SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आचाराङ्ग सूत्रम् १/-19/३/- [नि. १०६] नि. [१०६] आउस्सवि दाराईताई जाइं हवंति पुढवीए। नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य॥ वृ. अप्कायस्यापि तान्येव द्वाराणि भवन्ति यानि पृथिव्याः प्रतिपादितानीति, नानात्वं' भेदरूपंविधानपरिमाणोपभोगशस्त्रविषवंद्रष्टव्यं, चशब्दाल्लक्षणविषयंच,तुशब्दोऽवधारणार्थः, एतद्गतमेव नानात्वं नान्यगतमिति॥तत्र विधानं-प्ररूपणा, तद्गतं नानात्वं प्रदर्शयितुमाहनि. [१०७] दुविहाउ आउजीवा सुहुमा तह बायरा य लोगंभि । सुहुमा य सव्वलोए पंचेव य बायरविहाणा ॥ वृ. स्पष्टा ।। तत्र पञ्च बादरविधानानि दर्शयितुमाह - नि. [१०८] सुद्धोदए य उस्सा हिमेय महिया य हरतणूचेव। बायर आउविहाणा पंचविहा वणिया एए॥ वृ. 'शुद्धोदकं' तडागसमुद्रनदीद्रहावटादिगतमवश्यायादिरहितमिति, 'अवश्यायो" रजन्यां यस्लेहः पतति, हिमं तु शिशिरसमये शीतपुद्गलसम्पजिलमेव कठिनीभूतमिति, गर्भमासादिषु सायंप्रातर्वाधूमिकापातोमहिकेत्युच्यते, वर्षाशरत्कालयोर्हरिताङ्कुरमस्तकस्थितो जलबिन्दुभूमिस्नेहसम्पर्कोद्भूतो हरतनुशब्देनाभिधीयते, एवमेते पञ्च बादराप्कायविधयो व्यावर्णिता । ननुचप्रज्ञापनायांवादराप्कायभेदा बहवः परिपठिताः,तद्यथा-करकशीतोष्णक्षारक्षत्रकट्वम्ललवणवरुणकालोदपुष्करक्षीरधृतेक्षुरसादयः, कथं पुनस्तेषामत्र सङ्गहः?, उच्यते, करकस्तावत्कठिनत्वाद्धिमान्तः-पाती, शेषास्तुस्पर्शरसस्थानवर्णमात्रभिन्नत्वानशुद्धोदकमतिवर्तन्ते, यद्येवं प्रज्ञापनायांकिमर्थोऽपरभेदानांपाठः?, उच्यते, स्त्रीबालमन्दपुद्धयादिप्रतिपत्त्यर्थमिति, इहापिकस्मानतदर्थं पाठः?, उच्यते, प्रज्ञापनाध्ययनमुपाङ्गत्वादाएं, तत्रयुक्तः सकलभेदोपन्यासः स्त्र्याद्यनुग्रहाय, निर्युक्तयस्तु सूत्रार्थं पिण्डीकुर्वन्त्यः प्रवर्तन्त इत्य-दोषः । त एते बादराप्कायाः समासतोद्वेधाः-पर्याप्तका अपर्याप्तकाश्च, तत्रापर्याप्तकावर्णादीनसम्प्राप्ताः,पर्याप्तकास्तुवर्णगन्धरसस्पर्शा देशैः सहाग्रशोभिद्यन्ते, ततश्च सङ्ख्येयानि योनिप्रमुखानि शतसहस्राणि भवन्तिभेदानामित्यवगन्तव्यं संवृतयोनयश्चैते, साच योनिः सचित्ताचित्तमिश्रभेदात् त्रिधा, पुनच्च शीतोष्णोभयभेदान्निविधैव, एवं गण्यमानाः योनीनां सप्त लक्षा भवन्तीति॥ प्ररूपणानन्तरं परिमाणद्वारमाह - नि. [१०९] जे बायरपज्जत्ता पयरस्स असंखभागमित्ताते। सेसा तिन्निवि रासी वीसुं लोगा असंखिज्जा। वृ. ये बादराप्कायपर्याप्तकास्ते संवर्तितलोकप्रतरासङ्खयेयभागप्रदेशराशिपरिमाणाः, शेषास्तु त्रयोऽपि राशयो 'विष्वक्' पृथगसङ्खयेययलोकाकाशप्रदेशराशिपरिमाणा इति, विशेषश्चायम् बादरपृथिवीकायपर्याप्तकेभ्यो बादराप्कायपर्याप्तका असङ्ख्येयगुणाःबादरपृथ्वीकायापर्याप्तकेभ्यो बादराप्कायिकापर्याप्तका असंख्येयगुणाः सूक्ष्मपृथिवीकायापर्याप्तकभ्यः सूक्ष्माप्कायापर्याप्तका विशेषाधिकाः । सूक्ष्मपृथ्वीकायपर्याप्तकेभ्यः सूक्ष्मा कायपर्याप्ता विशेषाधिकाः॥ साम्प्रतं परिमाणद्वारानन्तरंचशब्दसूचितं लक्षणद्वारमाह -- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy