________________
श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:२
४३ परोक्षज्ञानिनश्च, अतस्तान् लज्जमानान् पश्येत्यनेन शिष्यस्य कुशलानुष्ठानप्रवृत्तिविषयः प्रदर्शितो भवतीति।कुतीर्थकास्त-वन्यथावादिनोऽन्यथाकारिणइतिदर्शयितुमाह-'अणगारा' इत्यादि, नविद्यतेऽगारं-गृहमेषामित्य-नगारा-यतयः स्मो वयमित्येवं प्रकर्षेणवदन्तःप्रवदन्त इति, “एके' शाक्यादयो ग्राह्याः, ते च वयमेव जन्तुरक्षणपराः क्षपितकषायाज्ञानतिमिरा 'इति' एवमादि प्रतिज्ञामात्रमनर्थकमारटन्ति, यथा कश्चिदत्यन्तशुचिर्वोद्रश्चतुःषष्टिमृत्तिकास्नायी गोशवस्याशुचितयापरित्यागंविधायपुनः कर्मकरवाक्याचास्थिपिशितस्नाय्वादेर्यथास्वमुपयोगार्थं सङ्गहं कारितवान्, तथाचतेनशुच्यभिमानमुद्वहताऽपिकिंतस्यपरित्यक्तम्!, एवमेतेऽपिशाक्यादयोऽनगारवादमुद्वहन्ति, नचानगारगुणेषुमनागपिप्रवर्तन्ते, नचगृहस्थचर्यां मनागप्यतिलमयन्तीति दर्शयति-'यद्' यस्माद् ‘इम मिति सर्वजनप्रत्यक्षं पृथिवीकार्य 'विरूपरूपैः' नानाप्रकारैः 'शस्त्रैः' हलकुद्दाल- खनित्रादिभिः पृथिव्याश्रयं कर्म-क्रियां समारममाणा विहिंसन्ति, तथाऽनेन च पृथिवीकर्मसमारम्भेण पृथिवीशस्त्रं 'समारभमाणो' व्यापारयन् पृथिवीकार्य नानाविधैः शस्त्रैव्यादियन् ‘अनेकरूपान्' तदाश्रितानुदकवनस्पत्यादीन् विविधं हिनस्ति, नानाविधैरुपायैापाइयतीत्यर्थः, एवं शाक्यादीनां पार्थिवजन्तुवैरिणामयतित्वं प्रतिपाद्य साम्प्रतं सुखाभिलाषितया कृतकारितानुमतिभिर्मनो- वाक्कायलक्षणां प्रवृत्तिं दर्शयितुमाह
मू. (१६) तत्त्थ खलु भगवया परिण्णा पवेइया, इमस्स चेवजीवियस्स परिवंदणमाणगपूयणाए जाइमरणोयणाए दुकखपडिघायहेउंस सयमेव पुढविसत्थं समारंभइ अण्णेहिं वा पुढविसत्थं समारंभावेइ अण्णे वा पुढविसत्थं समारंभंते समणुजाणइ।
वृ. तत्र पृथिवीकायसमारम्भे खलुशब्दो वाक्यालङ्कारे 'भगवता' श्रीवर्द्धमानस्वामिना परिज्ञानं परिज्ञा सा प्रवेदितेति, इदमुक्तं भवति-भगवतेदमाख्यातं-यथैभिर्वक्ष्यमाणैः कारणैः कृतकारितानुमतिभिः सुखैषिणःपृथिवीकायंसमारभन्ते, तानिचामूनि-अस्यैवजीवितस्यपरिपेलवस्यपरिवन्दनमाननपूजनार्थं, तथा जातिमरणमोचनार्थंदुःखप्रतिघातहेतुंचससुखलिप्सुर्दुःखद्विट् स्वयमात्मनैवपृथिवीशस्त्रंसमारभते, तथाऽन्यैश्च पृथिवीशस्त्रंसमारम्भयति, पृथिवीशस्त्रंसमारभमाणानन्यांश्च स एव समनुजानीते, एवमतीतानागताभ्यां मनोवाक्काय-कर्मभिरायोजनीयम्। तदेवं प्रवृत्तमतेर्यद्भवति तदर्शयितुमाह -
मू. (१७) तं से अहिआए तं से अबोहीए से तं संबुन्झमाणे आयाणीयं समुट्ठाय सोचा खलु भगवओ अणगाराणंइहमेगेसिंणातं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु नरए इच्चत्थं गड्ढिए लोए जमिणं विरूवरूवेहिं सत्येहिं पुढविकम्मसमारंभेण पुढविसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ, से बेभि अप्पेगे अंधमब्भे अप्पेगे अंधमच्छे अप्पेगे पायमब्भे अप्पेगे पायमच्छे अप्पेगे गुप्फमब्भे अप्पेगेगुप्फमच्छेअप्पेगेजंघमब्भे २ अप्पेगे जाणुमब्भे २ अप्पेगे ऊरुमब्भे२ अप्पेगे कडिमब्भे २ अप्पेगे नाभिमब्भे २ अप्पेगे उदरमब्भे २ अप्पेगे पासमब्भे २ अप्पेगे पिटुमब्भे २ अप्पेगे उरमब्भे २ अप्पेगे हिययमब्भे २ अप्पेगे थणमब्भे २ अप्पेगे खंधमन्भे २ अप्पेगे बाहुमब्भे २ अप्पेगे हत्थमन्भे २ अप्पेगे अंगुलिमब्भे २ अप्पेगेनहमब्भे २ अप्पेगे गीवमन्भे २ अप्पेगे हणुमब्भे २ अप्पेगे होट्टमब्भे २ अप्पेगे दंतमन्भे २ अणे जिष्ममब्भे २ अप्पेगे तालुमब्भे २ अप्पेगेगलमब्भे २ अप्पेगे गंडमब्भे २ अप्पेगेकण्णमब्भे २ अप्पेगेनासमब्भे
Jain Education International
For PL
For Private & Personal Use Only
www.jainelibrary.org