________________
आचाराङ्गसूत्रम् १/११/२/१७ २ अप्पेगे अच्छिमब्मे २ अप्पेगे भमुहमब्भे २ अप्पेगे निडालमब्भे २ अप्पेगे सीसमब्मे २ अप्पेगे संपसारए अप्पेगे उद्दवए, इत्यं सत्यं समारंभमाणस्स इच्छेते आरंभा अपरिण्णाता भवंति।
वृ. 'तं से अहियाए तं से अबोहीए' तत् पृथिवीकायसमारम्भणं से' तस्य कृतकारितानुमतिभिः पृथ्वीशस्त्रंसमारभमाणस्यागामिनी काले अहितायभवति, तदेवचाबोधिलभायेति, न हि प्राणिगणोपमर्दनप्रवृत्तानामणीयसाऽपि हितेनाऽऽयत्यां योगो भवतीत्युक्तं भवति, यः पुनर्भगवतः सकाशात्तच्छिष्यानगारिभ्यो वा विज्ञाय पृथ्वीसमारम्भं पापात्मकं भावयति स एवं मन्यत इत्याह- सेत'मित्यादि, सः'ज्ञातपृथिवीजीवत्वेन विदितपरमार्थः 'तं' पृथ्वीशस्त्रसमारम्भमहितं सम्यगवबुध्यमानः ‘आदानीय ग्राह्यं सम्यग्दर्शनादि सम्यगुत्थाय-अभ्युपगम्य, केन प्रत्ययेनेति दर्शयति-'श्रुत्वा' अवगम्य साक्षाद्भगवतोऽनगाराणांवा समीपे, ततः इह' मनुष्यजन्मनि “एकेषां' प्रतिबुद्धतत्त्वानां साधूनां ज्ञातं भवतीति, यत् ज्ञातं भवति तद्दर्शयितुमाह - 'एसे'त्यादि, एष पृथ्वीशस्त्रसमारम्भः खलुरवधारणे कारणे कार्योपचारं कृत्वा ‘नड्वलोदकं पादरोग' इतिन्यायनैषएवग्रन्थः-अष्टप्रकारकर्मबन्धः, तथैष एवपृथ्वीसमारम्भोमोहहेतुत्वान्मोहःकर्मबन्ध- विशेषो दर्शनचारित्रभेदोऽष्टाविंशतिविधः, तथैव एव मरणहेतुत्वान्मारःआयुष्ककर्मक्षयलक्षणः, तथैष एव नरकहेतुत्वानरकः-सीमन्तकादिभूभागः, अनेन चासातावेदनीयमुपात्तं भवति, कथं पुनरेकप्राणिव्यापादनप्रवृत्तावष्टविधकर्मबन्धं करोतीति, उच्यते मार्यमाणजन्तुज्ञानावरोधित्वात्ज्ञानावरणीय बनात्येवमन्यतराप्यायोजनीयमिति,अन्यदपितेषां ज्ञातं भवतीति दर्शयितुमाह
'इच्चस्थमित्यादि, 'इत्येवमर्थम्' आहारभूषणोपकरणार्थं तथा परिवन्दनमाननपूजनार्थं दुःखप्रतिघाताहेतुंच गृद्धो' मूर्छितो 'लोकः' प्राणिगणः, एवंविधेऽप्यतिदुरितनिचयविपाकफले पृथ्वीकायसमारम्भेअज्ञानवशान्मूर्छितस्तवेतद्विधत्तइति दर्शयति-'यद् यस्माद् ‘इम पृथ्वीकार्य विरूपरूपैः शस्त्रैः पृथ्वीकर्म समारभमाणो हिनस्ति, पृथिवीकायसमारम्भेण च पृथिव्येव शस्त्रं स्वकायादेः पृथिव्या वा शस्त्रं हलकुद्दालादि तत्समारभते, पृथिवीशस्त्रं समारभमाणश्चान्याननेकरूपान् ‘प्राणिनो' द्वीन्द्रियादीन्विविधं हिनस्तीति । स्यादारेका, येहि न पश्यन्ति न श्रृण्वन्ति न जिघ्रन्ति न गच्छन्ति कथं पुनस्ते वेदनामनुभवन्तीति ग्रहीतव्यम् ? अमुष्यार्थस्य प्रसिद्धये दृष्टान्तमाह-‘से बेभी' त्यादि, सोऽहं पृष्टो भवता पृथिवीकायवेदनां ब्रवीमि, अथवा “से' इति तच्छब्दार्थेवर्तते, यत्त्वया पृष्टस्तदहंब्रवीमि,अपिशब्दोयथानामशब्दार्थे, यथानामकश्चिजात्यन्धो बधिरो मूकः कुष्ठी पङ्गुः अनभिनिवृत्तपाण्याद्यवयवविभागो मृगापुत्रवत् पूर्वकृताशुभकर्मोदयाद्धिताहितप्राप्तिपरिहारविमुखोऽतिकरुणां दशां प्राप्तः, तमेवंविधमन्धा- दिगुणोपेतं कश्चित्कुन्ताग्रेण 'अब्बे इतिआभिन्द्यात्तथाऽपरः कश्चिदन्धमाच्छिन्द्यात्, सचभिद्यमनाद्यवस्थायां न पश्यति न श्रृणोति मूकत्वानोच्चै रारटीति, किमेतावता तस्य वेदनाऽभावो जीवाभावो वा शक्यो विज्ञातुम्?,एवंपृथिवीजीवाअप्यव्यक्तचेतनाजात्यन्धबधिरमूकपवाादिगुणोपेतपुरुषवदितियथा वा पञ्चेन्द्रियाणां परिस्पष्टचेतनानां 'अप्पेगे पायमब्मे' इति यथा नाम कश्चित्पादमाभिन्द्यादाच्छिन्द्यावेत्येवं गुल्फादिष्वप्यायोजनीयमिति दर्शयति, एवं जङ्घाजानूरुकटीनाभ्युदरपार्श्वपृष्ठउरोहृदयस्तनस्कन्धबाहुहस्ताङ्गुलिनखग्रीवाह नुकौष्ठदन्तजिह्वातालुगलगम्ड
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org