विभूषार्थमनुज्ञातंनः समये, विभूषा-करचरणपायूपस्थमुखप्रक्षालनादिका वस्त्रभण्डकादिप्रक्षालनात्मिका वा, एवं स्नानादिशौचानुष्ठायिनां नास्ति कश्चिद्दोष इति । एवं ते परिफल्गुवचसः परिव्राजकादयो निजराद्धान्तोपन्यासेन मुग्धमतीन्विमोह्यं किं कुर्वन्तीत्याह -
मू. (२९) पुढो सत्थेहिं विउदृन्ति।
वृ. 'पृथग्' विभिन्नलक्षणैः नानारूपैरुत्सेचनादिशस्त्रै अनगारायमाणाः 'विउद्दन्ति'त्ति अप्कायजीवान्जीवनाद्व्यावर्त्तयन्ति-व्यपरोपयन्तीत्यर्थः, यदिवा पृथग्विभिन्नैः शस्त्रैरप्कायिकान्विविधं कुट्टन्ति-छिन्दन्तीत्यर्थः, कुट्टेर्धातोः छेदनार्थत्वात् ॥
अधुनैषामागमानुसारिणामागमासार-त्वप्रतिपादनायाह - मू. (३०) एत्थऽवि तेसिं नो निकरणाए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org