________________
श्रुतस्कन्धः- २, चूडा-३, उपोद्घातः
४३१ दिभिर्द्रव्यैस्तिलादिषुद्रव्येषुयावासनासा द्रव्यभावनेति, तथाशीतेन भावितःशीतसहिष्णुरुष्णेन वा उष्णसहिष्णुर्भवतीति, आदिग्रहणाद्वयायामक्षुण्णदेहो व्यायामसहिष्णुरित्याद्यन्येनापिद्रव्येण द्रव्यस्य याभावनासा द्रव्यभावनेति, भावेतु-भावविषया प्रशस्ताऽप्रशस्तभेदेनद्विरूपाभावनेति ॥ तत्राप्रशस्तां भावभावनामधिकृत्याहनि. [३३१] पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव ।
कोहे माणे माया लोभे य हवंति अपसत्था॥ वृ.प्राणिवधाद्यकार्येषुप्रथमंप्रवर्त्तमानः साशङ्कःप्रवर्ततेपश्चात्पौनःपुन्यकरणतया निशङ्कः प्रवर्तते, तदुक्तम् - ॥१॥ "करोत्यादौ तावत्सघृणहृदयः किञ्चिदशुभं,
द्वितीयं सापेक्षो विमृशति च कार्यं च कुरुते । तृतीयं निशङ्को विगतघृणमन्यप्रकुरुते, ततः पापाभ्यासात्सततमशुभेषुप्ररमते॥ प्रशस्तभावनामाहनि. [३३२] सणनाणचरित्ते तववेरग्गेय होइ उ पसत्था।
जाय जहा ता य तहा लक्खण वुच्छं सलक्खणओ। वृ.दर्शनज्ञानचारित्रतपोवैराग्यादिषुयायथाचप्रशस्तभावना भवतितांप्रत्येकंलक्षणतो वक्ष्य इति । दर्शनभावनार्थमाहनि. [३३३] तित्थगराण भगवओपवयणपावयणिअइसइड्ढीणं ।
अभिगमणनमणदरिसणकित्तणसंपूअणाथुणणा॥ वृ. तीर्थकृतां भगवतां प्रवचनस्य-द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचनिनाम्आचार्यादीनांयुगप्रधानानां, तथाऽतिशयिनामृद्धिमतां-केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदां तथा-आमर्पोषध्यादिप्राप्तऋद्धीनांयदभिगमनंगत्वाच दर्शनंतथागुणोत्कीर्तनंसंपूजनंगन्धादिना स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनयाऽनवरतं भाव्यमानया दर्शनशुद्धिर्भवतीति । किञ्चनि. [३३४] जम्माभिसेयनक्खमणचरणनाणुप्पयाय निव्वाणे ।
दियलोअभवणमंदरनंदीसरभोमनगरेसुं॥ नि. [३३५] अट्ठावयमुजिते गयग्गपयए य धम्मचक्के य ।
पासरहावत्तनगंचमरुप्पायंच वंदामि। वृ.तीर्थकृतांजन्मभूमिषुतथानिष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषुतथादेवलोकभवनेषु मन्दरेषुतथा नन्दीश्वरद्वीपादौ भौमेषुच-पातालभवनेषुयानिशाश्वतानिचैत्यानितानिवन्देऽहमिति द्वितीयगाथायामन्ते क्रियेति, एवमष्टापदे, तथा श्रीमदुज्जयन्तगिरौ गजाग्रपदे' दशार्णकूटवर्तिनि तथा तक्षशिलायां धर्मचक्रे तथा अहिच्छत्रायां पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने।
__ एवं रथावर्ते पर्वते वैरस्वामिना यत्र पादपोपगमनं कृतं यत्र च श्रीमद्वर्द्धमानमाश्रित्य चमरेन्द्रेणोत्पतनंकृतम्, एतेषुच स्थानेषुयथासम्भवमभिगमनवन्दनपूजनोत्कीर्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवतीति ॥ किच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org