________________
४४६
आचाराङ्ग सूत्रम् २/४/-/-/५४५
मू. (५४५) विऊ नए धम्मपयं अनुत्तरं, विणीयतण्हस्स मुणिस्स झायओ।
समाहियस्सऽग्गिसिहा व तेयसा, तवो य पन्ना य जसो य वड्ढइ ॥
वृ. 'विद्वान्' कालज्ञः ‘नतः' प्रणतः प्रह्वः, किं तत ? - 'धर्मपदं' क्षान्त्यादिकं, किंभूतम् ?–'अनुत्तरं' प्रधानमित्यर्थ,तस्य चैवंभूतस्य मुनेविंगततृष्णस्य ध्यायतो धर्मध्यानं 'समाहितस्य' उपयुक्तस्याग्निशिखावत्तेजसा ज्वलतस्तपः प्रज्ञा यशश्च वर्द्धत इति तथामू. (५४६) दिसोदिसंऽनंतजिणेण ताइणा, महव्वया खेमपया पवेइया।
महागुरू निस्सयरा उईरिया, तमेव तेउत्तिदिसं पगासगा। वृ. 'दिशोदिश मिति सर्वास्वप्येकेन्द्रियादिषु भावदिक्षु क्षेमपदानि रक्षणस्थानानि 'प्रवेदितानि' प्ररूपितानि, अनन्तश्चासौ ज्ञानात्मतया नित्यतया वा जिनश्च-रागद्वेषजयनादनन्तजिनस्तेन, किंभूतानि व्रतानि ?-'महागुरूणि' कापुरुषैर्दुर्वहत्वात् 'निस्वकराणि' स्वंकर्मानादिसम्बन्धात्तदपनयनसमर्थानि निस्वकराणि 'उदीरितानि' आविष्कृतानि तेजस इव तमोऽपनयनात्रिदिशंप्रकाशकानि, यथा तेजसतमोऽपनीयोवधिस्तिर्यप्रकाशते एवं तान्यपि कर्मतमोऽपनय-नहेतुत्वात्त्रिदिशंप्रकाशकानीति । मूलगुणानन्तरमुत्तरगुणाभिधित्सयाऽऽहमू. (५४७) सिएहिं भिक्खू असिए परिव्वए, असज्जमित्थीसु चइज्ज पूयणं ।
अनिस्सिओ लोगमिणं तहा परं, न मिज्जई कामगुणेहिं पंडिए॥ वृ.सिताः-बद्धाः कर्मणा गृहपाशेन रागद्वेषादिनिबन्धनेन वेति गृहस्थाअन्यतीर्थिकावा तैः ‘असितः' अबद्धः-तैः सार्द्ध सङ्गमकुर्वन् भिक्षु परिव्रजेत्' संयमानुष्ठायी भवेत्, तथा स्त्रीषु 'असजन्’ सङ्गमकुर्वन् पूजनं त्यजेत्-न सत्काराभिलाषी भवेत्, तथा अनिश्रितः' असंबद्धः 'इहलोके' अस्मिन्जन्मनितथा परलोके' स्वर्गादाविति, एवंभूतश्च 'कामगुणैः' मनोज्ञशब्दादिभिः 'न मीयते' न तोल्यतेन स्वीक्रिय इतियावत् ‘पण्डितः' कटुविपाककामगुणदर्शीति मू. (५४८) तहा विमुक्कस्स परिन्नचारिणो, धिईमओ दुक्खखमस्स भिक्खुणो।
विसुज्झई जंसि मलं पुरेकडं, समीरियं रुप्पमलं व जोइणा ॥ वृ. 'तथा' तेनप्रकारेणमूलोत्तरगुणधारित्वेन विमुक्तो-निसङ्गस्तस्य, तथापरिज्ञानं परिज्ञासदसद्विवेकस्तयाचरितुं शीलमस्येतिपरिज्ञाचारी-ज्ञानपूर्व क्रियाकारीतस्य, तथा धृति-समाधानं संयमे यस्य स धृतिमांस्तस्य, दुःखम्-असातावेदनीयोदयस्तदुदीर्णं सम्यक् क्षमते-सहते, न वैक्लव्यमुपयाति नापि तदुपशमार्थं वैद्यौषधादि मृगयते, तदेवंभूतस्य भिक्षोः पूर्वोपात्तं कर्म 'विशुध्यति' अपगच्छति, किमिव ?-'समीरितं' प्रेरितं रूप्यमलमिव 'ज्योतिषा' अग्निनेति साम्प्रतं भुजङ्गत्वगधिकारमधिकृत्याहमू. (५४९) से हु परिनासमयंमि वट्टई, निराससे उवरय मेहुणा चरे।
. भुयंगमे जुन्नतयं जहा चए, विमुञ्चई से दुहसिज्ज माहणे ॥ __ वृ. 'स' एवंभूतो भिक्षुर्मूलोत्तरगुणधारी पिण्डैषणाध्ययनार्थकरणोधुक्तः परिज्ञासमये वर्तते, तथा निराशंसः' ऐहिकामुष्मिकाशंसारहितः, तथा मैथुनादुपरतः,अस्य चोपलक्षणत्वादपरमहाव्रतधारीच, तदेवंभूतोभिक्षुर्यथासर्प कञ्चुकंमुक्त्वा निर्मलीभवति एवंमुनिरपि 'दुःखशय्यातः' नरकादिभवाद्विमुच्यत इति । समुद्राधिकारमधिकृत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org