________________
४७
श्रुतस्कन्धः - १, अध्ययनं -१, उद्देशकः३ नि. [११०] जह हत्थिस्स सरीरं कललावत्थस्स अहुणोववनस्स।
होइ उदगंडगस्स य एसुवमा सव्वजीवाणं ।। वृ. अथवा पर आक्षिपति-नाप्कायो जीवः, तल्लक्षणायोगात् प्रश्नवणादिवदित्यस्य हेतोरसिद्धतोद्भावनार्थं दृष्टान्तद्वारेण लक्षणमाह-जहेत्यादि, यथा हस्तिनः शरीरं कललावस्थायामधुनोत्पन्नस्य द्रवं चेतनं च दृष्टम्, एवमप्कायोऽपीति, यथा वा उदकप्रधानमण्डकमुदकाण्डकमधुनोत्पन्नमित्यर्थः, तन्मध्यव्यवस्थितं रसमात्रमसञातावयवमनभिव्यक्तचच्वाद्रिपविभागंचेतनावद्द्दष्टम्, एषाएवोपमाअकायजीवानामपीति, हस्तिशरीरकललग्रहणं च महाकायत्वात्तद्बहु भवत्तीत्यतः सुखेन प्रतिपद्यते, अधुनोपपन्नग्रहणं सप्ताहपरिग्रहार्थं, यतः सप्ताहमेव कललं भवति, परतस्त्वर्बुदादि, अण्डकेऽप्युदकग्रहणमेवमर्थमेव,प्रयोगश्चायम्-सचेतना आपः शस्त्रानुपहतत्वे सति द्रवत्वात्, हस्तिशरीरोपादानभूतकललवत् विशेषणोपादानापश्रवणादिव्युदासः, तथा सात्मकं तोयम्, अनुपहतद्रवत्वाद्, अण्डकमध्यस्थितक- ललवदिति, तथा आपोजीवशरीरारणि, छेद्यत्वाद्भेद्यत्वादुत्क्षेप्यत्वाद्भोज्यत्वाद्भोग्यत्वात्प्रेयत्वाद्रसनीयत्वात् स्पर्शनीयत्वात् दृश्यत्वाद्रव्यत्वाद् एवं सर्वेऽपिशरीरधर्मा हेतुत्वेनोपन्यसनीयाः, गगनवर्जभूतधर्माश्च रूपवत्त्वाकारवत्त्वादयः, सर्वत्र चायं दृष्टान्तः-सास्नाविषाणादिसङ्घतवदिति, ननु च रूपवत्त्वाकारवत्त्वादयो भूतधर्माः परमाणुष्वपि दृष्टा इत्यनैकान्तिकता, नैतदेवं, यदत्र छेद्यत्वादिहेतुत्वेनोपन्यस्तंतत्सर्वमिन्द्रियव्यवहारानुपाति, नचतथापरमाणवः, अतः प्रकरणादतीन्द्रियपरमाणुव्यवच्छेदः, यदिवा नैवासौ विपक्षः, सर्वस्यपुद्गलद्रव्यस्य द्रव्यशरीराभ्युपगमात्, जीवसहितासहितत्वं तु विशेषः उक्तंच॥१॥ “तणवोऽणडभातिविगार मुत्तजाइत्तओऽणिलंता उ ।
सत्यासत्थहयाओ निज्जीवसजीवरूवाओ।" एवं शरीरत्वे सिद्धे सति प्रमाणं-सचेतना हिमादयः, कचित् अप्कायत्वाद्, इतरोदकवत् इति, तथा सचेतना आपः, क्वचित्खातभूमिस्वाभाविकसम्भवत्वाद्, दर्दुरवत्, अथवा सचेतना अन्तरिक्षोद्भवाआपः, स्वाभाविकव्योमसम्भूतसम्पातित्वात्, मत्स्यवत्, अतएतेएवंविधलक्षणभाक्त्वा । जीवा । भवन्त्यप्कायाः ।। साम्प्रतमुपभोगद्वारमाहनि. [१११] न्हाणे पिअणे तह धोअणे य भत्तकरणे स सेए ।
आउस्स उ परिभोगो गमणागमणे य जीवाणं ॥ वृ. स्नानपानधावनभक्तकरणसेकयानपात्रोडुपगमनागमनादिरुपभोगः । ततश्च तत्परिभोगाभिलाषिणो जीवा एतानि कारणान्युद्दिश्याप्कायवधे प्रवर्तन्त इति प्रदर्शयितुमाह - नि. [११२] एएहिं कारणेहिं हिंसंती आउकाइए जीवे ।
सायं गवेसमाणा परस्स दुक्खं उदीरंति ।। वृ. 'एभिः' स्नानावगाहनादिकैः कारणैरुपस्थितैः विषयविषमोहितात्मानो निष्करुणा अप्कायिकान्जीवान् ‘हिंसन्ति' व्यापादयन्ति, किमर्थमित्याह- 'सातं' सुखंतदात्मनः 'अन्वेषयन्तः' प्रार्थयन्तः हिताहितविचारशून्यमनसः कतिपयदिवसस्थायिरम्ययौवनदपध्मिातचेतसः सन्तः सद्विवेकरहिता तथा विवेकजनसंसर्गविकलाः परस्य' अबादेर्जन्तुगणस्य 'दुःखम्' असातलक्षणं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org