SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः- १, अध्ययनं-१, उद्देशक:२ नि. [९३] आलेवण पहरण भूसणे य कयविक्कए किसीए य। भंडाणंपि य करणे उवभोगविहीमणुस्साणं ।। वृ. चङ्क्रमणोर्द्धवस्थान निषीदनत्वग्वर्तनकृतकपुत्रककरणउच्चारप्रश्रवण उपकरणनिक्षेपआलेपनप्रहरणभूषणक्रयविक्रयकृषीकरणभण्डकघट्टनादिषूपभोगविधिर्मनुष्याणां पृथिवीकायेन भवतीति ।। यद्येवं ततः किमित्यत आह - नि. [९४] एएहिं कारणेहिं हिंसंति पुढविकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ वृ.एभिश्चङ्क्रमणादिभिः कारणैः पृथिवीजीवान् हिंसन्ति, किमर्थमितिदर्शयति-“सातं' सुखमात्मनोऽन्वेषयन्तः परदुःखान्यजानानाः कतिपयदिवसरमणीयभोगाशाकर्षितसमस्तेन्द्रियग्रामा विमूढचेतस इति, परस्य' पृथिव्याश्रितजन्तुराशेः 'दुःखम्' असातलक्षणंतदुदीरयन्तिउत्पादयन्तीति, अनेन भूदानजनितः शुभफलोदयः प्रत्युक्त इति ।।अधुनाशस्त्रद्वार-शस्यतेऽनेनेति शस्त्रं, तच्च द्विधा-द्रव्यशस्त्रभावशस्त्रंच, द्रव्यशस्त्रमपि समासविभागभेदाद्विधैव, तत्र समासद्रव्यशस्त्रप्रतिपादनायाह - नि. [९५] हलकुलियाविसकुद्दालालित्तयमिगसिंगकट्ठमग्गी य। उच्चारे पासवणे एयं तु समासओ सत्थं ।।। वृ.तत्र हलकुलिकविषकुद्दालालित्रकमृगशृङ्गकाष्ठाग्न्युचारप्रश्रवणादिकमेतत् समासतः' संक्षेपतो द्रव्यशस्त्रम् ।। विभागद्रव्यशस्त्रप्रतिपादनायाह -- नि. [९६] किंची सकायसत्थं किंची परकाय तदुभयं किंचि । एयं तु दव्वसत्थं भावे अअसंजमो सत्थं ।। वृ. किञ्चित्स्वकायशस्त्रं पृथिव्येवपृथिव्याः, किञ्चित्परकायशस्त्रमुदकादि, तदुभयं किञ्चिदितिभूदकं मिलितंभुव इति। तच्चसर्वमपि द्रव्यशस्त्रं, भावेपुनः ‘असंयमः' दुष्प्रयुक्ता मनोवाक्कायाः शस्त्रमिति ॥ वेदनाद्वारमाह - नि. [९७] पायच्छेयण भेयण जंघोरु तहेव अंगुवंगेसुं। जह हुंति नरा दुहिया पुढविक्काए तहा जाण ।। वृ. यथा पादादिकेष्वङ्गप्रत्यङ्गेषुछेदनभेदादिकया क्रियया नरादुःखितातथापृथिवीकायेऽपि वेदनांजानीहि ।।यद्यपि पादशिरोग्रीवादीन्यङ्गानि पृथिवीकायिकानांन सन्ति तथापितच्छेदनानुरूपा . वेदनाऽस्त्येवेति दर्शयितुमाह - नि. [९८] नत्थि य सि अंगुवंगा तयाणुरूवा य वेयणा तेसिं । केसिंचि उदीरंती केसिंचऽतिवायए पाणे ।। वृ. पूर्वार्द्ध गतार्थं, केषाञ्चित्पृथिवीकायिकानां तदारम्भिणः पुरुषा वेदनामुदीरयन्ति, केषाञ्चित्तु प्राणानप्यतिपातयेयुरिति ।तथा हि भगवत्यां दृष्टान्त उपात्तो यथा-चतुरन्तचक्रवर्त्तिनो गन्धपेषिका यौवनवर्तिनी बलवती आर्द्रामलकप्रमाणं सचित्तपृथिवीगोलकमेकविंशतिकृत्वो गन्धपट्टकेकठिनशिलापुत्रकेण पिंष्यात्, ततस्तेषांपृथिवीजीवानांकश्चित्सङ्घट्टितः कश्चित्परितापितः कश्चिद्व्यापादितोऽपरः किल तेन शिलापुत्रकेण न स्पृष्टोऽपीति ।। वधद्वारमाह - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy