________________
आचाराङ्ग सूत्रम् १/-/१/२/- [नि. ९९] नि. [९९] पवयंति य अनगारा न य तेहि गुणेहि जेहि अनगारा।
पुढविं विहिंसमाणा न हु ते वायाहि अनगारा ॥ वृ. इह ह्येके कुतीर्थिका यतिवेषमास्थाय एवं च प्रवदन्ति-वयम् 'अनगाराः' प्रव्रजिताः, न च 'तेषु गुणेषु' निरवद्यानुष्ठानरूपेषु प्रवर्त्तन्ते, येष्वनगाराः, यथा चानगारगुणेषु न प्रवर्त्तन्ते तद्दर्शयति-यतस्तेऽहर्निशंपृथिवीजन्तुविपत्तिकारिणोद्दश्यन्तेगुदपाणिपादप्रक्षालनार्थम्, अन्यथापि निर्लेपनिर्गन्धत्वं कर्तुं शक्यम्, अतश्च यतिगुणकलापशून्या न वाङ्गमात्रेणयुक्तिनिरपेक्षेणानगारत्वं बिभ्रतीति, अनेन प्रयोगः सूचितः, तत्र गाथापूर्वार्द्धन प्रतिज्ञा, पश्चार्द्धन हेतुः, उत्तरगाथार्द्धन साधर्म्यदृष्टान्तः, सचायंप्रयोगः-कुतीर्थिका यत्यभिमानवादिनोऽपियतिगुणेषुनप्रवर्तन्तेपृथिवीहिंसाप्रवृत्तत्वाद्, इह ये ये पृथिवीहिंसाप्रवृत्तास्ते ते यतिगुणेषु न प्रवर्तन्ते, गृहस्थवत् ।। साम्प्रतं दृष्टान्तगर्भ निगमनमाह - नि. [१००] अनगारवाइणो पुढविहिंसगा निग्गुणा अगारिसमा ।
निद्दोसत्ति य मइला विरइदुगंछाइ मइलतरा ।। वृ. अनगारवादिनो' वयं यतय इति वदनशीलाः पृथिवीकायविहिंसकास्सन्तो निर्गुणा यतोऽतः ‘अगारिसमा' गृहस्थतुल्या भवन्ति, अभ्युच्चयमाह-सचेतनापृथिवीत्येवंज्ञानरहितत्वेन तत्समारम्भवर्तिनः सदोषा अपि सन्तो वयं निर्दोषा इत्येवं मन्यमानाः स्वदोषप्रेक्षाविमुखत्वात्, 'मलिनाः' कलुषितहृदयाः, पुनश्चातिप्रगल्भतया साधुजनाश्रितावा निरवद्यानुष्ठानात्मिकायाविरतेः "जुगुप्सया' निन्दया मलिनतरा भवन्ति, अनया च साधुनिन्दयाऽनन्तसंसारित्वं प्रदर्शितं भवतीति॥
___ एतच्च गाथाद्वयं सूत्रोपात्तार्थानुसार्यपि वधद्वारावसरे नियुक्तिकृताऽभिहितं, तस्य स्वयंमेवोपात्तत्वेन तद्वयाख्यानस्य न्याय्यत्वात, तच्चेदंसूत्रम् 'लज्जमाणापुढो पासअणगारामोत्ति एगे पवयमाणे' त्यादि ।। अयं च वधः कृतकारितानुमतिभिर्भवतीति तदर्थाहनि. [१०१] केई सयं वहंती केई अन्नेहि उ वहाविंती।
केई अणुमन्नंती पुढविकायं वहेमाणा॥ वृ. स्पष्टा, तद्वधे अन्येषामपि तदाश्रितानां वधो भवतीति दर्शयितुमाह - नि. [१०२] जो पुढवि समारंभइ अन्नेऽवि य सो समारभइ काए।
अनियाए अनियाए दिस्से यतहा अदिस्से य॥ वृ. यः पृथ्वीकार्य समारभते' व्यापादयतिसः ‘अन्यानपि' अप्कायद्वीन्द्रियादीन् ‘समारभते' व्यापादयति उदुम्बुरवटफलभक्षणप्रवृत्तः तत्फलान्तःप्रविष्ठत्रसजन्तुभक्षणवदिति, तथा 'अणियाए य नियाईत्ति अकारणेन कारणेन च, यदिवाऽसङ्कल्पेन सङ्कल्पेन च पृथिवीजन्तून् समारभते तदारम्भवांश्च 'दृश्यान्' दर्दुरादीन् 'अदृश्यान्' पनकादीन् ‘समारभत्ते' व्यापादयतीत्यर्थः । एतदेव स्पष्टतरमाह - नि. [१०३] पुढविं समारभतां हणंति तन्निस्सि ए य बहुजीवे।
सुहमे य बायरे य पज्जत्ते या अपजत्ते॥ वृ. स्पष्टा, अत्र च सूक्ष्माणां वधः परिणामाशुद्धत्वात्तद्विषयनिवृत्त्यभावेन द्रष्टव्य इति ॥ विरतिद्वारमाह -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org