________________
श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:३
वायागोनियागो-मोक्षमार्गः, सङ्गतार्थत्वाद्धातोः सम्यग्ज्ञानदर्शनचारित्रात्मतया गतं सङ्गतमिति, तं नियागं-सम्यग्दर्शनज्ञानचारित्रात्मकं मोक्षमार्गं प्रतिपन्नो नियाग प्रतिपन्नः, पाठान्तरं वा 'निकायप्रतिपन्नो' निर्गतः कायः-औदारिकादिरयस्माद्यस्मिन्वासति सनिकायो-मोक्षस्तंप्रतिपन्नो निकायप्रतिपन्नोः, तत्कारणस्य सम्यग्दर्शनादेः स्वशक्त्याऽनुष्ठानात्, स्वशक्त्याऽनुष्ठानं चामायाविनो भवतीतिदर्शयति- 'अमायंकुव्वमाणे'त्तिमाया-सर्वत्र स्ववीर्यनिगहनं, न माया अमाया तां कुर्वाणः, अनिगूहितबलवीर्यः संयमानुष्ठाने पराक्रममाणोऽनगारो व्याख्यात इति, अनेन च तज्जातीयोपादानादशेसु कषायापगमोऽपि द्रष्टव्य इति, उक्तंच- “सोही यउज्जुयभूयस्स, धम्मो सुद्धस्स चिट्ठि"त्ति ॥ तदेवमसावुद्धृतसकलमायावल्लीवितानः किं कुर्यादित्याह
मू. (२०) जाए सद्धाए निक्खंतो तमेव अनुपालिज्जा, वियहित्ता विसोत्तियं ।
वृ. 'यया श्रद्धया' प्रवर्द्धमानसंयमस्थानकण्डकरूपया 'निष्क्रान्तः' प्रव्रज्यां गृहीतवान् 'तामेव' श्रद्धामश्रान्तो यावज्जीवम् 'अनुपालयेद्' रक्षेदित्यर्थः,प्रव्रज्याकालेचप्रायशःप्रवृद्धपरिणाम एव प्रव्रजति, पशश्चात्तु संयमश्रेणी प्रतिपन्नो वर्द्धमानपरिणामो वा हीयमानपरिणामो वा अवस्थितपरिणामो वेति, तत्र वृद्धिकालो हानिकालो वा समयाद्युत्कर्षेणान्तर्मोहूर्तिकः, नातः परं सङ्क्लेशविशुध्धद्धे भवतः, उक्तंच॥१॥ “नान्तर्मुहूर्त्तकालमतिवृत्य शक्यं हि जगति सङ्कलेष्टुम् ।
नापि विशोद्धं शक्यं प्रत्यक्षो ह्यात्मनः सोऽर्थः ।। ॥२॥ उपयोगद्वयपरिवृत्तिः सा निर्हेतुका स्वभावत्वात् ।
आत्मप्रत्यक्षो हि स्वभावो व्यर्थाऽत्र हेतूक्तिः॥" अवस्थितकालश्च द्वयोवृद्धिहानिलक्षणयोर्यवमध्यवज्रमध्ययोरप्टौ समयाः, तत उर्द्धवमवश्यं पातात्, अयं च वृद्धिहान्यवस्थितरूपः परिणामः केवलिनां निश्चयेन गम्यो न छद्मस्थानामिति । यद्यपिच प्रव्रज्याभिगमोत्तरकालं श्रुतसागरमवगाहमानः संवेगवैराग्यभावनाभावितान्तरात्मा कश्चित्प्रवर्द्धमानमेव परिणामं भजते, तथा चोक्तम् - ॥१॥ “जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउव्वं ।
तह तह पल्हाइ मुणी नवनवसंवेगसद्धाए॥" । तथापि स्तोक एव ताद्दक् बहवश्च परिपतन्ति अतोऽभिधीयते 'तामेवानुपालयेदि'ति, कथंपुनः कृत्वा श्रद्धामनुपालयेदित्याह- 'विजहे'त्यादि, विहाय' परित्यज्य विनोतसिकां'शङ्का, साच द्विधा-सर्वशङ्कादेशशङकाच, तत्र सर्वशङ्का किमस्ति आहेतो मार्गोनवेति, देशशङ्का तु किं विद्यन्ते अप्कायादयो जीवाः?, विशेष्यप्रवचनेऽभिहितत्वात् स्पष्टचेतनात्मलिङ्गाभावान विद्यन्ते इति वा, इत्येवमादिकामारेकां विहाय सम्पूर्णाननगारगुणान् पालयेत्, यदिवा विस्रोतांसि द्रव्यभावभेदात् द्विधा-तत्र द्रव्यविस्रोतांसि नद्यादिस्त्रोतसां प्रतीपगमनानि, भावविस्रोतांसि तु मोक्षं प्रतिसम्यग्दर्शनादिस्रोतसा प्रस्थितानां विरुपाणि प्रतिकूलानि गमनानि भावविस्रोतांसि, तानि विहाय सम्पूर्णानगारगुणभाग् भवति, श्रद्धां वाऽनुपालयेदिति, पाठान्तरं वा ‘विजहित्ता पुव्वसंजोग' पूर्वसंयोगः-मातापित्रादिभिः, अस्य चोपलक्षणार्थत्वात्पश्चात्संयोगोऽपिश्वशुरादिकृतो
Jaltreducation International
For Private & Personal Use Only
www.jainelibrary.org