SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - ७, उद्देशक : १ ४१३ वृ. द्रव्यावग्रहः क्षेत्रावग्रहः कालावग्रहो भावावग्रहश्चेत्येवं चतुर्विधोऽवग्रहः, यदिवा सामान्येन पञ्चविधोऽवग्रहः, तद्यथा - देवेन्द्रस्य लोकमध्यवर्त्तिरुचकदक्षिणार्द्धमवग्रहः १, राज्ञश्चक्रवत्त्यदिर्भरतादिक्षेत्रं २, गृहपतेग्रममहत्तरादेग्रमपाटकादिकमवग्रहः ३, तथा सागारिकस्यशय्यातरस्य घङ्गशालादिकं ४, साधर्मिकाः साधवो ये मासकल्पेन तत्रावस्थितास्तेषां वसत्यादिरवग्रहः सपादं योजनमिति ५, तदेवं पञ्चविधोऽवग्रहः, वसत्यादिपरिग्रहं च कुर्वता सर्वेऽप्येते यथाऽवसरमनुज्ञाप्या इति ।। साम्प्रतं द्रव्याद्यवग्रहप्रतिपादनायाह नि. [३२०] दव्वुग्गहो उ तिविहो सचित्ताचित्तमीसओ चेव । खित्तुगोऽवि तिविहो दुविहो कालुग्गहो होइ ।। द्रव्याद्यवग्रहस्त्रिविधः, शिष्यादेः सचित्तो रजोहरणादेरचित्तः शिष्यरजोहरणादेर्मिश्रः, क्षेत्रावग्रहोऽपि सचित्तादिस्त्रिविध एव, यदिवा ग्रामनगरारण्यभेदादिति, कालावग्रहस्तु ऋतुबद्धवर्षाकालमेदाद्दिधेति । भावावग्रहप्रतिपादनार्थमाह नि. [३२१] मइउग्गहो य गहणुग्गहो य भावुग्गहो दुहा होइ । इंदिय नोइंदिय अत्थवंजणे उग्गहो दसहा ॥ भावाग्रहो द्वेधा, तद्यथा-मत्यवग्रहो ग्रहणावग्रहश्च तत्र मत्यवग्रहो द्विधा - अर्थावग्रहो व्यञ्जनावग्रहश्च, तत्रार्थावग्रह इन्द्रियनोइन्द्रियमेदात् षोढा, व्यञ्जनावग्रहस्तु चक्षुरिन्द्रियमनोवचतुर्धा, स एष सर्वोऽपि मतिभावावग्रहो दशधेति । ग्रहणावग्रहार्थमाह-नि. [ ३२२] गहणुग्गहम्मि अपरिग्गहस्स समणस्स गहणपरिणामो । कहपाडिहारियाऽ पाडिहारिए होइ ? जइयव्वं । वृ. अपरिग्रहस्य साधोर्यदा पिण्डवसतिवस्त्रपात्रग्रहणपरिणामो भवति तदा स ग्रहणभावावग्रहो भवति, तस्मिंश्च सति 'कथं' केन प्रकारेण मम शुद्धं वसत्यादिकं प्रातिहारिकमप्रातिहारिकं वा भवेदित्येवं यतितव्यमिति, प्रागुक्तश्च देवेन्द्राद्यवग्रहः पञ्चविधोऽप्यस्मिन् ग्रहणावग्रहे द्रष्टव्य इति ।। गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् -: चूडा-१ अध्ययनं -७ उद्देशकः-१ : मू. (४८९) समणे भविस्सामि अनगारे अकिंचणे अपुत्ते अपसू परदत्तभोई पावं कम्मं नो करिस्सामित्ति समुट्ठाए सव्वं भंते! अदिन्नादाणं पञ्च्चक्खामि, से अनुपविसित्ता गामं वा जाव रायहाणि वा नेव सयं अदिन्नं गिण्हिज्जा नेवऽन्नेहिं अदिन्नं गिण्हाविज्जा अदिन्नं गिण्हंतेवि अन्ने न समणुजाणिज्जा, जेहिवि सद्धिं संपव्यइए तेसिंपि जाई छत्तगं वा जाव चम्मछेयणगं वा तेसिं पुव्वामेव उग्गहं अननुन्नविय अपडिलेहिय २ अपमजिय २ नो उग्गिण्हिज्जा वा परिगिण्हिज्ज वा, ते सिं पुव्वामेव उग्गहं जाइज्जा अनुन्नविय पडिलेहिय पमज्जिय तओ स०. उग्गिण्हिज्ज वा प० ॥ वृ. श्राम्यतीति श्रमणः - तपस्वी यतोऽहमत एवंभूतो भविष्यामीति दर्शयति- 'अनगारः’ अगा-वृक्षास्तैर्निष्पन्नमगारं तन्न विद्यत इत्यनगारः, त्यक्तगृहपाश इत्यर्थ, तथा 'अकिञ्चनः' न विद्यते किमप्यस्येत्यकिञ्चनो, निष्परिग्रह इत्यर्थ, तथा 'अपुत्रः ' स्वजनबन्धुरहितो, निर्मम इत्यर्थ, एवम् 'अपशुः' द्विपदचतुष्पदादिरहितः, यत एवमतः परदत्तभोजी सन् पापं कर्म न करिष्यामीत्येवं समुत्थायैतव्प्रतिज्ञो भवामीति दर्शयति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy