________________
४८
आचाराङ्ग सूत्रम् १/-/9/३/- [नि. ११२] तद् 'उदीरयन्ति' असातवेदनीयमुत्पादयन्तीत्यर्थः, उक्तंच॥१॥ “एकं हि चक्षुरमलं सहजो विवेकस्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद्द्वयं भुविन यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः?॥
-इदानीं शस्त्रद्वारमुच्यतेनि. [११३] उस्सिंचणगालणधोवणे य उवगरणमत्तभंडे य।
बायरआउक्काए एयं तु समासओ सत्थं ॥ वृ. शस्त्रंद्रव्यभावभेदाद्विधा-द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्रसमासतो द्रव्यशस्त्रमिदम्-ऊर्द्ध सेचनमुत्सेचनं-कूपादेः कोशादिनोत्क्षेपणमित्यर्थः, ‘गालनं' घनमसृणवस्त्रान्तेिन धावनं वस्त्राधुपकरणचर्मकोशकटाहादिभण्डकविषयम्, एवमादिकंबादराप्काये 'एतत् पूर्वोक्तं 'समासतः' सामान्येन शस्त्रं, तुशब्दो विभागापेक्षया विशेषणार्थः॥
विभागत: स्तित्वदम्नि. [११४] किंची सकाय सत्थं किंची परकाय तदुभयं किंचि ।
एयंत दव्वसत्थं भावे य असंजमो सत्यं ॥ वृ. किञ्चित् स्वकायशस्त्रं नादेयं तडागस्य, किञ्चित्परकायशस्त्रं मृत्तिकास्नेहक्षारादि, किञ्चिच्चोभयंउदकमिश्रामृत्तिकोदकस्येति, भावशस्त्रमसंयमः प्रमत्तस्य दुष्प्रणिहितमनोवाकायलक्षण इति ॥शेषद्वाराणि पृथिवीकायवनेतव्यानि इति दर्शयितुमाहनि. [११५] सेसाई दाराइताइंजाइंहवंति पुढवीए।
एवं आउद्देसे निजुत्ती कित्तिया एसा ॥ वृ. 'शेषाणी' त्युक्तशेषाणि निक्षेपवेदनावधनिवृत्तिरूपाणि, तान्येवात्रापि द्रष्टव्यानि यानि पृथिव्यां भवन्तीति, ‘एवम्' उक्तप्रकारेणाप्कायोद्देशके 'नियुक्तिः' निश्चयेनार्थघटना 'कीर्तिता' प्रदर्शिता भवतीति ॥साम्प्रतंसूत्रानुगमेऽस्खलितादिगुणोपेतंसूत्रमुच्चारणीयं, तच्चेदम्
मू. (१९) से बेमि जहा अनगारे उज्जुकडे नियायपडिवण्णे अमायं कुव्वमाणे वियाहिए
वृ. 'से बेमी'त्यादि अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके परिसमाप्तिसूत्रे 'पृथिवीकायसमारम्भव्यावृत्तो मुनि रित्युक्तं, न चैतावता सम्पूर्णो मुनिर्भवति, यथा च भवति तथा दर्शयति, तथाऽऽदिसूत्रेणायं सम्बन्धः-सुधर्मस्वामी इदमाह-श्रुतं मया भगवदन्तिके यत् प्राक् प्रतिपादितमन्यच्चेदमित्येवं परम्परसूत्रसम्बन्धोऽपि प्राग्वद्वाच्यः । सेशब्दस्तच्छब्दार्थो, स यथा पृथिवीकायसमारम्भव्यावृत्त्युत्तरकालं सम्पूर्णानगारव्यपदेशभाग भवति तदहं ब्रवीमि, अपिःसमुच्चये, स यथा वाऽनगारो न भवति, तथा च ब्रवीमि ‘अणगारा मोत्ति एगे पयवमाणे'त्यादिनेति, नविद्यतेअगारं-गृहमस्येत्यनगारः,इहच यत्यादिशब्दव्युदासेनानगार-शब्दोपादानेनैतदाचष्टे-गृहपरित्यागः प्रधानं मुनित्वकारणं, तदाश्रयत्वात्सावद्यानुष्ठानस्य, निरवद्यानुष्ठायी च मुनिरितिदर्शयति-उज्जुकडे'त्तिऋ जुः-अकुटिलः संयमोदुष्प्रणिहितमनोवाक्कायनिरोधःसर्वसत्त्वसंरक्षणप्रवृत्तत्वाद्दयैकरूपः, सर्वत्राकुटिलगतिरितियावत्, यदिवा मोक्षस्थानगमन-र्जुश्रेणिप्रतिपत्ति सर्वसंवरसंयमात्, कारणेकार्योपचारंकृत्वा संयम एवसप्तदशप्रकार ऋ जुःतंकरोतीतिऋजुकृत, ऋजुकारीत्यर्थः । अनेन चेदमुक्तं भवति-अशेषसंयमानुष्ठायी सम्पूर्णोऽनगारः,
एवंविधश्चेष्ग् भवतीति दर्शयति-नियागपडिवन्ने'त्ति, यजनं त्यागः नियतो निश्चितो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org