SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः -२, चूडा-२, सप्तकक:३ ४२३ किञ्च-सभिक्षुर्यत्पुनरेवंभूतंस्थण्डिलंजानीयात्, तद्यथा-'आमोकानि कचवरपुआः 'घासाः' बृहत्योभूमिराजयः 'भिलुगाणि' श्लक्ष्णभूमिराजयः 'विजलं पिच्छलं 'स्थाणुः' प्रतीतः 'कड़वाणि' इक्षुयोन्नलकादिदण्डकाः 'प्रगत्ताः' महागत्ताः दरी' प्रतीता 'प्रदुर्गाणि कुड्यप्राकारादीनि, एतानि च समानि वा विषमानि वा भवेयुस्तदेतेष्वात्मसंयमविराधनासम्भवान्नोच्चारादि कुर्यादिति ॥ किञ्च-स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा-'मानुषरन्धनानि' चुल्लयादीनि तथा महिष्यादीनुद्दिश्य यन किञ्चिक्रियते ते वा यत्र स्थाप्यन्ते तत्र लोकविरुद्धप्रवचनोपघातादिभयानोच्चारादि कुर्यादिति ॥ तथा-स भिक्षु वेहानसस्थानानि' मानुषोल्लम्बनस्थानानि 'गृध्रपृष्ठस्थानानि' यत्रंर मुमूर्षवो गृध्रादिभक्षणार्थं रुधिरादिदिग्धदेहा निपत्यासते 'तरुपतनस्थानानि' यत्र मुमूर्षव एवानशनेन तरुवत्पतितास्तिष्ठन्ति तरुभ्यो वायत्र पतन्ति, एवं मेरुपतनस्थानान्यपि, मेरुश्च-पर्वतोऽभिधीयत इति, एवं विषभक्षणाग्निप्रवेशस्थानादिषु नोच्चारादि कुर्यादिति । अपि च-आरामदेवकुलादौ नोच्चारादि विदध्यादिति ।। तथाप्राकारसम्बन्धिन्यट्टालादौ नोच्चारादि कुर्यादिति ।। किञ्चत्रिकचतुष्कचत्वरादौ च नोच्चारादि व्युत्सजेदिति॥ किञ्च-सभिक्षुरङ्गारदाहस्थानश्मशानादौनोच्चारादिविदध्यादिति।।अपिच-'नद्यायतनानि' यत्र तीर्थस्थानेषु लोकाः पुण्यार्थं स्नानादि कुर्वन्ति पङ्कायतनानि' यत्र पङ्किलप्रदेशे लोकाधर्मार्थं लोटनादिक्रियांकुर्वन्ति ओघायतनानि' यानि प्रवाहतएव पूज्यस्थानानितडागजलप्रवेशौघमार्गो वा ‘सेचनपथे वा' नीकादौ नोच्चारादि विधेयमिति ॥ तथा-स भिक्षुरभिनवासु मृत्खनिषु, तथा नवासु गोप्रहेल्यासु ‘गवादनीषु सामान्येन वा गवादनीषु खनीषु वा नोच्चारादिविदध्यादिति । किञ्च-'डाग'त्तिडालप्रधानं शाकंपत्रप्रधानंतुशाकमेव तद्वतिस्थाने, तथा मूलकादिवति चनोच्चारादिकुर्यादिति ॥तथा-अशनो-बीयकस्तद्वनादौचनोच्चारादि कुर्यादिति, तथा पत्रपुष्पफलाधुपेतेष्विति॥कथं चोच्चारादि कुर्यादिति दर्शयति मू. (५०१) से भि० सयपाययं वा परपाययं वा गहाय से तमायाए एगंतमवक्कमे अणावायंसिअसंलोयंसि अप्पपाणंसिजाव मक्कडासंताणयंसिअहारामंसिवा उवस्सयंसितओ संजयामेव उच्चारपासवणं वोसिरिज्जा, से तमायाए एगंतमवक्कमे अणाबाहंसि जाव संताणयंसि अहारामंसि वा झामथंडिल्लंसि वा अन्नयरंसि वा तह० थंडिल्लंसि अचित्तंसि तओ संजयामेव उच्चारपासवणं वोसिरिज्जा, एयं खलु तस्स० सया जइज्जासि-त्तिबेमि ॥ वृ.सभिक्षुस्वकीयंपरकीयंवा पात्रकं समाधिस्थानंगृहीत्वास्थण्डिलं वाऽनापातमसंलोकं गत्वोच्चारं प्रस्रवणं वा 'कुर्यात्' प्रतिष्ठापयेदिति, शेषमध्ययनसमाप्तिं यावत्पूर्ववदिति॥ चूडा-२ सप्तैककः-३ समाप्तः -: सप्तककः-४ "शब्द":वृ.तृतीयानन्तरं चतुर्थ सप्तैककः समारभ्यते, अस्यचायमभिसम्बन्धः-इहायेस्थानंद्वितीये स्वाध्यायभूमिस्तृतीये उच्चारादिविधि प्रतिपादितः, तेषु च वर्तमानो यद्यनुकूलप्रतिकूलशब्दान् श्रृणुयात्तेष्वरक्तद्विष्टेन भाव्यम्, इत्यनेन सम्बन्धेनायातस्यास्य नामनिष्पन्ने निक्षेपे शब्दसप्तैकक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy