________________
श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:३
शुभाशुभफलभाजं न प्रत्याचक्षीत, एवं च सति यो ह्यज्ञः कुतकतिमिरोपहतज्ञानचक्षुरप्कायलोकमभ्याख्याति-प्रत्याचष्टे स सर्वप्रमाणसिद्धमात्मानमभ्या- ख्याति, यश्चात्मानमभ्याख्याति-नास्म्यहं, स सामर्थ्यादप्कायलोकमभ्याख्याति, यतो ह्यात्मनि पाण्याद्यवयवोपेतशरीराधिष्ठायिनि प्रस्पष्टलिङ्गऽम्याख्याते सत्यव्यक्तचेतनालिङ्गोऽकायलोकस्तेन सुतरामभ्याख्यातः ।। एवमनेकदोषोपपत्तिं विदित्वा नायमप्कायलोकोऽभ्याख्यातव्य इत्यालोच्य साधवो नाप्कायविषयमारम्भं कुर्वन्तीति, शाक्यादयस्त्वन्यथोपस्थिति इति दर्शयितुमाह
मू. (२४) लजमाणा पुढो पास-अणगारा मो त्ति एगे पवयमाणा जमिणं विरुवरुवेहि सत्येहिं उदयकम्मसमारंभेणंउदयसत्यं समारंभमाणे अणेगरुवेपाणे विहिंसइ । तत्थखलु भगवता परिण्णा पवेदिता । इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव उदयसत्यं समारभति अण्णेहिं वा उदयसत्यं समारंभावेति अन्ने उदयसत्थं समारंभंते समणुजाणति।तंसेअहियाएतंसे अबोहीए। सेतंसंबुज्झमाणे आयाणीयं समुट्ठाय सोचा भगवओ अनगाराणं अंतिए इहमेगेसिं नायं भवति-एस खलु गंथे एस खलु मोहे एसखलुमारेएसखलुनरए, इच्चत्यंगड्ढिएलोएजमिणं विरुवरुवेहिं सत्येहिं उदयकम्मसमारम्भेणं उदयसत्थं समारंभमाणे अन्ने अणेगरुवे पाणे विहिंसइ । सेबेमिसंतिपाणा उदयनिस्सिया जीवा अनेगे।
वृ. 'लज्जमानाः' स्वकीयंप्रव्रज्याभासंकुर्वाणाः यदिवासावद्यानुष्ठानेनलज्जमानाः-लज्जां कुर्वाणाः 'पृथग्'विभिन्नाः शाक्योलूक कणभुक्क पिलादिशिष्याः, पश्येति शिष्यचोदना, अविवक्षितकर्मका अपि अकर्मका भवन्ति, यथा-पश्य मृगो धावतीति, द्वितीयार्थे वा प्रथमा सुब्यत्ययेन द्रष्टव्या, ततश्चायमर्थः-शाक्यादीन् गृहीतप्रव्रज्यानपि सावद्यानुष्ठानरतान् पृथग्विभिन्नान् पश्य, किं तैरसदाचरितं? येनैवं प्रदर्श्यन्त इति दर्शयति-अनगारा वयमित्येके शाक्यादयः प्रवदन्तो 'यदिदं' यदतत्, काक्वा दर्शयति-"विरूपरूपैः' उत्सेचनाग्निविध्यापनादिशस्त्रैः स्वकायपरकाय-भेदभिन्नैरुदककर्मसमारभन्ते, उदककर्मसमारम्भेण च उदकेशस्त्रंउदकमेववाशस्त्रंसमारभन्ते, तच्चसमारभमाणोऽनेकरूपान्वनस्पतिद्वीन्द्रियादीन्विविध हिनस्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथा अस्यैवजीवितव्यस्य परवन्दनमाननपूजनार्थं जातिमरणमोचनार्थं दुःखप्रतिधातहेतुं यत् करोति तद्दर्शयति-स स्वयमेवोदकशस्त्रं समारभते अन्यैश्चोदकशस्त्रंसमारम्भयतिअन्यांचोदकशस्त्रंसमारभमाणान्समनुजानीते, तच्चोदकसमारम्भणं तस्याहितायभवति, तथा तदेवाबोधिलाभायभवति,सएतत्सम्बुध्यमानआदानीयं-सम्यग्दर्शनादि सम्यगुत्थाय-अभ्युपगम्य श्रुत्वा भगवतोऽनगाराणां वाऽन्तिके इहैकेषांसाधूनां यत् ज्ञातं भवति तद्दर्शयति
___ 'एषः' अप्कायसमारम्भो ग्रन्थ एष खलु मोह एष खलु मार एष खलु नरक इत्येवमर्थं गृद्धोलोको यदिदं विरुपरूपैः शस्त्रैः उदककर्मसमारम्भेणोदकशस्त्रंसमारभमाणोऽन्याननेकरूपान् प्राणिनो विविधं हिनस्तीत्येतत्याग्वत्व्याख्येयं, पुनरप्याह – 'सेवेमी' त्यादि, सेशब्द आत्मनिर्देशे, सोऽहमेवपुलब्धानेकाप्कायतत्त्वृत्तान्तो ब्रवीमि-'सन्ति' विद्यन्ते प्राणिन उदकनिश्रिताःपूतरकमत्स्यादयो यानुदकारम्पप्रवृत्तो हन्यादिति, अथवाऽपरः सम्बन्धःप्रागुक्तमुदकशस्त्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org