________________
श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-५, उद्देशकः
४०३
गतोऽध्ययनार्थाधिकारोवस्त्रैषणाप्रतिपाद्येति, उद्देशार्थाधिकारदर्शनार्थं तु नियुक्तिकार आहनि. [३१८] पढमे गहणंबीए धरणंपगयं तु दव्ववत्थेणं ।
एमेव होइ पायंभावे पायं तु गुणधारी॥ वृ.प्रथमेउद्देशके वस्त्रग्रहणविधिप्रतिपादितः, द्वितीयेतुधरणविधिरिति॥नामनिष्पन्नै तुनिक्षेपेवस्त्रैषणेति, तत्र वस्त्रस्य नामादिश्चतुर्विधोनिक्षेपः, तत्रापिनामस्थापने क्षुण्णे, द्रव्यवस्त्रं त्रिधा, तद्यथा-एकेन्द्रियनिष्पन्न कार्पासिकादि, विकलेन्द्रियनिष्प–चीनांशुकादि, पञ्चेन्द्रियनिष्पन्नं कम्बलरलादि, भाववस्त्रं त्वष्टादशशीलाङ्गसहस्साणीति, इह तु द्रव्यवस्त्रेणाधिकारः, तदाहनियुक्तिकारः___पगयंतु दव्यवस्थेणं'ति । वस्त्रस्येव पात्रस्यापि निक्षेप इति मन्यमानोऽत्रैव पात्रस्यापि निक्षेपातिनिर्देशं नियुक्तिकारो गाथापश्चा?नाह-‘एवमेव' इतिवस्त्रवत्पात्रस्यापिचतुर्विधोनिक्षेपः, तत्र द्रव्यपात्रमेकेन्द्रियादिनिष्पन्नं, भावपात्रं साधुरेव गुणधारीति ।। साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तञ्चेदम्
-चूडा-१ अध्ययनं-५ उद्देशकः-१:मू. (१७५) से भि० अभिकंखिज्जा वत्थं एसित्तए, से जंपुण वत्थं जाणिज्जा, तंजहाजंगियंवा भंगियंवा साणियंवा पोत्तगं वाखोमिर्यवातूलकडंवा, तहप्पगारंवत्थंवाजे निग्गंथे तरुणे जुगवं बलवं अप्पयंके थिरसंघयणे से एगं वत्थं धारिजा नो बीयं, जा निग्गंथी सा चत्तारिसंघाडीओधारिजा, एगंदुहत्यविस्थारंदोतिहत्यवित्थाराओएगं चउहत्यवित्थारं, तहप्पगारेहि वत्येहिं असंधिज्जमाणेहिं, अह पच्छा एगमेगं संसिविज्जा ।।
वृ. स भिक्षुरभिकाङ्केद्वस्त्रमन्वेष्टु तत्र यत्पुनरेवंभूतं वस्त्रं जानीयात्, तद्यथा-जंगियंति जङ्गमोष्ट्राचूर्णानिष्पन्नं, तथा “भंगिय'ति नानाभङ्गिकविकलेन्द्रियलालानिष्पन्नं, तथा 'साणयंति सणवल्कलनिष्पन्नं पोत्तगं'ति ताड्यादिपत्रसङ्घातनिष्पन्नं 'खोमियंतिकासिकं 'तूलकडं'ति अक्कादितूलनिष्पन्नम्, एवं तथाप्रकारमन्यदपि वस्त्रं धारयेदित्युत्तरेण सम्बन्धः । येन साधुना यावन्ति धारणीयानि तद्दर्शयति-तत्र यस्तरुणो निर्ग्रन्थः-साधुयौवने वर्तते 'बलवान्' समर्थ 'अल्पातङ्गः' अरोगी 'स्थिरसंहननः' इंढकायो इंढधृतिश्च, स एवंभूतः साधुरेकं 'वस्त्रं प्रावरणं त्वकत्राणार्थंधारयेत् नो द्वितीयमिति, यदपरमाचार्यादिकृते बिमर्तितस्यस्वयंपरिभोगनकुरुते, यः पुनर्बालो दुर्बलो वृद्धो वा यावदल्पसंहननः स यथासमाधि द्वयादिकमपि धारयेदिति, जिनकल्पिकस्तु यथाप्रतिज्ञमेव धारयेत्न तत्रापवादोऽस्ति।
यापुनर्निर्ग्रन्थी साचतम्र संघाटिका कारयेत्, तद्यथा-एकां द्विहस्तपरिमाणां यांप्रतिश्रये तिष्ठन्ती प्रावृणोति, द्वे त्रिहस्तपरिमाणे, तत्रैकामुज्वलां भिक्षाकाले प्रावृणोति, अपरां वहिभूमिगमनावसर इति, तथाऽपरां चतुर्हस्तविस्तरां समवसरणादौ सर्वशरीरप्रच्छादिकां प्रावृणोति, तस्याश्च यथाकृताया अलाभे अथ पश्चादेकमेकेन सार्द्ध सीव्येदिति । किञ्च
मू. (७६) से भि० परं अद्धजोयणमेराए वत्थपडिया० नो अभिसंधारिज गमणाए। वृ. स भिक्षुर्वस्त्रार्थमर्द्धयोजनात्परतो गमनाय मनो न विदध्यादिति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org