________________
४०६
आचाराङ्ग सूत्रम् २/१/५/१/४८०
'वृ. इत्येतानि' पूर्वोक्तानि वक्ष्यमाणानि वाऽऽयतनान्यतिक्रम्याथ भिक्षश्चतसृभिः 'प्रतिमाभि' वक्ष्यमाणैरभिग्रहविशेषैर्वस्त्रमन्वेष्टुं जानीयात्, तद्यथा- 'उद्दिष्टं' प्राक् सङ्कल्पितं वस्त्रं याचिये, प्रथमा प्रतिमा १, तथा 'प्रेक्षितं' दृष्टं सद् वस्त्रं याचिष्ये नापरमिति द्वितीया २, तथा अन्तरपरिभोगेन उत्तरीयपरिभोगेन वा शय्यातरेण परिभुक्तप्रायं वस्त्रं ग्रहीष्यामीति तृतीया ३, तथा तदेवोत्सृष्टधार्मिकं वस्त्रं ग्रहीष्यामीति चतुर्थी प्रतिमेति ४ सूत्रचतुष्टयसमुदायार्थः । आसां चतसृणां प्रतिमानां शेषो विधि पिण्डैषणावन्नेय इति ।
किञ्च- 'स्यात्' कदाचित् 'णम्' इति वाक्यालङ्कारे 'एतया' अनन्तरोक्तया वस्त्रैषणया वस्त्रमन्वेषयन्तं साधुं परो वदेद्, यथा-आयुष्मन् ! श्रमण ! त्वं मासादौ गते समागच्छ ततोऽहं वस्त्रादिकं दास्यामि, इत्येवं तस्य न शृणुयात्, शेषं सुगमं यावदिदानीमेव ददस्वेति, एवं वदन्तं साधुं परो ब्रूयाद्, यथा- अनुगच्छ तावत्पुन् स्तोकवेलायां समागताय दास्यामि इत्येतदपि न प्रतिश्रुणुयाद्, वदेच्चेदानीमेव ददस्वेति, तदेवं पुनरपि वदन्तं साधुं 'परो' गृहस्थो नेताऽपरं भगिन्यादिकमाहूय वदेद् यथाऽऽनयैतद्, वदेच्चेदानीमेव ददस्वेति, तदेवं पुनरपि वदन्तं साधुं 'परो' गृहस्थो नेताऽपरं भगिन्यादिकमाहूय वदेद् यथाऽऽनयैतद्, वस्त्रं येन श्रमणाय दीयते, वयं पुनरात्मार्थ भूतोपमर्देनापरं करिष्याम इति एतप्रकारं वस्त्रं पश्चात्कर्मभयाल्लाभे सति न प्रतिगृह्णीयादिति ॥
तथा स्यापर एवं वदेद्, यथा- स्नानादिना सुगन्धिद्रव्येणाघर्षणादिकांक्रियां कृत्वा दास्यामि, तदेतन्निशम्य प्रतिषेधं विदध्यात्, अथ प्रतिषिद्धोऽप्येवं कुर्यात्, ततो न प्रतिगृह्णीयादिति ॥ एवमुदकादिना धावनादिसूत्रमपि ॥ स परो वदेद्याचितः सन् यथा कन्दादीनि वस्त्रादपनीय दास्यामीति, अत्रापि पूर्ववन्निषेधादिकश्चर्च इति ॥ किञ्च स्यात्परो याचितः सन् कदाचिद्वस्त्रं 'निसृजेत्' दद्यात्, तं च ददमानमेवं ब्रूयाद्, यथा-त्वदीयमेवाहं वस्त्रमन्तोपान्तेन प्रत्युपेक्षिष्ये, नैवप्रत्युपेक्षितं गृह्णीयाद्, यतः केवली ब्रूयात्कर्मोपादानमेतत् किमिति ?, यतस्तत्र किञ्चित्कुण्डलादिकमाभरणजातं बद्धं भवेत्, सचित्तं वा किंचिद् भवेद्, अतः साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यद्वस्त्रं प्रत्युपेक्ष्य गृह्णीयादिति । किञ्च -
मू. (४८१) से भि० से जं० सअंडं० ससंताणं तहप्प० वत्थं अफा० नो प० ॥ से भि० से जं अप्पंडं जाव संताणगं अनलं अथिरं अधुवं अधारणिज्जं रोइज्जंतं न रुञ्चइ तह अफा० नो प० से भि० से जं० अप्पंडं जाव संताणगं अलं थिरं धुवं धारणिज्जं रोइज्जतं रुञ्चइ, तह० वत्थं फासु० पडि० ।
से भि० नो नवए मे वत्थेत्तिकट्टु नो बहुदेसिएण सिणाणेण वा जाव पघंसिज्जा ।। से भि० नो नवए मे वत्थेत्तिकट्टु नो बहुदे० सीओदगवियडेण वा २ जाव पहोइज्जा ॥ से भिक्खू वा २ दुभिगंधे मे वत्थित्तिकट्टु नो बहु० सिणाणेण तहेव बहुसीओ० उस्सि० आलावओ |
वृ. भिक्षुर्यत्पुनः साण्डादिकं वस्त्रं जानीयात् तन्न प्रतिगृह्णीयादिति । स भिक्षुर्यत्पुनरेवंभूतं वस्त्रं जानीयात्, तद्यथा अल्पाण्डं यावदल्पसन्तानकं किन्तु 'अनलम्' अभीष्टकार्यासमर्थं हीनादित्वात्, तथा ‘अस्थिरं' जीर्णम् 'अध्रुवं' स्वल्पकालानुज्ञापनात्, तथा 'अधारणीयम्' अप्रशस्तप्रदेशखञ्जनादिकलङ्काङ्कितत्वात्, तथा चोक्तम् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org