________________
श्रुतस्कन्धः - २, चूडा-४
४४५
नि. [३४६] जो चेव होइ मुक्खो सा उ विमुत्ति पगयं तु भावेणं ।
देसविमुक्का साहू सव्वविमुक्का भवे सिद्धा॥ वृ. य एव मोक्षः सैव विमुक्ति, अस्याश्च मोक्षवनिक्षेप इत्यर्थ, प्रकृतम्-अधिकारो भावविमुक्त्येति, भावविमुक्तिस्तु देशसर्वभेदाद्देधा, तत्र देशतसाधूनां भवस्थकेवलिपर्यन्तानां, सर्वविमुक्तास्तु सिद्धा इति, अष्टविधकर्मविचटनादिति॥ सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चदम्मू. (५४१) अनिच्चमावासमुर्विति जंतुणो, पलोयए सुच्चमिणं अनुत्तरं।
विउसिरे विन्नु अगारबंधणं, अभीरु आरंभपरिग्गहंचए॥ .आवसन्त्यस्मिन्नित्यावासो-मनुष्यादिभवस्तच्छरीरंवातमनित्यमुप-सामीप्येन यान्तिगच्छन्ति जन्तवः-प्राणिन इति, चतसृष्वपि गतिषु यत्र यत्रोत्पद्यन्ते तत्र तत्रानित्यभावमुपगच्छन्तीत्यर्थ, एतच्च मौनीन्द्रं प्रवचनमनुत्तरं श्रुत्वा 'प्रलोकयेत्' पर्यालोचयेद्, यथैव प्रवचनेऽनित्यत्वादिकमभिहितं तथैव लक्ष्यते-दृश्यते इत्यर्थ।
एतच्च श्रुत्वा प्रलोक्य च विद्वान् ‘व्युत्सृजेत्' परित्यजेत् ‘अगारबन्धन' गृहपाशं पुत्रकलत्रधनधान्यादिरूपं, किम्भूतः सन् ? इत्याह 'अभीरु' सप्तप्रकारभयरहितः परीषहोपसप्रिधृष्यश्च आरम्भ' सावद्यमनुष्ठानं परिग्रहंच सबाह्याभ्यन्तरं त्यजेदितिसाम्प्रतंपर्वताधिकारे,मू. (५४२) तहागयं भिक्खुमनंतसंजयं, अनेलिसं विन्नु चरंतमेसणं ।
तुदंति वायाहि अभिद्दवं नरा, सरेहिं संगामगयं व कुंजरं ।। वृ. तथाभूतं साधुम्-अनित्यत्वादिवासनोपेतं व्युत्सृष्टगृहबन्धनं त्यक्तारम्भपरिग्रहं, तथाऽनन्तेष्वेकेन्द्रियादिषुसम्यग्यतः संयतस्तम् अनीशम्' अनन्यसशं विद्वांसं' जिनागमगृहीतसारम् ‘एषणायांचरन्तं' परिशुद्धाहारादिना वर्तमानं,तमित्थंभूतंभिक्षु नरा' मिथ्याईष्टयः पापोपहतात्मानः 'वाग्भि' असभ्यालापैः 'तुदन्ति' व्यथन्ते, पीडामुत्पादयन्तीत्यर्थ, तथा लोष्टप्रहारादिभिरभिद्रवन्तिच, कथमिति दृष्टान्तमाह-शरैःसङग्रामगतंकुञ्जरमिव॥२॥अपिचमू. (५४३) तहप्पगारेहिं जणेहिं हीलिए, ससद्दफासा फरुसा उईरिया।
तितिक्खए नणि अदुढचेयसा, गिरिव्व वाएण न संपवेयए। वृ. 'तथाप्रकारैः' अनार्यप्रायैर्जनैः 'हीलितः' कदर्थितः, कथं ?, यतस्तैः परुषास्तीव्राः सशब्दाः-साक्रोशाः स्पर्शा-शीतोष्णादिका दुःखोत्पादका उत्-प्राबल्येनेरिता-जनिताः कृता इत्यर्थ, तांश्च स मुनिरेवं हीलितोऽति 'तितिक्षते' सम्यक्सहते, यतोऽसौ 'ज्ञानी' पूर्वकृतकर्म एवायं विपाकानुभव इत्येवं मन्यमानः, ‘अदुष्टचेताः' अकलुषान्तःकरणः सन् ‘न तैः संप्रवेपते' न कम्पते गिरिरिव वातेनेति अधुना रूप्यदृष्टान्तमधिकृत्याहमू. (५४४) उवेहमाणे कुसलेहिं संवसे, अकंतदुक्खी तसथावरा दुही।
अलूसए सव्वसहे महामुनी, तहा हि से सुस्समणे समाहिए॥ वृ. 'उपेक्षमाणः'परीषहोपसर्गान् सहमान इष्टानिष्टविषयेषु वोपेक्षमाणोमाध्यस्थ्यमवलम्बमानः ‘कुशलैः' गीतार्थे सहसंवसेदिति, कथम्?,अकान्तम्-अनभिप्रेतंदुःखम्असातावेदनीयंतद्विद्यतेयेषांत्रसस्थावराणांतान् दुःखिनस्त्रसस्थावरान् अलूषयन् अपरितापयन् पिहिताश्रवद्वारः पृथ्वीवत् 'सर्वंसहः' परीषहोपसर्गसहिष्णुः ‘महामुनि' सम्यग्जगत्रयस्वभाववेत्ता तथा ह्यसौ सुश्रमण इति समाख्यातः किञ्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org