________________
श्रुतस्कन्धः - २, चूडा-४
मू. (५५०) जमाहु ओहं सलिलं अपारयं, महासमुदं व भुयाहि दुत्तरं । अहे य णं परिजाणाहि पंडिए, से हु मुनी अंतकडेत्ति वुच्चई ।।
वृ. 'यं' संसारं समुद्रमिव भुजाभ्यां दुस्तरमाहुस्तीर्थकृतो गणधरादयो वा, किम्भूतम् ? - ओघरूपं तत्र द्रव्यौघः सलिलप्रवेशो भावौघ आनवद्वाराणि तथा मिथ्यात्वाद्यपारसलिलम्, इत्यनेनास्य दुस्तरत्वे कारणमुक्तम्, अथैनं संसारसमुद्रमेवंभूतं ज्ञपरिज्ञया सम्यग् जानीहि प्रत्याख्यानपरिज्ञया तु परिहर 'पण्डितः ' सदसद्विवेकज्ञः, स च मुनिरेवंभूतः कर्मणोऽन्तकृदुच्यते अपिच
"
मू. (५५१) जहा हि बद्धं इह मानवेहिं, जहा य तेसिं तु विमुक्ख आहिए । अहा तहा बन्धविमुक्ख जे विऊ, से हु मुनी अंतकडेत्ति वुच्चई ॥
वृ. 'यथा' येन प्रकारेण मिथ्यात्वादिना 'बद्धं' कर्म प्रकृतिस्थित्यादिनाऽऽत्मसात्कृतम् 'इह' अस्मिन् संसारे 'मानवैः' मनुष्यैरिति तथा यथा च सम्यग्दर्शनादिना तेषां कर्मणां विमोक्ष आख्यातः इत्येवं याथातथ्येन बन्धविमोक्षयोर्यः सम्यग्वेत्ता स मुनि कर्मणोऽन्तकृदुच्यते । । किञ्चमू. (५५२ ) इमंमि लोए परए य दोसुवि, न विज्जई बंधन जस्स किंचिवि । से हु निरालंबणमप्पइट्ठिए, कलंकलीभावपहं विमुञ्चइ ॥
वृ. अस्मिन् लोके परत्र च द्वयोरपि लोकयोर्न यस्य बन्धनं किञ्चनास्ति सः 'निरालम्बनः ' ऐहिकामुष्मिकाशंसारहितः 'अप्रतिष्ठितः ' न क्वचित्प्रतिबद्धोऽशरीरी वा स एवंभूतः 'कलंकलीभावात्' संसारगर्भादिपर्यटनाद्विमुच्यते ।। ब्रवीमीति पूर्ववत् ।
चूडा-४ समाप्ताः
श्रुतस्कन्धः - २ समाप्तः
उक्तोऽनुगमः, साम्प्रतं नयाः, ते च ज्ञानक्रियनययोरवतरन्ति तत्र ज्ञाननयः प्राह-यथा ज्ञानमेवैहिकामुष्मिकार्थावाप्तये, तदुक्तम्
119 11
नायम्मि गिण्हिअव्वे अगिण्हिअव्वंमि चेव अत्यंमि । जइअव्वमेव इइ जो उवएसो सो नओ नाम ।।
यतितव्यमिति ज्ञान यत्नो विधेय इति य उपदेशः स नयो नामेति-स ज्ञाननयो नामेत्यर्थ किर्यानयस्त्विदमाह -
119 11
क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥ ॥ १ ॥ “शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुरं हि, किं ज्ञानमात्रेण करोत्यरोगम् ? ॥
४४७
तथा - नायमित्यादि, ज्ञातयोरपि ग्राह्यग्राहकयोरत्थयोस्तथाऽपि यतितव्यमेवेति क्रियैवाभ्यसनीयेति, इति यो नयः स क्रियानयो नामेति, एवं प्रत्येकमभिसन्धाय परमार्थोऽयं निरूप्यते - 'ज्ञानक्रियाभ्यांमोक्ष' इति, तथा चागमः
119 11
" सव्वेसिंपि नयाणं बहुविहवत्तव्वंय निसामित्ता । तं सव्वनयविसुद्धं जं चरणगुणट्ठिओ साहू ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org