________________
४१४
-
आचाराङ्ग सूत्रम् २/१/७/१/४९० यथा सर्वं भदन्त ! अदत्तादानं प्रत्याख्यामि, दन्तशोधनमात्रमपि परकीयमदत्तं न गृह्वामीत्यर्थ, तदनेन विशेषणकदम्बकेनापरेषांशाक्यसरजस्कादीनां सम्यक्श्रमणत्वं निराकृतं भवति, स चैवंभूतोऽकिञ्चनः श्रमणोऽनुप्रविश्य ग्रामं वा यावद्राजधानी वा नैव स्वयमदत्तं गृह्णीयात् नैवापरेण ग्राहयेत् नाप्यपरं गृहन्तं समनुजानीयात्, यैर्वा साधुभि सह सम्यक् प्रव्रजितस्तिष्ठति वा तेषामपि सम्बन्ध्युपकरणमननुज्ञाप्य गृह्णीयादिति दर्शयति ।
तद्यथा-छत्रकमिति 'छद अपवारणे' छादयतीति छत्रं वर्षाकल्पादि, यदिवा कारणिकः क्वचित्कुङ्कणदेशादावतिवृष्टिसम्भवाच्छत्रकमपिगृह्णीयाद्यावच्चर्मच्छेदनकमप्यनुज्ञाप्याप्रत्युपेक्ष्य च नावगृह्णीयात् सकृत् प्रगृह्णीयादनेकशः । तेषांच सम्बन्धि यथा गृह्णीयात्तथा दर्शयति-पूर्वमेव ताननुज्ञाप्य प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणादिना सकृदनेकशो वा गृह्णीयादिति ।। किञ्च
मू. (४९०) से भि० आगंतारेसु वा ४ अणुवीइ उग्गहं जाइजा, जे तत्थ ईसरे जे तत्थ महिएते उग्गहंअणुन्नविज्जा-कामं खलु आउसो०! अहालंदं अहापरिनार्यवसामोजाव आउसो जावआउसंतस्स उग्गहे जावसाहम्मिया एइतावं उग्गहं उग्गिहिस्सामो, तेण परं विहरिस्सामो
सेकिंपुणतत्थोग्गहंसिएवोग्गहियंसिजेतत्थसाहम्मिया संभोइयासमणुनाउवागच्छिज्जा जे तेण सयमेसित्तए असणे वा ४ तेण ते साहम्मिया ३ उवनिमंतिज्जा, नो चेवणं परवडियाए ओगिज्झय २ उवनि०॥
वृ.सभिक्षुरागन्तागारादौप्रविश्यानुविचिन्त्यच-पालोच्ययतिविहारयोग्यक्षेत्रंततोऽवग्रहं वसत्यादिकंयाचेत, यश्च याच्यस्तंदर्शयति-यस्तत्र 'ईश्वरः' गृहस्वामी तथायस्तत्र समधिष्ठाता' गृहपतिना निक्षिप्तभरः कृतस्तानवग्रह-क्षेत्रावग्रहम् अनुज्ञापयेत् “याचेत, कथमिति दर्शयति'काम'मिति तवेच्छया 'खलु' इति वाक्यालङ्कारे आयुष्मन् ! गृहपते! अहालंद मितियावन्मात्रं कालंभवाननुजानीते 'अहापरिन्नायंतियावन्मात्रं क्षेत्रमनुजानीषेतावन्मात्रं कालं तावन्मात्रंच क्षेत्रमाश्रित्य वयं वसाम इति यावत, ___ इहायुष्मन् ! यावन्मानं कालमिहायुष्मतोऽवग्रहो यावन्तश्च साधर्मिकाः-साधवःसमागमिष्यन्ति एतावन्मात्रमवग्रहिष्यामस्तत ऊर्ध्वं विहरिष्याम इति ।। अवगृहीते चावग्रहे सत्युत्तरकालविधिमाह-तदेवमवगृहीतेऽवग्रहे ससाधुः किंपुनः कुर्यादिति दर्शयति-येतत्रकेचन प्राघूर्णकाः 'साधर्मिकाः' साधवः ‘साम्भोगिकाः' एकसामाचारीप्रविष्टाः 'समनोज्ञाः' उद्युक्तविहारिणः ‘उपागच्छेयुः' अतिथयो भवेयुः, ते चैवंभूता ये तेनैव साधुना परलोकार्थिना स्वयमेषितव्याः, तेच स्वयमेवागता भवेयुः, तांश्चाशनादिनास्वयमाहृतेन ससाधुरुपनिमन्त्रयेद्, यथा-गृह्णीत यूयमेतनायाऽऽनीतमशनादिकं क्रियतां ममानुग्रहमित्येवमुपनिमन्त्रयेत्, न चैव 'परवडियाए'त्ति परानीतं यदशनादि तमृशम् 'अवगृह्य' आश्रित्य नोपनिमन्त्रयेत्, किं तर्हि ?, स्वयमेवानीतेन निमन्त्रयेदिति ॥तथा
मू. (४९१) से आगंतारेसु वा ४ जाव से किं पुण तत्थोग्गहंसि एवोग्गहियंसि जे तत्थ साहम्मिआ अन्नसंभोइआ समणुना उवागच्छिज्जा जे तेण सयमेसित्तए पीढे वा फलए वा सिज्जा वा संथारए वा तेण ते साहम्मिए अन्नसंभोइए समणुन्ने उवनिमंतिजा नो चेवणं परवडियाए ओगिल्झिय उवनिमंतिज्जा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org