________________
श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - ६, उद्देशक:१
आलावगा भाणियव्वा जहा वत्थेसणाए, नाणत्तं तिल्लेण वा धय० नव० वसाए वा सिणाणादि जाव अन्नयरं वा तहप्पगा० थंडिलंसि पडिलेहिय २ पम० २ तओ० संज० आमज्जिज्जा, एवं खलु० सया जएज्जा त्तिबेमि ॥
वृ. स भिक्षुरभिकाङ्क्षत् पात्रमन्वेष्टुं तत्पुनरेवं जानीयात्, तद्यथा - अलाबुकादिकं तत्र च यः स्थिरसंहननाद्युपेतः स एकमेव पात्रं बिभृयात् न च द्वितीयं, स च जिनकल्पिकादि, इतरस्तु मात्रकसद्वितीयं पात्रं धारयेत्, तत्र सङ्घाटके सत्येकस्मिन् भक्तं द्वितीये पात्रे पानकं, मात्रकं त्वाचार्यादिप्रायोग्यकृतेऽशुद्धस्य वेति ।
४११
'सेभिक्खू' इत्यादीनि सूत्राणि सुगमानि यावन्महार्धमूल्यानि पात्राणि लाभे सत्यप्रासुकानि न प्रतिगृह्णीयादिति, नवरं 'हारपुडपाय'त्ति लोहपात्रमिति । एवमयोबन्धनादिसूत्रमपि सुगमं । तथा प्रतिमाचतुष्टयसूत्राण्यपि वस्त्रैषणावन्नेयानीति नवरं तृतीयप्रतिमायां 'संगइयं' दातुः स्वाङ्गिकं - परिभुक्ताप्रायं 'वेजयंतियं' ति द्वित्रेषु पात्रेषु पर्यायेणोपभुज्यमानं पात्रं याचेत ।
‘एतया’ अनन्तरोक्तया पात्रैषणया पात्रमन्विषन्तं साधुं प्रेक्ष्य परो ब्रूयाद् भगिन्यादिकं यथा-तैलादिनाऽभ्यज्य साधवे ददस्वेत्यादि सुगममिति ॥ तथा-स नेता तं साधुमेवं ब्रूयाद्, यथा - रिक्तं पात्रं दातुं न वर्त्तत इति मुहूर्त्तकं तिष्ठ त्वं यावदर्शनादिकं कृत्वा पात्रकं भृत्वा ददामीत्येवं कुर्वन्तं निषेधयेत्, निषिद्धोऽपि यदि कुर्यात्ततः पात्रं न गृह्णीयादिति । यथा दीयमानं गृह्णीयात्तथाऽऽह-तेन दात्रा दीयमानं पात्रमन्तोषान्तेन प्रत्युपेक्षेतेत्यादि वस्त्रवन्नेयमिति, एतत्तस्य भिक्षोः सामग्र्यमिति ॥
चूडा-१ अध्ययनं -६ उद्देशकः-१ समाप्तः
-: अध्ययनं -६ उद्देशकः-२ :
वृ. उद्देशकाभिसम्बन्धोऽयम्-इहानन्तरसूत्रे पात्रनिरीक्षणमभिहितमिहापि तच्छेषमभिधीयते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्येदमादिसूत्रम्
मू. (४८७) से भिक्खू वा २ गाहावइकुलं पिंड. पविट्टे समाणे पुव्वामेव पेहाए पडिग्गहगं अवहट्टु पाणे पमज्जिय रयं तओ सं० गाहावई. पिंड० निक्ख० प० केवली०, आउ० ! अंतो पडिग्गहगंसि पाणे वा बीए वा हरि० परियावज्जिज्जा, अह भिक्खूणं पु० जं पुव्वामेव पेहाए पडिग्गहं अवहट्टु पाणे पमजिय रयं तओ सं० गाहावइ० निक्खमिज्ज वा ।
वृ. स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशन् पूर्वमेव भृशं प्रत्युपेक्ष्य पतद्ग्रहं, तत्र च यदि प्राणिनः पश्येत्ततस्तान् 'आहृत्य' निष्कृष्य त्यक्त्वेत्यर्थ, तथा प्रमृज्य च रजस्ततः संयत एव गृहपतिकुलं प्रविशेद्वा निष्क्रामेद्वा इत्येषोऽपि पात्रविधिरेव, यतोऽत्रापि पूर्वं पात्रं सम्यक् प्रत्युपेक्ष्य प्रमृज्य च पिण्डो ग्राह्य इति पात्रगतैव चिन्तेति, किमिति पात्रं प्रत्युपेक्ष्य पिण्डो ग्राह्य इति ?
अप्रत्युपेक्षिते तु कर्मबन्धो भवतीत्याह- केवली ब्रूयाद् यथा कर्मोपादानमेतत्, यथा च कर्मोपादानं तथा दर्शयति- 'अन्तः' मध्ये पतद्ग्रहकस्य प्राणिनो द्वीन्द्रियादयः, तथा बीजानि रजो वा 'पर्यापद्येरन्' भयेयुः, तथाभूते च पात्रे पिण्डं गृह्णतः कर्मोपादानं भवतीत्यर्थ, साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्पूर्वमेव पात्रप्रत्युपेक्षणं कृत्वा तद्गतप्राणिनोरजश्चापनीय गृहपतिकुले
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International