________________
श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशकर नि. [१०४] एवं वियाणिऊणं पुढवीए निक्खिवंतिजे दंडं।
तिविहेण सव्वकालं मणेण वायाएकाएणं॥ वृ. “एवमित्युक्तप्रकारानुसारेणपृथिवीजीवान् विज्ञायतद्वधंबन्धंच विज्ञाय पृथिवीतो निक्षिपन्तियेदण्डं-पृथिवीसमारम्भाद्वयुपरमन्ति,तेईदृक्षाअनगाराभवन्तीत्युत्तरगाथायांवक्षयति, 'त्रिविधेने ति कृतकारितानुमतिभिः 'सर्वकालं' यावज्जीवमपि मनसा वाचा कायेनेति ॥ अनगारभवने उक्तशेषमाह - नि. [१०५] गुत्ता गुत्तीहि सव्वाहिं समिया समिईहिं संजया ।
जयमाणगा सुविहिया एरिसया हुँतिअणगारा॥ वृ. तिसृभिर्मनोवाक्कायगुप्तिभिर्गुप्ताः, तथा पञ्चभिरीसिमित्यादिभिस्समिताः, सम्यक्उत्थानशयनचङमणादिक्रियासुयताःसंयताः यतमानाः' सर्वत्र प्रयत्नकारिणः,शोभनंविहितंसम्यग्दर्शनाद्यनुष्ठानं येषां ते तथा, ते ईदृक्षा अनगारा भवन्ति, न तु पूर्वोक्तगुणाः पृथिवीकायसमारम्भिणः शाक्यादय इति ।। गतो नामनिष्पन्नो निक्षेपः, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेत सूत्रमुच्चार्यते, तच्चेदं सूत्रम् -
मू. (१४) अट्टे लोए परिजुण्णे दुस्संबोहे अविजाणए,अस्सिं लोए पव्वहिए तत्थ तत्थ पुढो पास आतुरा परिताति।
वृ. अस्य चायमभिसम्बन्धः-इहानन्तरसूत्रे परिज्ञातकर्मा मुनिरभवतीत्युक्तं, यस्त्वपरिज्ञातकर्मासभावार्तोभवतीति, तथाऽऽदिसूत्रेण सहसम्बन्धः-सुधर्मस्वामीजम्बूनाम्नेइदमाचष्टे - 'श्रुतं मया' किं तच्छ्रुतं? पूर्वोद्देशकार्थं प्रदश्येदमपीति, ‘अट्टे' इत्यादि, परम्परसम्बन्धस्तु 'इह एगेसिं नो सन्ना भवती'त्युक्तं, कथनं पुनः संज्ञा न भवतीति, आतत्वात्, तदाह - ‘अट्टे'इत्यादि, आतॊ नामादिश्चतुर्द्धा, नामस्थापने क्षुण्णे, ज्ञशरीरभव्यशरीरव्यतिरिक्तो नोआगमतो द्रव्यातः शकटादिचक्राणामुद्धिमूले वा यो लोहमयः पट्टो दीयते स द्रव्यातः, भावार्तस्तु द्विधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाता-आतंपदार्थज्ञस्तत्रचोपयुक्तो, नोआगमतस्तुऔदयिकभाववर्ती रागद्वेषग्रहपरिगृहीतान्तरात्मा प्रियविप्रयोगादिदुःखसङ्कटनिमग्नोभावार्तइतिव्यपदिश्यते, अथवा शब्दादिविषयेषु विषविपाकसद्दशेषु तदाकाशित्वाद्धिताहितविचारशून्यमना भावातः कर्मोपचिनोति, यत उक्तम् - “सोइंदियवसट्टे णं भंते ! जीवे किं बंधइ ? किं चिणाइ ? किं उवचिणाइ?, गोयमा! अट्ठ कम्मपगडीओ सिढिलबंधणबद्धाओधणियबंधणबद्धाओपकरेइ, जाव अणादियं च णं अणवदग्गं दीहमद्धं चाउरन्तसंसारकन्तारमणुपरियट्टई" एवं स्पर्शनादिष्वप्यायोजनीयम्, एवं क्रोधमानमायालोभदर्शनमोहनीयचारित्रमोहनीयादिभिर्भावार्ताः संसारिणो जीवा इति, उक्तं च -- ॥१॥ "रागद्दीसकसाएहिं, इंदिएहि य पञ्चहिं।
दुहा वा मोहणिज्जेण, अट्टा संसारिणो जिया ।।" यदिवा ज्ञानावरणीयादिना शुभाशुभेनाष्टप्रकारेण कर्मणाऽऽर्त्तः,कःपुनरेवंधिइत्यत्राहलोकयतीति लोकः-एकद्वित्रिचतुष्पञ्चेन्द्रियजीवराशिरित्यर्थः, अत्र लोकशब्दस्यं नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यायभेदादष्टधा निक्षेपंप्रदाप्रशस्तभावोदयवर्तिनालोकेनेहाधिकारो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org