________________
श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - ७, उद्देशक : २
मू. (४९५) से भि० आगंतारेसु वा ४ जावोग्गहियंसि जे तत्था गाहावईण वा गाहा० पुत्ताण वा इच्चेयाई आयतणाई उवाइक्कम्म अह भिक्खू जाणिज्जा, इमाहिं सत्तहिं पडिमाहिं उग्गहं उग्गहित्तए, तत्थ खलु इमा पढमा पडिमा ।
४१७
से आगंतारेसु वा ४ अणुवीइ उग्गहं जाइज्जा जाव विहरिस्सामो पढमा पडिमा । अहावरा० जस्स णं भिक्खुस्स एवं भवइ- अहं च खलु अन्नेसिं भिक्खूणं अट्ठाए उग्गहं उग्गिण्हिस्सामि, अन्नेसिं भिक्खूणं उग्गहे उग्गहिए उवल्लिसामि, दुञ्चा पडिमा ।
अहा वरा० जस्स णं भि० अहं च० उग्गिण्हिस्साभि अन्नेसिं च उग्गहे उग्गहिए नो उवल्लिस्सामि, तञ्चा पडिमा ।
अहावरा० जस्स णं भि० अहं च० नो उग्गहं उग्गिण्हिस्सामि, अन्नेसिं च उग्गहे उग्गहिए उवल्लिस्सामि, चउत्था पडिमा ।
अहावरा० जस्स णं अहं च खलु अप्पणो अट्ठाए उग्गहं चउ०, नो दुण्हं नो तिण्हं नो चउण्हं नो पंचण्हं पंचमा पडिमा ।
अहावरा से भि० जस्स एव उग्गहे उवल्लिइज्जा से तत्थ अहासमन्नागए इक्क डे वा जाव पलाले तस्स लाभे संवसिज्जा, तस्स सलाभे उक्कुडुओ वा नेसज्जिओ वा विहरिज्जा, छट्टा पडिमा । अहावरा स० जे भि० अहासंथडमेव उग्गहं जाइज्जा, तंजहा- पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव तस्स लाभे संते० तस्स अलाभे उ० ने० विहरिज्जा, सत्तमा पडिमा ।
इच्चेयासिं सत्तण्हं पडिमाणं अन्नयरं जहा पिंडेसणाए ।
वृ. स भिक्षुरागन्तागारादाववग्रहे गृहीते ये तत्र गृहपत्यादयस्तेषां सम्बन्धीन्यायतनानि पूर्वप्रतिपादितान्यतिक्रम्यैतानि वक्ष्यमाणानि कर्मोपादानानि परिहत्यावग्रहमवग्रहीतुं जानीयात्, अथ भिक्षु सप्तभि प्रतिमाभिरभिग्रहविशेषैरवग्रहं गृह्णीयात्, तत्रेयं प्रथमा प्रतिमा, तद्यथा । सभिक्षुरागन्तागारादौ पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति
प्रथमा ।
तथाऽन्यस्य च भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथा अहंच खल्वन्येषा साधूनां कृतेऽवग्रहं 'गृहीष्यामि' याचिष्ये, अन्येषां वाऽवग्रहे गृहीते सति 'उपालयिष्ये' वत्स्यामीति द्वितीया । प्रथमा प्रतिमा सामान्येन, इयं तु गच्छान्तर्गतानां साधूनां साम्भोगिकानामसांभोगिकानां चोद्युक्तविहारिणां यतस्तेऽन्योऽन्यार्थं याचन्त इति ।
तृतीया त्वियम् - अन्यार्थमवग्रहं याचिष्येऽन्यावगृहीते तु न स्थास्यामीति एषा त्वाहालन्दिकानां यतस्ते सूत्रार्थविशेषमाचार्यादभिकाङ्क्षन्ता आचार्यार्थ याचन्ते ।
चतुर्थीपुनरहमन्येषां कृतेऽवग्रहं न याचिष्ये अन्यावगृहीते च वत्स्यामीति, इयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पाद्यर्थं परिकर्म कुर्वताम् ।
अथापरा पञ्चमी - अहमात्मकृतेऽवग्रहमवग्रहीष्यामि न चापरेषा द्वित्रिचतुष्पञ्चानामिति, इयं तु जिनकल्पिकस्य ।
अथापरा षष्ठी - यदीयमवग्रहं ग्रहीष्यामि तदीयमेवोत्कटादिसंस्तारकं ग्रहीष्यामि, इतरथोत्कुटुको वा निषण्णः उपविष्टो वा रजनीं गमिष्यामीत्येषा जिनकल्पिकादेरिति ।
127
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org