________________
आचाराङ्ग सूत्रम् १/-19/२/१४ वाच्यः, यस्माद्यावानातः ससर्वोऽपिपरियूनो नामपरिपेलवो निस्सारःऔपशमिकादिप्रशस्तभावहीनोऽव्यभिचारिमोक्षसाधनहीनो वेति, सच द्विधा-द्रव्यभावभेदात्, तत्र सचितद्रव्यपरिघुनो जीर्णशरीरः स्थविरकः जीर्णवृक्षो वा, अचित्तद्रव्यपरियूनो जीर्णपटादिः, भावपरिधून
औदयिकभवोदयाप्रशस्तज्ञानादिभावविकलः, कथं विकलः?,अनन्तगुणपरिहाण्या, तथाहिपञ्चचतुस्त्रिद्वयेकेन्द्रियाः क्रमशोज्ञानविकलाः,तत्र सर्वनिकृष्टज्ञानाः सूक्ष्मानिगोदापर्याप्तकाः प्रथमसमयोत्पन्ना इति, उक्तंच॥१॥ “सर्वनिकृष्टो जीवस्य दृष्ट उपयोग एष वीरेण ।
सूक्ष्मनिगोदापर्याप्तकानां स च भवति विज्ञेयः॥ ॥२॥ तस्मात्प्रभृति ज्ञानविवृद्धिदृष्टा जिनेन जीवानाम् ।
लब्धिनिमित्तैः करणैः कायेन्द्रियवाङ्मनोऽग्भिः ॥" सच विषयकषायातः प्रशस्तज्ञानघूनः किमवस्थो भवतीतिदर्शयति- 'दुस्संबोध' इति, दुःखेन सम्बोध्यते-धर्मचरणप्रतिपत्तिं कार्यत इति दुस्सम्बोधो, मेतार्यवदिति, यदिवा दुस्सम्बोधो यो बोधयितुमशक्यो ब्रह्मदत्तवत्, किमित्येवम्?, यतः ‘अवियाणए'त्ति विशिष्टावबोधरहितः, स चैवंविधः किं विदध्यादित्याह - ‘अस्मिन्' पृथिवीकायलोके 'प्रव्यथिते' प्रकर्षेण व्यथिते, सर्वस्यारम्भस्य तदाश्रयत्वादिति प्रकर्षार्थः, तत्तत्प्रयोजनतया खननादिभिः पीडिते नानाविधशस्त्राभीते वा व्यर्थ भयचलनयो'रितिकृत्वाव्यथितंभीतमिति, तत्थतत्थे ति तेषुतेषु कृषिखननगृहकरणादिषु 'पृथग्' विभिन्नेषु कार्येषूत्पनेषु पश्ये ति विनेयस्य लोकाकार्यप्रवृत्तिःप्रदीते, सिद्धान्तशैल्याएकादेशेऽपिप्राकृतिबहादेशोभवतीति, 'आतुरा' विषयकषायादिभिः ‘अस्मिन्' पृथिवीकाये विषयभूते सामर्थ्यात् पृथिवीकायं परितापयन्ति' परि-समन्तात्तापयन्ति-पीडयन्तीत्यर्थः, बहुवचननिर्देशस्तुतदारम्भिणांबहुत्वं गमयति, यदिवा-लोकशब्दः प्रत्येकमभिसम्बध्यते, कशश्चिल्लोको विषयकषायादिभिरालॊऽपरस्तु कायपरिजीर्णः कश्चिदुःखसम्बोधः तथाऽपरो विशिष्टज्ञानरहितः, एते सर्वेऽप्यातुरा विषयजीर्णदेहादिभिः सुखाप्तऽस्मिन्-पृथिवीकायलोके विषयभूतेपृथिवीकायनानाविधैरुपायैः 'परितापयन्ति' परि-समन्तात्तापयन्ति-पीडयन्तीतिसूत्रार्थः
ननुचैकदेवताविशेषावस्थितापृथिवीतिशक्यंप्रतिपत्तुंनपुनरसंख्येयजीवसङ्घातरूपेत्येतत्परिहतुकाम आह
मू. (१५) संति पाणा पुढो सिया लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरुवरुवेहिं सत्थेहिंपुढविकम्मसमारंभेणंपुढविसत्यं समारंभेमाणाअणेगरुवे पाणे विहिंसइ
वृ. 'सन्ति विद्यन्ते प्राणाः' सत्वाः पृथग्' पृथग्भावेन, अङ्गुलासंख्येयभागस्वदेहावगाहनया पृथिव्याश्रिताः सितावा-सम्बद्धा इत्यर्थः, अनेनैतत्कथयति-नैकदेवता पृथिवी, अपितु प्रत्येकशरीरपृथिवीकायात्मिकेति, तदेवं सचेतनत्वमनेकजीवाधिष्ठितत्वं च पृथिव्या आविष्कृतं भवतीति । एतच्च ज्ञात्वा तदारम्भनिवृत्तान् दर्शयितुमाह - 'लज्जमाणा पुढो पास'त्ति, लज्जा द्विधालौकिकी लोकोत्तराच, तत्रलौकिकी, स्नुषासुभटादेः श्वशुरसङ्ग्रामविषया, लोकोत्तरा सप्तदशप्रकारः संयमः, तदुक्तम् - "लज्जा दया संजम बंभचेर'मित्यादि, लज्जमानाः-संयमानुष्ठानपराः, यदिवापृथिवी- कायसमारम्भरूपादसंयमानुष्ठानल्लज्जमानाः ‘पृथगिति प्रत्यक्षज्ञानिनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org