________________
४३२
आचाराङ्ग सूत्रम् २/३/9/-/- [नि. ३३६] नि. [३३६] गणियं निमित्त जुत्ती संदिट्ठी अवितहं इमं नाणं ।
इय एगंतमुवगया गुणपच्चइया इमे अत्था॥ नि. [३३७] गुणमाहप्पं इसिनामकित्तणंसुरनरिंदपूया य।
पोराणचेइयाणि य इय एसा दंसणे होइ॥ प्रवचनविदाममी गुणप्रत्ययिका अर्था भवन्ति, तद्यथा-गणितविषये-बीजगणितादौ परं पारमुपगतोऽयं, तथाऽष्टाङ्गस्य निमित्तस्य पारगोऽयं, तथा दृष्टिपातोक्ता नानाविधा युक्तोःद्रव्यसंयोगान्हेतून्वा वेत्ति, तथा सम्यग्-अविपरीता दृष्टि-दर्शनमस्य त्रिदशैरपिचालयितुमशक्या तथाऽवितथमस्येदं ज्ञानं यथैवायमाह तत्तथैयेत्येवं प्रावचनिकस्याचार्यादेः प्रशंसां कुर्वतो दर्शनविशुद्धिर्भवतीति,
एवमन्यदपि गुणमाहात्म्यमाचायदिवर्णयतः तथा पूर्वमहर्षीणां च नामोत्कीर्तनं कुर्वतः तेषामेव च सुरनरेन्द्रपूजादिकं कथयतः तथा चिरन्तनचैत्यानि पूजयतः इत्येवमादिकां क्रियां कुर्वतस्तद्वासनावासितस्य दर्शनविशुद्धिर्भवतीत्येषा प्रशस्ता दर्शनविषया भावनेति ॥ ज्ञानभावनामधिकृत्याहनि. [३३८] तत्तंजीवाजीवा नायव्वा जाणणा इहं दिट्ठा ।
इह कजकरणकारगसिद्धी इह बंधभुक्खो य॥ नि. [३३९] बद्धो य बंधहेऊ बंधणबंधष्फलं सुकहियं तु ।
संसारपवंचोऽविय इहयं कहिओ जिनवरेहिं नि. [३४०] नाणं भविस्सई एवमाइया वायणाइयाओ य ।
सज्झाए आउत्तो गुरुकुलवासो य इय नाणे॥ वृ. तत्र ज्ञानस्य भावना ज्ञानभावना-एवंभूतं मौनीन्द्रं ज्ञानं प्रवचनं यथाऽवस्थिताशेषपदार्थाविर्भावकमित्येवंरूपेति, अनया च प्रधानमोक्षाङ्गं सम्यक्त्वमाधिगमिकमाविर्भवति, यतस्तत्त्वार्थश्रद्धानं सम्यग्दर्शनं, तत्त्वं च जीवाजीवादयो नव पदार्था, ते च तत्त्वज्ञानार्थिना सम्यग्ज्ञातव्याः, तत्परिज्ञानमिहैव-आर्हतेप्रवचने दृष्टम् उपलब्धमिति, तथेहैव-आर्हतेप्रवचने कार्य-परमार्थरूपं मोक्षाख्यं तथा करणं-क्रियासिद्धौ प्रकृष्टोपकारकं सम्यग्दर्शनज्ञानचारित्राणि, कारकः-साधुः सम्यग्दर्शनाद्यनुष्ठाता, क्रियासिद्धिश्च-इहैव मोक्षावाप्तिलक्षणा,
तामेवदर्शयति-बन्धः-कर्मबन्धनंतस्मान्मोक्षः-कर्मविचटनलक्षणः,असावपीहैव, नान्यत्र शाक्यादिकप्रवचने भवति, इत्येवं ज्ञानं भावयतो ज्ञानभावना भवतीति ॥ तथा 'बद्धः' अष्टप्रकारकर्मपुद्गलैः प्रतिप्रदेशमवष्टब्धो जीवः, तथा 'बन्धहेतवः' मिथ्यात्वाविरतिप्रमादकषाययोगाः तथा बन्धनम्-अष्टप्रकारकर्मवर्गणारूपं तत्फलं-चतुर्गतिसंसारपर्यटनसातासाताद्यनुभवनरूपमिति, एतत्सर्वमत्रैव सुकथितम्, अन्यद्वा यत्किञ्चित्सुभाषितं तदिहैव प्रवचनेऽभिहितमिति ज्ञानभावना, तथा विचित्रसंसारप्रपञ्चोऽत्रैव जिनेन्द्रैः कथित इति।
तथा ज्ञानं मम विशिष्टतरं भविष्यतीति ज्ञानभावना विधेया, ज्ञानमभ्यसनीयमित्यर्थं, आदिग्रहणादेकाग्रचित्ततादयो गुणा भवन्तीति, तथैतदपि ज्ञाने भावनीयं, यथा-"जं अन्नाणी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org